Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 76 (ருக்மிணி கல்யாணத்தில் கிருஷ்ணனிடம் தோற்ற சால்வன், துவாரகையை ஆகாய மார்க்கமாக தாக்குகிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணி கல்யாணத்தில் கிருஷ்ணனிடம் தோற்ற சால்வன், துவாரகையை

ஆகாய மார்க்கமாக தாக்குகிறான்

ஸ்கந்தம் 10: அத்யாயம் 76

श्री-शुकः उवाच — 
अथ अन्यत् अपि कृष्णस्य शृणु कर्म अद्भुतम् नृप।
क्रीडा-नर-शरीरस्य यथा सौभ-पतिः हतः॥1॥

शिशुपाल-सखः शाल्वः रुक्मिणि-उद्वाहे आगतः।
यदुभिः निर्जितः सङ्ख्ये जरासन्ध-आदयः तथा॥2॥

शाल्वः प्रतिज्ञाम् अकरोत् शृण्वताम् सर्व-भूभुजाम्।
अ-यादवीं क्ष्माम् करिष्ये पौरुषम् मम पश्यत॥3॥

इति मूढः प्रतिज्ञाय देवं पशुपतिम् प्रभुम्।
आराधयामास नृपः पांसु-मुष्टिम् सकृत् ग्रसन्॥4॥

संवत्सर-अन्ते भगवान् आशुतोषः उमापतिः।
वरेण अच्छन्दयामास शाल्वम् शरणम् आगतम्॥5॥

देव-असुर-मनुष्याणाम् गन्धर्व-उरग-रक्षसाम्।
अभेद्यम् कामगम् वव्रे स यानम् वृष्णि-भीषणम्॥6॥

तथा इति गिरिश-आदिष्टः मयः पर-पुरम्-जयः।
पुरम् निर्माय शाल्वाय प्रादात् सौभम् अयः-मयम्॥7॥

स लब्ध्वा कामगम् यानम् तमः-धाम दुरासदम्।
ययौ द्वारवतीम् शाल्वः वैरम् वृष्णि-कृतम् स्मरन्॥8॥

निरुद्ध्य सेनया शाल्वः महत्या भरत-ऋषभ।
पुरीम् बभञ्ज उपवनानि उद्यानानि च सर्वशः॥9॥

स-गोपुराणि द्वाराणि प्रासाद-अट्टाल-तोलिकाः।
विहारान् स विमान-अग्र्यान् निपेतुः शस्त्र-वृष्टयः॥10॥

शिलाः द्रुमाः च अशनयः सर्पाः आसार-शर्कराः।
प्रचण्डः चक्र-वतः अभूत् रजसा आच्छादिताः दिशः॥11॥

इति अर्द्यमाना सौभेन कृष्णस्य नगरी भृशम्।
न अभ्यपद्यत शम् राजन् त्रिपुरेण यथा मही॥12॥

प्रद्युम्नः भगवान् वीक्ष्य बाध्यमानाः निजाः प्रजाः।
मा भैष्ट इति अभ्यधात् वीरः रथ-आरूढः महा-यशाः॥13॥

सात्यकिः च आरुदेष्णः च साम्बः अक्रूरः सह अनुजः।
हार्दिक्यः भानु-विन्दः च गदः च शुक-सारणौ॥14॥

अपरे च महा-इष्वासाः रथ-यूथप-यूथपाः।
निर्ययुः अंशिताः गुप्ताः रथ-इभ-अश्व-पदातिभिः॥15॥

ततः प्रववृते युद्धम् शाल्वानाम् यदुभिः सह।
यथा असुराणाम् विबुधैः तुमुलम् लोमहर्षणम्॥16॥

ताः च सौभ-पतेः मायाः दिव्य-अस्त्रैः रुक्मिणी-सुतः।
क्षणेन नाशयामास नैशम् तमः इव उष्णगुः॥17॥

विव्याध पञ्च-विंशत्या स्वर्ण-पुङ्खैः अयः-मुखैः।
शाल्वस्य ध्वजिनी-पालम् शरैः सन्नत-पर्वभिः॥18॥

शतेन आताडयत् शाल्वम् एक-एकेन अस्य सैनिकान्।
दशभिः दशभिः नेतॄन् वाहनानि त्रिभिः त्रिभिः॥19॥

