Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 78 (கிருஷ்ணன் தந்தவக்ரனை வதம் செய்கிறார். கோபத்தில் ரோம்ஹர்ஷனரை பலராமர் கொல்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 கிருஷ்ணன் தந்தவக்ரனை

வதம் செய்கிறார்.

கோபத்தில் ரோம்ஹர்ஷனரை

பலராமர் கொல்கிறார்.

ஸ்கந்தம் 10: அத்யாயம் 78

श्री शुक उवाच
शिशुपालस्य शाल्वस्य पौण्ड्रकस्य अपि दुर्मतिः ।
पर-लोक-गतानाम् च कुर्वन् पारोक्ष्य-सौहृदम् ॥ 1

एक: पदाति: सङ्क्रुद्ध: गदा-पाणि: प्रकम्पयन् ।
पद्भ्याम् इमाम् महा-राज महा-सत्त्व: व्यदृश्यत ॥ 2

तम् तथा आयान्तम् आलोक्य गदाम् आदाय सत्वर: ।
अवप्लुत्य रथात् कृष्ण: सिन्धुम् वेले इव प्रत्यधात् ॥ 3

गदाम् उद्यम्य कारूष: मुकुन्दम् प्राह दुर्मद: ।
दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टि-पथम् गत: ॥ 4

त्वम् मातुलेय: न: कृष्ण मित्र-दृक् माम् जिघांससि ।
अतः त्वाम् गदया मन्द हनिष्ये वज्र-कल्पया ॥ 5

तर्हि अनृण्यम् उपैमि अज्ञ मित्राणाम् मित्रवत्सल: ।
बन्धु-रूपम् अरिम् हत्वा व्याधिम् देह-चरम् यथा ॥ 6

एवम् रूक्षै: तुदन् वाक्यै: कृष्णम् तोत्रै: इव द्विपम् ।
गदया ताडयन् मूर्ध्नि सिंहवत् व्यनदत् च स: ॥ 7

गदा-अभिहत: अपि आजौ न चचाल यदु-उद्वह: ।
कृष्ण: अपि तम् अहन् गुर्व्या कौमोदक्या स्तन-अन्तरे ॥ 8

गदा-निर्भिन्न-हृदय: उद्वमन् रुधिरम् मुखात् ।
प्रसार्य केश-बाहु-अङ्घ्रीन् धरण्याम् न्यपतत् व्यसुः ॥ 9

ततः सूक्ष्मतरम् ज्योतिः कृष्णम् आविशत् अद्भुतम् ।
पश्यताम् सर्व-भूतानाम् यथा चैद्य-वधे नृप ॥ 10

विदूरथ: तु तत्-भ्राता भ्रातृ-शोक-परिप्लुत: ।
आगच्छत् असि-चर्म-अभ्याम् उच्छ्वसन् तत्-जिघांसया ॥ 11

तस्य च आपततः कृष्ण: चक्रेण क्षुर-नेमिना ।
शिर: जहार राजेन्द्र स-किरीटम् स-कुण्डलम् ॥ 12

एवम् सौभम् च शाल्वम् च दन्तवक्रम् सह अनुजम् ।
हत्वा दुर्विषह-अन्यै: ईडित: सुर-मानवै: ॥ 13

मुनिभि: सिद्ध-गन्धर्वै: विद्याधर-महोरगै: ।
अप्सरोभि: पितृ-गणै: यक्षै: किन्नर-चारणै: ॥ 14

उपगीयमान-विजय: कुसुमै: अभिवर्षित: ।
वृत: च वृष्णि-प्रवरै: विवेश आलङ्कृताम् पुरीम् ॥ 15

एवम् योगेश्वर: कृष्ण: भगवान् जगत्-ईश्वर: ।
ईयते पशु-दृष्टीनाम् निर्जित: जयति इति स: ॥ 16

श्रुत्वा युद्ध-उद्यमम् राम: कुरूणाम् सह पाण्डवै: ।
तीर्थ-अभिषेक-व्याजेन मध्यस्थ: प्रययौ किल ॥ 17

स्नात्वा प्रभासे सन्तर्प्य देव-ऋषि-पितृ-मानवान् ।
सरस्वतीम् प्रति-स्रोतम् ययौ ब्राह्मण-संवृत: ॥ 18

पृथु-उदकम् बिन्दु-सर: त्रित-कूपम् सुदर्शनम् ।
विशालम् ब्रह्म-तीर्थम् च चक्रम् प्राचीम् सरस्वतीम् ॥ 19

