Followers

Search Here...

Thursday, 24 April 2025

ஸ்கந்தம் 10: அத்யாயம் 64 (ந்ருகன் பெற்ற பிறவி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ந்ருகன் பெற்ற பிறவி

ஸ்கந்தம் 10: அத்யாயம் 64

श्री-शुकः उवाच
एकदा उपवनम् राजन् जग्मुः यदु-कुमारकाः।
विहर्तुम् साम्ब-प्रद्युम्न-चारु-भानु-गद-आदयः॥ १ ॥


क्रीडित्वा सु-चिरम् तत्र विचिन्वन्तः पिपासिताः।
जलम् निर्-उदके कूपे ददृशुः सत्त्वम् अद्भुतम् ॥ २ ॥


कृकलासम् गिरि-निभम् वीक्ष्य विस्मित-मानसाः।
तस्य च उद्धरणे यत्नम् चक्रुः ते कृता-अन्विताः ॥ ३ ॥


चर्मजैः तान्तवैः पाशैः बद्ध्वा पतितम् अर्भकाः।
न अशक्नुवन् सम्-उद्धर्तुम् कृष्णाय आचख्युः उत्सुकाः ॥ ४ ॥


तत्र आगत्य अरविन्द-अक्षः भगवान् विश्व-भावनः।
वीक्ष्य उज्जहार वामेन तम् करेण सः लीलया ॥ ५ ॥


सः उत्तम-श्लोक-कर-अभिमृष्टः
विहाय सद्यः कृकलास-रूपम्।
सन्तप्त-चामीकर-चारु-वर्णः
स्वर्ग्य-अद्भुत-आलङ्करण-अम्बर-स्रक् ॥ ६ ॥


पप्रच्छ विद्वान् अपि तत् निदानम्
जनेषु विख्यापयितुम् मुकुन्दः।
कः त्वम् महा-भाग वरेण्य-रूपः
देव-उत्तमम् त्वाम् गणयामि नूनम् ॥ ७ ॥


दशाम् इमाम् वा कतमेन कर्मणा
सम्प्रापितः अस्य तत् अर्हः सुभद्र।
आत्मानम् आख्याहि विवित्सताम् नः
यत् मन्यसे नः क्षमम् अत्र वक्तुम् ॥ ८ ॥


श्री-शुक उवाच -
इति स्म राजा सम्पृष्टः कृष्णेन अनन्त-मूर्तिना।
माधवम् प्रणिपत्य आह किरीटेन अर्क-वर्चसा ॥ ९ ॥


नृगः उवाच -
नृगः नाम नरेन्द्रः अहम् इक्ष्वाकु-तनयः प्रभो।
दानिषु आख्यायमानेषु यदि ते कर्णम् अस्पृशम् ॥ १० ॥


किम् नु ते अविदितम् नाथ सर्व-भूत-आत्म-साक्षिणः।
कालेन अव्याहत-दृशः वक्ष्ये अथ अपि तव आज्ञया ॥ ११ ॥


यावत्यः सिकताः भूमेः यावत्यः दिवि तारकाः।
यावत्यः वर्ष-धाराः च तावतः अददं स्म गाः ॥ १२ ॥


पयस्विनः तरुणीः शील-रूप-
गुण-उपपन्नाः कपिलाः हेम-सृङ्गीः।
न्याय-अर्जिताः रूप्य-खुराः स-वत्साः
दुकूल-माला-आभरणाः अददाम् अहम् ॥ १३ ॥


स्व-अलङ्कृतेभ्यः गुण-शील-वद्भ्यः
सीदत्-कुटुम्बेभ्यः ऋत-व्रतेभ्यः।
तपः-श्रुत-ब्रह्म-वदान्य-सद्भ्यः
प्रादाम् युवभ्यः द्विज-पुङ्गवेभ्यः ॥ १४ ॥


गो-भू-हिरण्य-आयतन-अश्व-हस्तिनः
कन्याः सदा-असीः तिल-रूप्य-शय्याः।
वासांसि रत्नानि परिच्छदान् रथान्
निष्ठाम् च यज्ञैः चरितम् च पूर्तम् ॥ १५ ॥