तत् अद्भुतम् महत् कर्म प्रद्युम्नस्य महा-आत्मनः।
दृष्ट्वा तम् पूजयामासुः सर्वे स्व-पर-सैनिकाः॥20॥

बहु-रूप-एक-रूपम् तत् दृश्यते न च दृश्यते।
माया-मयम् मय-कृतम् दुर्विभाव्यम् परैः अभूत्॥21॥

क्वचित् भूमौ क्वचित् व्योम्नि गिरि-मूर्ध्नि जले क्वचित्।
अलात-चक्रवत् भ्राम्यत् सौभम् तत् दुरवस्थितम्॥22॥

यत्र यत्र उपलक्ष्येत स-सौभः सह-सैनिकः।
शाल्वः ततः ततः अमुञ्चत् शरान् सात्वत-यूथपाः॥23॥

शरैः अग्नि-अर्क-संस्पर्शैः आशीविष-दुरासदैः।
पीड्यमान-पुर-अनीकः शाल्वः अमुह्यत परैः इरितैः॥24॥

शाल्व-अनीक-पशः-शस्त्र-ओघैः वृष्णि-वीराः भृश-अर्दिताः।
न तत्यजुः रणम् स्वम् स्वम् लोक-द्वय-जिगीषवः॥25॥

शाल्व-अमात्यः द्युमान् नाम प्रद्युम्नम् प्राक् प्रपीडितः।
आसाद्य गदया मौर्व्याः व्याहत्य व्यनदत् बली॥26॥

प्रद्युम्नम् गदया शीर्ण-वक्षः-स्थलम् अरि-इंदमम्।
अपोवाह रणात् सूतः धर्म-विद् दारुक-आत्मजः॥27॥

लब्ध-संज्ञः मुहूर्तेन कार्ष्णिः सारथिम् अब्रवीत्।
अहो असाधु इदम् सूतः यत् रणात् मे अपसर्पणम्॥28॥

न यदूनाम् कुले जातः श्रूयते रण-विच्युतः।
विना मत्-क्लीब-चित्तेन सूतेन प्राप्त-किल्बिषात्॥29॥

किम् नु वक्ष्ये अभिसङ्गम्य पितरौ राम-केशवौ।
युद्धात् सम्यक् अपक्रान्तः पृष्टः तत्र आत्मनः क्षमम्॥30॥

व्यक्तम् मे कथयिष्यन्ति हसन्त्यः भ्रातृ-जामयः।
क्लैब्यम् कथम् कथम् वीर त्वया अन्यैः कथ्यताम् मृधे॥31॥

सारथिः उवाच — धर्मम् विजानता आयुष्मन् कृतम् एतत् मया विभो।
सूतः कृच्छ्र-गतम् रक्षेत् रथिनम् सारथिम् रथी॥32॥

एतत् विदित्वा तु भवन् मया अपोवाहितः रणात्।
उपसृष्टः परेण इति मूर्च्छितः गदया हतः॥33॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शाल्वयुद्धे षट्सप्ततितमोऽध्यायः॥ 76॥

ஸ்கந்தம் 10: அத்யாயம் 75 (துரியோதனன் அடைந்த அவமானம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 துரியோதனன்

அடைந்த அவமானம்

ஸ்கந்தம் 10: அத்யாயம் 75

श्री राज उवाच
अजातशत्रो: तं दृष्ट्वा राजसूय-महोदयम्।
सर्वे मुमुदिरे ब्रह्मन् नृ-देवा: ये समागताः ॥1॥

दुर्योधनम् वर्जयित्वा राजान: स-ऋषय: सुरा:।
इति श्रुतं न: भगवन् तत्र कारणम् उच्यताम् ॥2॥

ऋषि: उवाच
पितामहस्य ते यज्ञे राजसूये महात्मन:।
बान्धवाः परिचर्यायाम् तस्य आसन् प्रेम-बंधनाः ॥3॥

भीम: महानस-अध्यक्ष: धन-अध्यक्ष: सुयोधन:।
सहदेव: तु पूजायाम् नकुल: द्रव्य-साधने ॥4॥

गुरु-शुश्रूषणे जिष्णु: कृष्ण: पाद-अवनेजने।
परिवेषणे द्रुपदजा कर्ण: दाने महा-मनाः ॥5॥