यमुनाम् अनु यानि एव गङ्गाम् अनु च भारत ।
जगाम नैमिषम् यत्र ऋषय: सत्रम् आसते ॥ 20

तम् आगतम् अभिप्रेत्य मुनय: दीर्घ-सत्रिण:।
अभिनन्द्य यथा न्यायम् प्रणम्य उत्थाय च अर्चयन्॥ 21

स: अर्चित: स-परीवार: कृत-आसन-परिग्रह:।
रोमहर्षणम् आसीनम् महर्षे: शिष्यम् ऐक्षत॥ 22

अप्रत्युत्थायिनम् सूतम् अ-कृत-प्रह्व-अञ्जलिम्।
अधि-आसीनम् च तान् विप्रान् चुकोप-उद्वीक्ष्य माधव:॥ 23

कस्मात् असौ इमान् विप्रान् अध्यास्ते प्रति-लोमज:।
धर्म-पालान् तथा एव अस्मान् वधम् अर्हति दुर्मतिः॥ 24

ऋषे: भगवत: भूत्वा शिष्य: अधीत्य बहूनि च।
स-इतिहास-पुराणानि धर्म-शास्त्राणि सर्वश:॥ 25

अ-दान्तस्य अ-विनीतस्य वृथा पण्डित-मानिन:।
न गुणाय भवन्ति स्म नटस्य इव अ-जित-आत्मन:॥ 26

एतत्-अर्थ: हि लोके अस्मिन् अवतार: मया कृत:।
वध्या मे धर्म-ध्वजिन: ते हि पातकिन: अधिका:॥ 27

एतावत् उक्त्वा भगवान् निवृत्त: असत्-वधात् अपि।
भावित्वात् तम् कुश-अग्रेण कर-स्थेन आहनत् प्रभु:॥ 28

हाहेति वादिन: सर्वे मुनय: खिन्न-मानसाः।
ऊचु: सङ्कर्षणम् देवम् अ-धर्म: ते कृत: प्रभो॥ 29

अस्य ब्रह्म-आसनम् दत्तम् अस्माभि: यदु-नन्दन।
आयु: च आत्मा-क्लमम् तावत् यावत् सत्रम् समाप्यते॥ 30

अजानता एव आचरित: त्वया ब्रह्म-वध: यथा।
योगेश्वरस्य भवत: नाम्ना अपि नियामक:॥ 31

यदि एतत् ब्रह्म-हत्यायाः पावनम् लोक-पावन।
चरिष्यति भवाम् लोक-सङ्ग्रह: अनन्य-चोदित:॥ 32

श्री-भगवान् उवाच करिष्ये वध-निर्वेशम् लोक-अनुग्रह-काम्यया।
नियम: प्रथमे कल्पे यावान् स: तु विधीयताम्॥ 33

दीर्घम् आयुः बत एतस्य सत्त्वम् इन्द्रियम् एव च।
आशासितम् यत् तत् ब्रूत साधये योग-मायया॥ 34

ऋषय: ऊचु: अस्त्रस्य तव वीर्यस्य मृत्यो: अस्माकम् एव च।
यथा भवेत् वच: सत्यम् तथा राम विधीयताम्॥ 35

श्री-भगवान् उवाच आत्मा वै पुत्र: उत्पन्न: इति वेद-अनुशासनम्।
तस्मात् अस्य भवेत् वक्ता आयु: इन्द्रिय-सत्त्व-वान्॥ 36

किम् व: काम: मुनि-श्रेष्ठा: ब्रूत अहम् करवाणि अथ।
अजानत: त्व् अपचितिम् यथा मे चिन्त्यताम् बुधा:॥ 37

ऋषय: ऊचु: इल्वलस्य सुत: घोर: बल्वल: नाम दानव:।
स: दूषयति न: सत्रम् एत्य पर्वणि पर्वणि॥ 38

तम् पापम् जहि दाशार्ह तत् न: शुश्रूषणम् परम्।
पूय-शोणित-विण्-मूत्र-सुरा-मांस-अभिवर्षिणम्॥ 39

ततः च भारतम् वर्षम् परीत्य सुसमाहित:।
चरित्वा द्वादश मासान् तीर्थ-स्नायी विशुद्ध्यसे॥ 40

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम्
दशम-स्कन्धे उत्तरार्धे बलदेव-चरिते बल्वल-वध-उपक्रम: नाम
अष्ट-सप्ततितम: अध्याय:॥ 78॥