कस्यचित् द्विज-मुख्यस्य भ्रष्टा गौः मम गो-धने।
सम्पृक्ता अविदुषा सा च मया दत्ता द्विजातये ॥ १६ ॥


ताम् नीयमानाम् तत्-स्वामी दृष्ट्वा उवाच मम् इति तम्।
मम् इति प्रतिग्राह्य आह नृगः मे दत्तवान् इति ॥ १७ ॥


विप्रौ विवदमानौ माम् ऊचतुः स्व-अर्थ-साधकौ।
भवान् दाता अपहर्ता इति तत् श्रुत्वा मे अभवत् भ्रमः ॥ १८ ॥


अनुनीतौ उभौ विप्रौ धर्म-कृच्छ्र-गतेन वै।
गवाम् लक्षम् प्रकृष्टानाम् दास्यामि एषा प्रदीयताम् ॥ १९ ॥


भवन्तौ अनुगृह्णीताम् किङ्करस्य अविजानतः।
सम्-उद्धरतम् माम् कृच्छ्रात् पतन्तम् निरये अशुचौ ॥ २० ॥


न अहम् प्रतीच्छे वै राजन् नित्य-उक्त्वा स्वामि-अपाक्रमत्।
न अन्यत् गवाम् अपि अयुतम् इच्छामि इति अपरः ययौ ॥ २१ ॥

एतस्मिन् अन्तर-ए यामैः दूतैः नीतः यम-अक्षयम्।
यमेन पृष्टः तत्र अहम् देव-देव जगत्-पते ॥ २२ ॥

पूर्वम् तु अम्-अशुभम् भुङ्क्षे उत आहो नृपते शुभम्।
न अन्तम् दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥ २३ ॥

पूर्वम् देव अशुभम् भुञ्ज इति प्राह पतिः इति सः।
तावत् अद्राक्षम् आत्मानम् कृकलासम् पतन् प्रभो ॥ २४ ॥

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव।
स्मृतिः न अद्य अपि विध्वस्ता भवत्-सन्दर्शन-अर्थिनः ॥ २५ ॥

सः त्वम् कथम् मम विभो अपि इतः पर-आत्मा।
योग-ईश्वरैः श्रुति-दृशाम् अमल-हृत्-विभाव्यः॥
साक्षात् अधः-क्षजः उरु-व्यसन-अन्ध-बुद्धेः।
स्यात् मे अनुदृश्यः इह यस्य भव-अपवर्गः ॥ २६ ॥

देव-देव जगत्-नाथ गोविन्द पुरुष-उत्तम।
नारायण हृषी-केश पुण्य-श्लोक-अच्युत-अव्यय ॥ २७ ॥

अनुजानीहि माम् कृष्ण यान्तम् देव-गतिम् प्रभो।
यत्र क्व अपि सतः चेतः भूयात् मे त्वत्-पद-आस्पदम् ॥ २८ ॥

नमः ते सर्व-भावाय ब्रह्मणे अनन्त-शक्तये।
कृष्णाय वासुदेवाय योगानाम् पतये नमः ॥ २९ ॥

इति उक्त्वा तम् परिक्रम्य पादौ स्पृष्ट्वा स्व-मौलिना।
अनुज्ञातः विमान-अग्र्यम् आरुहत् पश्यताम् नृणाम् ॥ ३० ॥

कृष्णः परिजनम् प्राह भगवान् देवकी-सुतः।
ब्रह्मण्य-देवः धर्म-आत्मा राजन्-यान् अनुशिक्षयन् ॥ ३१ ॥

दुर्जरम् बत ब्रह्म-स्वम् भुक्तम् अग्नेः मनाक् अपि।
तेजीयसः अपि किम् उत राज्ञाम् ईश्वर-मानिनाम् ॥ ३२ ॥

न अहम् हालाहलम् मन्ये विषम् यस्य प्रतिक्रिया।
ब्रह्म-स्वम् हि विषम् प्रोक्तम् न अस्य प्रतिविधिः भुवि ॥ ३३ ॥