युयुधान: विकर्ण: च हार्दिक्य: विदुर-आदयः।
बाह्लीक-पुत्रा: भूर्य-आद्याः ये च सन्तर्दन-आदयः ॥6॥

निरूपिता: महा-यज्ञे नाना-कर्मसु ते तदा।
प्रवर्तन्ते स्म राजेन्द्र राज्ञ: प्रिय-चिकीर्षव: ॥7॥

ऋत्विक्-सदस्य-बहु-वित्सु सुहृत्-तमेषु
स्विष्टेषु सूनृत-समर्हण-दक्षिणाभि:।
चैद्ये च सात्वत-पते: चरणम् प्रविष्टे
चक्रु: तत: तु अवभृथ-स्नपनम् द्यु-नद्याम् ॥8॥

मृदङ्ग-शङ्ख-पणव-धुन्धुर्य-आनक-गोमुखाः।
वादित्राणि विचित्राणि नेदु: अवभृथ-उत्सवे ॥9॥

नर्तक्य: ननृतु: हृष्टा: गायका: यूथश: जगु:।
वीणा-वेणु-तल-उन्नाद: तेषाम् स दिवम् अस्पृशत् ॥10॥

चित्र-ध्वज-पताका-अग्रै: इभ-इन्द्र-स्यन्दन-अर्वभि:।
स्व-अलङ्कृतै: भटै: भूपा: निर्ययु: रुक्म-मालिन: ॥11॥

यदु-सृञ्जय-काम्बोज-कुरु-केकय-कोशलाः।
कम्पयन्त: भुवम् सैन्यै: यजमान-पुर:सराः ॥12॥

सदस्य-ऋत्विक्-द्विज-श्रेष्ठा: ब्रह्म-घोषेण भूयसा।
देव-ऋषि-पितृ-गन्धर्वा: तुष्टुवु: पुष्प-वर्षिण: ॥13॥

स्व-अलङ्कृता: नराः नार्य: गन्ध-स्रक्-भूषण-अम्बरै:।
विलिम्पन्त्य: अभिषिञ्चन्त्य: विजह्रु: विविधै: रसै: ॥14॥

तैल-गोरस-गन्ध-उद हरिद्रा-सान्द्र-कुंकुमै:।
पुम्भि: लिप्ता: प्रलिंपन्त्य: विजह्रु: वार-योषितः ॥15॥

गुप्ता: नृभि: निरगमन् उपलब्धुम् एतत्
देव्य: यथा दिवि विमान-वरै: नृ-देव्य:।
ता: मातुलेय-सखिभि: परिषिच्यमानाः
स-व्रीड-हास-विकसत्-वदना विरेजुः ॥16॥

ता: देवरान् उत सखीन् सिषिचु: दृतीभि:
क्लिन्न-अम्बराः विवृत-गात्र-कुच-ऊरु-मध्याः।
औत्सुक्य-मुक्त-कबरा: च्यवमान-माल्याः
क्षोभम् दधु: मलधिया: रुचिरै: विहारै: ॥17॥

स सम्राट् रथम् आरूढ: स-अश्वम् रुक्म-मालिनम्।
व्यरोचत स्व-पत्‍नीभि: क्रियाभि: क्रतुराट् इव ॥18॥

पत्‍नी-संयाज-अवभृथ्यै: चरित्वा ते तम् ऋत्विजः।
आचान्तम् स्नापयाञ्चक्रु: गङ्गायाम् सह कृष्णया ॥19॥

देव-दुन्दुभय: नेदु: नर-दुन्दुभिभि: समम्।
मुमुचु: पुष्प-वर्षाणि देव-ऋषि-पितृ-मानवाः ॥20॥

सस्नु: तत्र तत: सर्वे वर्ण-आश्रम-युता: नराः।
महा-पातक्य: अपि यत: सद्य: मुच्येत किल्बिषात् ॥21॥

अथ राजा अहते क्षौमे परिधाय स्व-अलङ्कृत:।
ऋत्विक्-सदस्य-विप्र-आदीन् अनर्च आभरण-अम्बरै: ॥22॥

बन्धु-ज्ञाति-नृपान् मित्र-सुहृद: अन्यांश् च सर्वश:।
अभीक्ष्णम् पूजयामास नारायण-पर: नृप: ॥23॥