ஸ்கந்தம் 10: அத்யாயம் 77 (கிருஷ்ணன் சால்வனை வதம் செய்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 கிருஷ்ணன் சால்வனை

வதம் செய்கிறார்

ஸ்கந்தம் 10: அத்யாயம் 77

श्री-शुकः उवाच —
स तु उपस्पृश्य सलिलम् दंशितः धृत-कार्मुकः।
नय माम् द्युमतः पार्श्वम् वीरस्य इति आह सारथिम्॥1॥

विधमन्तम् स्व-सैन्यानि द्युमन्तम् रुक्मिणी-सुतः।
प्रतिहत्य प्रत्यविध्यत नाराचैः अष्टभिः स्मयन्॥2॥

चतुर्भिः च चतुरः वाहान् सूतम् एकेन च आहनत्।
द्वौ आभ्याम् धनुः च केतुम् च शरेण अन्येन वै शिरः॥3॥

गद-सात्यकि-साम्ब-आद्याः जघ्नुः सौभ-पतेः बलम्।
पेतुः समुद्रे सौभेयाः सर्वे संछिन्न-कन्धराः॥4॥

एवम् यदूनाम् शाल्वानाम् निघ्नताम् इतरेतरम्।
युद्धम् त्रिण-वरात्रम् तत् अभूत् तुमुलम् उल्बणम्॥5॥

इन्द्र-प्रस्थम् गतः कृष्णः आहूतः धर्म-सूनुना।
राजसूये अथ निवृत्ते शिशुपाले च संस्थिते॥6॥

कुरु-वृद्धान् अनुज्ञाप्य मुनीन् च स-सुताम् पृथाम्।
निमित्तानि अति-घोराणि पश्यन् द्वारवतीम् ययौ॥7॥

आह च अहम् इह आयातः आर्य-मिश्र-अभिसङ्गतः।
राजन्याः चैद्य-पक्षीयाः नूनम् हन्युः पुरीम् मम॥8॥

वीक्ष्य तत् कदनम् स्वानाम् निरूप्य पुर-रक्षणम्।
सौभम् च शाल्व-राजम् च दारुकम् प्राह केशवः॥9॥

रथम् प्रापय मे सूतः शाल्वस्य अन्तिकम् आशु वै।
सम्भ्रमः ते न कर्तव्यः मायावी सौभ-राट् अयम्॥10॥

इति उक्तः च ओदयामास रथम् आस्थाय दारुकः।
विशन्तम् ददृशुः सर्वे स्वे परे च अरुण-अनुजम्॥11॥

शाल्वः च कृष्णम् आलोक्य हत-प्राय-बल-ईश्वरः।
प्राहरत् कृष्ण-सूताय शक्तिम् भीम-रवाम् मृधे॥12॥

ताम् आपतन्तीम् नभसि महा-उल्काम् इव रंहसा।
भासयन्तीम् दिशः शौरिः सायकैः शतधा अछिनत्॥13॥

तम् च षोडशभिः विद्ध्वा बाणैः सौभम् च खे भ्रमत्।
अविध्यत् शर-सन्दोहैः खम् सूर्यः इव रश्मिभिः॥14॥

शाल्वः शौरेः तु दः सव्यं शार्ङ्गम् शार्ङ्ग-धन्वनः।
बिभेद न्यपतत् हस्तात् शार्ङ्गम् आसीत् तत् अद्भुतम्॥15॥

हाहाकारः महान् आसीत् भूतानाम् तत्र पश्यताम्।
विनद्य सौभ-राट् उच्छैः इदम् आह जनार्दनम्॥16॥

यत् त्वया मूढ नः सख्युः भ्रातुः भार्या हृता-इक्षताम्।
प्रमत्तः स सभा-मध्ये त्वया व्यापादितः सखा॥17॥

तम् त्वा अद्य निशितैः बाणैः अपराजित-मानिनम्।
नयामि अपुनरावृत्तिम् यदि तिष्ठेत् मम अग्रतः॥18॥

श्री-भगवान् उवाच — वृथा त्वम् कत्थसे मन्द न पश्यसि अन्तिके अन्तकम्।
पौरुषम् दर्शयन्ति स्म शूराः न बहु-भाषिणः॥19॥

इति उक्त्वा भगवान् शाल्वम् गदया भीम-वेगया।
तताड जत्रौ संरब्धः स चकम्पे वमन् असृक्॥20॥