हिनस्ति विषम् अत्तारम् वह्निः अद्भिः प्रशाम्यति।
कुलम् समूलम् दहति ब्रह्म-स्व-रणि-पावकः ॥ ३४ ॥

ब्रह्म-स्वम् दुर्-अनुज्ञातम् भुक्तम् हन्ति त्रि-पुरुषम्।
प्रसह्य तु बलात् भुक्तम् दश पूर्वान् दश अपरान् ॥ ३५ ॥

राजानः राज-लक्ष्म्या अन्धाः न आत्म-पातम् विचक्षते।
निरयम् ये अभिमन्यन्ते ब्रह्म-स्वम् साधवः बालिशाः ॥ ३६ ॥

गृह्णन्ति यावतः पांसून् क्रन्दताम् अश्रु-बिन्दवः।
विप्राणाम् हृत-वृत्तीनाम् वदान्यानाम् कुटुम्बिनाम् ॥ ३७ ॥

राजानः राज-कुल्याः च तावतः अब्दान् निरङ्कुशाः।
कुम्भी-पाकेषु पच्यन्ते ब्रह्म-दाय-अपहारिणः ॥ ३८ ॥

स्व-दत्ताम् पर-दत्ताम् वा ब्रह्म-वृत्तिम् हरेत् च यः।
षष्टि-वर्ष-सहस्राणि विष्ठायाम् जायते कृमिः ॥ ३९ ॥

न मे ब्रह्म-धनम् भूयात् यत् गृद्ध्वा अल्प-आयुषः नराः।
पराजिताः च्युताः राज्यात् भवन्ति उद्वेजिनः अहयः ॥ ४० ॥

विप्रम् कृत-अगसम् अपि नैव द्रुह्यत मामकाः।

घ्नन्तम् बहु शपन्तम् वा नमस्कुरुत नित्यशः ॥ ४१ ॥


यथा अहम् प्रणमे विप्रान् अनु-कालम् समाहितः।

तथा नमत यूयं च यः अन्यथा मे सः दण्ड-भाक् ॥ ४२ ॥


ब्राह्मण-अर्थः हि अपहृतः हर्तारम् पातयति अधः।

अजानन्तम् अपि हि एनम् नृगम् ब्राह्मण-गौर् इव ॥ ४३ ॥


एवम् विश्राव्य भगवान् मुकुन्दः द्वारका-उकसः।

पावनः सर्व-लोकानाम् विवेश निज-मन्दिरम् ॥ ४४ ॥


॥ इति श्रीमद्भागवते महा-पुराणे पारमहंस्याम् संहितायाम्

दशम-स्कन्धे उत्तर-अर्धे नृग-उपाख्यानम् नाम

चतुः-षष्टितमः अध्यायः ॥ ६४ ॥

ஸ்கந்தம் 10: அத்யாயம் 63 (கண்ணன் பானாசுரனோடு யுத்தம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணன் பானாசுரனோடு யுத்தம்

ஸ்கந்தம் 10: அத்யாயம் 63

श्री-शुकः उवाच 
अपश्यताम् च अनिरुद्धम् तद्-बन्धूनाम् च भारत। चत्वारः वार्षिकाः मासाः व्यतीयुः अनुशोचताम् ॥ १ ॥ 

नारदात् तत् उपाकर्ण्य वार्ताम् बद्धस्य कर्म च। प्रययुः शोणित-पुरम् वृष्णयः कृष्ण-दैवताः ॥ २ ॥ 

प्रद्युम्नः युयुधानः च गदः साम्बः अथ सारणः। नन्द-उपनन्द-भद्र-आद्याः राम-कृष्ण-अनुवर्तिनः ॥ ३ ॥ 

अक्षौहिणीभिः द्वादशभिः समेताः सर्वतः दिशम्। रुरुधुः बाण-नगरम् समन्तात् सात्वत-ऋषभाः ॥ ४ ॥ 