सर्वे जनाः सुर-रुच: मणि-कुण्डल-स्रक्
उष्णीष-कञ्चुक-दुकूल-महा-अर्घ्य-हाराः।
नार्यश् च कुण्डल-युग-आलक-वृन्द-जुष्ट-
वक्त्र-श्रिय: कनक-मेखलया विरेजुः ॥24॥

अथ ऋत्विज: महा-शीलाः सदस्या: ब्रह्मवादिन:।
ब्रह्म-क्षत्रिय-विट्-शूद्रा: राजान: ये समागताः ॥25॥

देव-ऋषि-पितृ-भूतानि लोक-पालाः सह अनुगा:।
पूजिता: तम् अनुज्ञाप्य स्व-धामानि ययु: नृप ॥26॥

हरिदासस्य राजर्षे: राजसूय-महोदयम्।
न एव अत्रप्यन् प्रशंसन्त: पिबन् मर्त्य: अमृतम् यथा ॥27॥

तत: युधिष्ठिर: राजा सुहृत्-सम्बन्धि-बान्धवान्।
प्रेम्णा निवारयामास कृष्णम् च त्याग-कातर: ॥28॥

भगवान् अपि तत्र अङ्ग न्यवात्सीत् तत्-प्रिय-अङ्कर:।
प्रस्थाप्य यदु-वीरान् च साम्ब-आदीन् च कुशस्थलीम् ॥29॥

इत्थम् राजा धर्म-सुत: मनोरथ-महा-अर्णवम्।
सुदुस्तरम् समुत्तीर्य कृष्णेन आसीत् गत-ज्वर: ॥30॥

एक-दान्त-अपुरे तस्य वीक्ष्य दुर्योधन: श्रियम्।
अतप्यत् राजसूयस्य महत्त्वम् च अच्युत-आत्मन: ॥31॥

यस्मिन् नरेन्द्र-दिति-इन्द्र-सुर-इन्द्र-लक्ष्मी:
नाना विभान्ति किल विश्व-सृज-उपकॢप्ताः।
ताभि: पतीन् द्रुपद-राज-सुता उपतस्थे
यस्याम् विषक्त-हृदय: कुरु-राट् अतप्यत् ॥32॥

यस्मिन् तदा मधु-पते: महिषी-सहस्रं
श्रोणी-भरेण शनकै: क्वणत्-अङ्घ्रि-शोभम्।
मध्ये सु-चारु-कुच-कुङ्कुम-शोण-हारम्
श्रीमान्-मुखं प्रचल-कुण्डल-कुन्तल-आढ्यम् ॥33॥

सभायाम् मय-कल्प्तायाम् क्वापि धर्म-सुत: अधिराट्।
वृत: अनुजै: बन्धुभि: च कृष्णेन अपि स्व-चक्षुषा ॥34॥

आसीन: काञ्चने साक्षात् आसने मघवान् इव।
पारमेष्ठ्य-श्रिया जुष्ट: स्तूयमान: च वन्दिभि: ॥35॥

तत्र दुर्योधन: मानी परीतः भ्रातृभि: नृप।
किरीट-माली न्यविशत् असि-हस्त: क्षिपन् रुषा ॥36॥

स्थले अभ्यगृह्णात् वस्त्र-अन्तम् जलम् मत्वा स्थले अपतत्।
जले च स्थलवत् भ्रान्त्या मय-माया-विमोहित: ॥37॥

जहास भीम: तम् दृष्ट्वा स्त्रिय: नृपतय: अपरे।
निवार्यमाणा: अपि अङ्ग राज्ञा कृष्ण-अनुमोदिताः ॥38॥

स व्रीडित: अवाक्-वदन: रुषा ज्वलन्
निष्क्रम्य तूष्णीं प्रययौ गज-अह्वयम्।
हाहेति शब्द: सुमहान् अभूत् सताम्
अजात-शत्रु: विमनाः इव अभवत्।
बभूव तूष्णीं भगवान् भुव: भरम्
समुज्जिहीर्षु: भ्रमति स्म यत् दृशा ॥39॥

एतत् ते अभिहितं राजन् यत् पृष्ट: अहम् इह त्वया।
सुयोधनस्य दौ:आत्म्यम् राजसूये महा-क्रतौ ॥40॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्योधनमानभङ्गो नाम पञ्चसप्ततितमोऽध्यायः॥ 75