श्री शुक उवाच
गदायाम् सन्निवृत्तायाम् शाल्व: तु अन्तर्धीयत ।
तत: मुहूर्तम् आगत्य पुरुष: शिरसा अच्युतम् ।
देवक्या प्रहित: अस्मि इति नत्वा प्राह वच: रुदन् ॥ 21

कृष्ण कृष्ण महा-बाहो पिता ते पितृवत्सल ।
बद्ध्वा आपनीतः शाल्वेन सौनिकेन यथा पशु: ॥ 22

निशम्य विप्रियम् कृष्ण: मानुषीं प्रकृतिम् गत: ।
विमनस्क: घृणी स्नेहात् बभाषे प्राकृत: यथा ॥ 23

कथम् रामम् असम्भ्रान्तम् जित्वा अजेयम् सुर-असुरै: ।
शाल्वेन अल्पीयसा नीत: पिता मे बलवान् विधि: ॥ 24

इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थित: ।
वसुदेवम् इव आनीय कृष्णम् च इदम् उवाच स: ॥ 25

एष: ते जनिता तात यदर्थम् इह जीवसि ।
वधिष्ये वीक्षतः ते अमुम् ईश: चेत् पाहि बालिश ॥ 26

एवम् निर्भर्त्स्य मायावी खड्गेन अनक-दुन्दुभे: ।
उत्कृत्य शिर: आदाय खस्थम् सौभम् समाविशत् ॥ 27

तत: मुहूर्तम् प्रकृतौ उपप्लुत:
स्व-बोधे आस्ते स्व-जन अनुशङ्गतः ।
महा-अनुभाव: तत् अबुध्यत आसुरीम्
मायाम् स शाल्व-प्रसृताम् मया उदिताम् ॥ 28

न तत्र दूतम् न पितु: कलेवरम्
प्रबुद्ध: आजौ समपश्यत् अच्युत: ।
स्वाप्नम् यथा च अम्बर-चारिणम् रिपुम्
सौभ-स्थम् आलोक्य निहन्तुम् उद्यतः ॥ 29

एवम् वदन्ति राजर्षे ऋषय: के च न अन्विताः ।
यत् स्व-वाच: विरुध्येत नूनम् ते न स्मरन्ति उत ॥ 30

क्व शोक-मोहौ स्नेह: वा भयम् वा ये अज्ञ-सम्भवाः ।
क्व च अखण्डित-विज्ञान-ज्ञान-ऐश्वर्य: तु अखण्डित: ॥ 31

यत्-पाद-सेवा-उर्जितया आत्म-विद्यया
हिन्वन्ति अनादि-आत्म-विपर्यय-ग्रहम् ।
लभन्ते आत्मीयम् अनन्तम् ऐश्वरम्
कुत: नु मोह: परमस्य सत्-गते: ॥ 32

तम् शस्त्र-पूगै: प्रहरन्तम् ओजसा
शाल्वम् शरै: शौरि: अमोघ-विक्रम: ।
विद्ध्वा अछिनत् वर्म धनुः शिरोमणिम्
सौभम् च शत्रो: गदया रुरोज ह ॥ 33

तत् कृष्ण-हस्त-इरितया विचूर्णितम्
पपात तोये गदया सहस्रधा ।
विसृज्य तत् भूतलम् आस्थित: गदाम्
उद्यम्य शाल्व: अच्युतम् अभ्यगात् द्रुतम् ॥ 34

आधावत: स-गदम् तस्य बाहुम्
भल्लेन छित्त्वा अथ रथ-अङ्गम् अद्भुतम् ।
वधाय शाल्वस्य लय-अर्क-सन्निभम्
बिभ्रत् बभौ सा अर्क: इव उदय-अचल: ॥ 35

जहार तेन एव शिर: स-कुण्डलम्
किरीट-युक्तम् पुरु-मायिन: हरि: ।
वज्रेण वृत्रस्य यथा पुरन्दर:
बभूव हा-हे इति वच: तदा नृणाम् ॥ 36

तस्मिन् निपतिते पापे सौभे च गदया हते ।
नेदु: दुन्दुभयो राजन् दिवि देव-गण-इरिताः ।
सखीनाम् अपचितिम् कुर्वन् दन्तवक्र: रुषा अभ्यगात् ॥ 37

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् दशम-स्कन्धे उत्तरार्धे
सौभ-वध: नाम सप्त-सप्ततितम: अध्याय: ॥ 77 ॥