भज्यमान-पुर-उद्यान-प्राकार-अट्टाल-गोपुरम्। प्रेक्षमाणः रुषा आविष्टः तुल्य-सैन्यः अभिनिर्ययौ ॥ ५ ॥ 

बाण-अर्थे भगवान् रुद्रः स-सुतैः प्रमथैः वृतः। आरुह्य नन्दि-वृषभम् युयुधे राम-कृष्णयोः ॥ ६ ॥ 

आसीत् सुतुमुलम् युद्धम् अद्‌भुतम् रोमहर्षणम्। कृष्ण-शङ्करयोः राजन् प्रद्युम्न-गुहयोः अपि ॥ ७ ॥ 

कुम्भाण्ड-कूपकर्ण-आभ्याम् बलेन सह संयुगः। साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः ॥ ८ ॥ 

ब्रह्म-आदयः सुर-अधीशाः मुनयः सिद्ध-चारणाः। गन्धर्व-अप्सरसः यक्षाः विमानैः द्रष्टुम् आगमन् ॥ ९ ॥ 
शङ्कर-अनुचरान् शौरिः भूत-प्रमथ-गुह्यकान्। डाकिनी-यातुधानान् च वेतालान् स-विनायकान् ॥ १० ॥ 

प्रेत-मातृ-पिशाचान् च कूष्माण्डान् ब्रह्म-राक्षसान्। द्रावयामास तीक्ष्ण-अग्रैः शरैः शार्ङ्ग-धनुः-च्युतैः ॥ ११ ॥ 
पृथक्-विधानि प्रायुङ्क्त पिणाकि-अस्त्राणि शाङ्गिणे। प्रत्य-अस्त्रैः शमयामास शार्ङ्ग-पाणिः अविस्मितः ॥ १२ ॥ 

ब्रह्म-अस्त्रस्य च ब्रह्म-अस्त्रम् वायव्यस्य च पार्वतम्। आग्नेयस्य च पार्जन्यम् नैजम् पाशुपतस्य च ॥ १३ ॥ 

मोहयित्वा तु गिरिशम् जृम्भण-अस्त्रेण जृम्भितम्। बाणस्य पृतनाम् शौरिः जघान असि-गद-इषुभिः ॥ १४ ॥ 

स्कन्दः प्रद्युम्न-बाण-ओघैः अर्द्यमानः समन्ततः। असृक् विमुञ्चन् गात्रेभ्यः शिखिना अपक्रमत् रणात् ॥ १५ ॥ 

कुम्भाण्डः कूपकर्णः च पेततुः मुषल-अर्दितौ। दुद्रुवुः तत्-अनीकानि हत-नाथानि सर्वतः ॥ १६ ॥ 

विशीर्यमाणम् स्व-बलम् दृष्ट्वा बाणः अत्य-अमर्षणः। कृष्णम् अभ्यद्रवत् संख्ये रथी हित्वा एव सात्यकिम् ॥ १७ ॥ 

धनूंषि आकृष्य युगपत् बाणः पञ्च-शतानि वै। एक-एकस्मिन् शरौ द्वौ-द्वौ सन्दधे रण-दुर्मदः ॥ १८ ॥ 

तानि चिच्छेद भगवान् धनूंषि युगपत् हरिः। सारथिम् रथम् अश्वान् च हत्वा शङ्खम् अपूरयत् ॥ १९ ॥ 

तत्-माता कोटरा नाम नग्ना मुक्त-शिर-उरुहा। पुरः अवतस्थे कृष्णस्य पुत्र-प्राण-रिरक्षया ॥ २० ॥

ततः तिर्यङ्मुखः नग्नाम् अनिरीक्षन् गद-अग्रजः।
बाणः च तावत् विरथः छिन्न-धन्वा अविशत् पुरम् ॥ २१ ॥

विद्राविते भूत-गणे ज्वरः तु त्रि-शिराः त्रि-पात्।
अभ्यधावत दाशार्हम् दहन् इव दिशः दश ॥ २२ ॥

अथ नारायणः देवः तम् दृष्ट्वा व्यसृजत् ज्वरम्।
माहेश्वरः वैष्णवः च युयुधाते ज्वरौ उभौ ॥ २३ ॥

माहेश्वरः सम्-आक्रन्दन् वैष्णवेन बल-अर्दितः।
अलब्ध्वा अभयम् अन्यत्र भीतः माहेश्वरः ज्वरः।
शरण-अर्थी हृषीकेशम् तुष्टाव प्रयत-अञ्जलिः ॥ २४ ॥

ज्वरः उवाच -
नमामि त्वा अनन्त-शक्तिम् परेशम्
सर्व-आत्मानम् केवलम् ज्ञप्ति- मात्रम्।
विश्व-उत्पत्ति-स्थान-संरोध-हेतुम्
यत् तत् ब्रह्म ब्रह्म-लिङ्गम् प्रशान्तम् ॥ २५ ॥

कालः दैवम् कर्म जीवः स्वभावः
द्रव्यम् क्षेत्रम् प्राणः आत्मा विकारः।
तत्-सङ्घातः बीज-रोह-प्रवाहः
त्वत्-माया एषा तत्-निषेधम् प्रपद्ये ॥ २६ ॥

नाना-भावैः लीलया एव उपपन्नैः
देवान् साधून् लोक-सेतून् बिभर्षि।
हंसि उन्मार्गान् हिंसया वर्तमानान्
जन्म एतत् ते भार-हाराय भूमेः ॥ २७ ॥

तप्तः अहम् ते तेजसा दुःसहेन
शान्त-उग्रेण अति-उल्बणेन ज्वर्रेण।
तावत् तापः देहिनाम् ते अङ्घ्रि-मूलम्
नः सेवेरन् यावत् आशा-अनुबद्धाः ॥ २८ ॥

श्री-भगवान् उवाच -
त्रि-शिराः ते प्रसन्नः अस्मि व्येतु ते मत्-ज्वरात् भयम्।
यः नौ स्मरति संवादम् तस्य त्वम् न भवेत् भयम् ॥ २९ ॥

इति उक्तः अच्युतम् आनम्य गतः माहेश्वरः ज्वरः।
बाणः तु रथम् आरूढः प्रागात् योत्स्यम् जनार्दनम् ॥ ३० ॥

ततः बाहु-सहस्रेण नाना-आयुध-धरः असुरः।
मुमोच परम-क्रुद्धः बाणान् चक्रायुधे नृप ॥ ३१ ॥

तस्य अस्यतः अस्त्राणि असकृत् चक्रेण क्षुर-नेमिना।
चिच्छेद भगवान् बाहून् शाखाः इव वनस्पतेः ॥ ३२ ॥

बाहुषु उच्छिद्यमानेषु बाणस्य भगवान् भवः।
भक्तान् अ-कम्प्य उपव्रज्य चक्रायुधम् अभाषत ॥ ३३ ॥

श्री-रुद्रः उवाच -
त्वम् हि ब्रह्म परम् ज्योतिः गूढम् ब्रह्मणि वाङ्मये।
यम् पश्यन्ति अमल-आत्मानः आकाशम् इव केवलम् ॥ ३४ ॥

नाभिः नभः अग्निः मुखम् अम्बु रेतः
द्यौः शीर्षम् आशाः श्रुतिः अङ्घ्रिः उर्वी।
चन्द्रः मनः यस्य दृक् अर्कः आत्मा
अहम् समुद्रः जठरम् भुज-इन्द्रः ॥ ३५ ॥

रोमाणि यस्य औषध्यः अम्बु-वाहाः
केशाः विरिञ्चः धिषणा विसर्गः।
प्रजापतिः हृदयं यस्य धर्मः
सः वै भवान् पुरुषः लोक-कल्पः ॥ ३६ ॥

तव अवतारः अयम् अकुण्ठ-धामन्
धर्मस्य गुप्त्यै जगतः भवाय।
वयम् च सर्वे भवता अनुभाविताः
विभावयामः भुवनानि सप्त ॥ ३७ ॥

त्वम् एकः आद्यः पुरुषः अद्वितीयः
तुर्यः स्व-दृक् हेतु-अहेतुः ईशः।
प्रतीयसे अथ अपि यथा अविकारम्
स्व-मायया सर्व-गुण-प्रसिद्ध्यै ॥ ३८ ॥

यथा एव सूर्यः पिहितः छायया स्वया
छायाम् च रूपाणि च सञ्चकास्ति।
एवम् गुणेन अपिहितः गुणान् त्वम्
आत्म-प्रदीपः गुणिनः च भूमन् ॥ ३९ ॥

यत् माया-मोहित-धियः पुत्र-दार-गृह-आदिषु।
उन्मज्जन्ति निमज्जन्ति प्रसक्ताः वृजिन-अर्णवे ॥ ४० ॥

देवदत्तम् इम् अम् लब्ध्वा नृ-लोकम् अजित-इन्द्रियः।
यः न आद्रियेत त्वत्-पादौ सः शोच्यः हि आत्म-वञ्चकः ॥ ४१ ॥

यः त्वाम् विसृजते मर्त्यः आत्मानम् प्रियम् ईश्वरम्।
विपर्यय-इन्द्रिय-अर्थ-अर्थम् विषम् अत्त्य् अमृतम् त्यजन् ॥ ४२ ॥

अहम् ब्रह्म अथ विबुधाः मुनयः च अमल-आशयाः।
सर्व-आत्मना प्रपन्नाः त्वाम् आत्मानम् प्रेष्ठम् ईश्वरम् ॥ ४३ ॥

तम् त्वाम् जगत्-स्थिति-उदय-अन्त-हेतुम्
समम् प्रशान्तम् सुहृत्-आत्म-दैवम्।
अनन्यम् एकम् जगत्-आत्म-केतुम्
भव-अपवर्गाय भजाम देवम् ॥ ४४ ॥

अयम् मम इष्टः दयितः अनुवर्ती
मया अभयम् दत्तम् अमुष्य देव।
संपाद्यताम् तत् भवतः प्रसादः
यथा हि ते दैत्य-पतौ प्रसादः ॥ ४५ ॥

श्री-भगवान् उवाच -
यत् आत्तः भगवन् त्वम् नः करवाम प्रियम् तव।
भवतः यत् व्यवसितम् तत् मे साधु अनुमोदितम् ॥ ४६ ॥

अवध्यः अयम् मम अपि एषः वैरोचनि-सुतः असुरः।
प्रह्रादाय वरः दत्तः न वध्यः मे तव अन्वयः ॥ ४७ ॥

दर्प-उपशमनाय अस्य प्रवृक्ताः बाहवः मया।
सूदितम् च बलम् भूरि यत् च भारायितम् भुवः ॥ ४८ ॥

चत्वारः अस्य भुजाः शिष्टाः भविष्यन्ति अजर-अमराः।
पार्षद-मुख्यः भवतः न कुतःचित् भयः असुरः ॥ ४९ ॥

इति लब्ध्वा अभयम् कृष्णम् प्रणम्य शिरसा असुरः।
प्राद्युम्निम् रथम् आरोप्य स-वध्वा सम्-उपानयत् ॥ ५० ॥

अक्षौहिण्या परिवृतम् सु-वासः सम्-अलङ्कृतम्।
स-पत्नीकम् पुरः-कृत्य ययौ रुद्र-अनुमोदितः ॥ ५१ ॥

स्व-राज-धानीम् सम्-अलङ्कृताम् ध्वजैः
स-तोरणैः उक्षित-मार्ग-चत्वराम्।
विवेश शङ्ख-अनक-दुन्दुभि-स्वनैः
अभ्युद्यतः पौर-सुहृत्-द्विजातिभिः ॥ ५२ ॥

यः एवम् कृष्ण-विजयम् शङ्करेण च सं-युगम्।
संस्मरेत् प्रातः-उत्थाय न तस्य स्यात् पराजयः ॥ ५३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः ॥ 63