Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 82 (குருக்ஷேத்ரத்தில் நந்தகோபர் யசோதை கண்ணனை சந்திக்கிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 குருக்ஷேத்ரத்தில்

நந்தகோபர் 

யசோதை கண்ணனை சந்திக்கிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 82

श्री-शुकः उवाच

अथ एकदा द्वारवत्याम् वसतः राम-कृष्णयोः।
सूर्य-उपरागः सुमहान् आसीत् कल्प-क्षये यथा॥ 1॥

तं ज्ञात्वा मनुजाः राजन् पुरः-तात्-एव सर्वतः।
समन्त-पञ्चकं क्षेत्रम् ययुः श्रेयः-विधित्सया॥ 2॥

निः-क्षत्रियाम् महीम् कुर्वन् रामः शस्त्र-भृताम् वरः।
नृपाणाम् रुधिर-ओघेण यत्र चक्रे महा-ह्रदान्॥ 3॥

ईजे च भगवान् रामः यत्र अस्पृष्टः अपि कर्मणा।
लोकस्य ग्रहयन् ईशः यथा अन्यः अघ-अप-नुत्तये॥ 4॥

महत्याम् तीर्थ-यात्रायाम् तत्र आगन् भारतीः प्रजाः।
वृष्णयः च तथा अक्रूर-वसुदेव-आहुक-आदयः॥ 5॥

ययुः भारत तत् क्षेत्रम् स्व-अघम् क्षपयिष्णवः।
गद-प्रद्युम्न-साम्ब-आद्याः सुचन्द्र-शुक-सारणैः॥ 6॥

आस्ते अनिरुद्धः रक्षायाम् कृतवर्मा च यूथपः।
ते रथैः देव-धिष्ण्य-आभैः हयैः च तरल-प्लवैः॥ 7॥

गजैः नदद्-भिः अभ्र-आभैः नृभिः विद्याधर-द्युभिः।
व्यरोचन्त महा-तेजाः पथि काञ्चन-मालिनः॥ 8॥

दिव्य-स्रक्-वस्त्र-सन्नाहाः कलत्रैः खेचराः इव।
तत्र स्नात्वा महा-भागाः उपोष्य सुसमाहिताः॥ 9॥

ब्राह्मणेभ्यः ददुः धेनुः वासः-स्रक्-रुक्म-मालिनीः।
राम-ह्रदेषु विधिवत् पुनः-आप्लुत्य वृष्णयः॥ 10॥

ददुः स्व-अन्नम् द्विज-आग्र्येभ्यः कृष्णे नः भक्तिः अस्तु इति।
स्वयम् च तत्-अनुज्ञाताः वृष्णयः कृष्ण-देवताः॥ 11॥

भुक्त्वा उपविविशुः कामम् स्निग्ध-छाय-आङ्घ्रि-पाङ्घ्रिषु।
तत्र आगतान् ते ददृशुः सुहृत्-संबन्धिनः नृपान्॥ 12॥

मत्स्य-उशीनर-कौशल्य-विदर्भ-कुरु-सृञ्जयान्।
काम्बोज-कैकयान् मद्रान् कुन्तीन् आनर्त-केरलान्॥ 13॥

अन्यान् च एव आत्म-पक्षीयान् परान् च शतशः नृप।
नन्द-आदीन् सुहृदः गोपान् गोप्यः च उत्कण्ठिताः चिरम्॥ 14॥

अन्योन्य-सन्दर्शन-हर्ष-रंहसा
प्रोत्फुल्ल-हृत्-वक्त्र-सरोरुह-श्रियः।
आश्लिष्य गाढम् नयनैः स्रवत्-जलाः
हृष्यत्-त्वचः रुद्ध-गिरः ययुः मुदम्॥ 15॥

स्त्रियः च संवीक्ष्य मिथः अति-सौहृद-
स्मित-अमल-आपाङ्ग-दृशः अभिरेभिरे।
स्तनैः स्तनान् कुङ्कुम-पङ्क-रूषितान्
निहत्य दोर्-भिः प्रणय-अश्रु-लोचनाः॥ 16॥

ततः अभिवाद्य ते वृद्धान् यविष्ठैः अभिवादिताः।
स्वागतम् कुशलम् पृष्ट्वा चक्रुः कृष्ण-कथाः मिथः॥ 17॥

पृथा भ्रातॄन् स्वसॄः वीक्ष्य तत्-पुत्रान् पितरौ अपि।
भ्रातृ-पत्नीः मुकुन्दम् च जहौ सङ्कथया शुचः॥ 18॥

कुन्ती ऊवाच –
आर्य भ्रातरः अहम् मन्ये आत्मानम् अकृत-आशिषम्।
यत् वा आपत्सु मद्-वार्ताम् न अनुस्मरथ सत्तमाः॥ 19॥

सुहृतः ज्ञातयः पुत्राः भ्रातरः पितरौ अपि।
न अनुस्मरन्ति स्व-जम् यस्य दैवम् अदक्षिणम्॥ 20॥

श्री-वसुदेवः उवाच –
अम्ब मा अस्मान्-असूयetha दैव-क्रीडन-कान् नरान्।
ईशस्य हि वशे लोकः कुरुते कार्यते अथवा॥ 21॥

कंस-प्रतापिताः सर्वे वयं याताः दिशं दिशम्।
एतर्हि एव पुनः स्थानं दैवेन आसादिताः स्वसः॥ 22

श्री-शुकः उवाच –
वसुदेव-उग्रसेन-आद्यैः यदुभिः ते अर्चिताः नृपाः।
आसन् अच्युत-सन्दर्श-परम्-आनन्द-निर्वृताः॥ 23

भीष्मः द्रोणः अम्बिका-पुत्रः गान्धारी स-सुता तथा।
स-दाराः पाण्डवाः कुन्ती सृञ्जयः विदुरः कृपः॥ 24

कुन्ती-भोजः विराटः च भीष्मकः नग्नजित् महान्।
पुरुजित् द्रुपदः शल्यः धृष्ट-केतुः स-काशिराट्॥ 25

दम-घोषः विशाल-अक्षः मैथिलः मद्र-केकयौ।
युधामन्युः सुशर्मा च स-सुता बाह्लिक-आदयः॥ 26

राजानः ये च राजेन्द्र युधिष्ठिरम् अनुव्रताः।
श्री-निकेतं वपुः शौरेः स-स्त्रीकं वीक्ष्य विस्मिताः॥ 27

अथ ते राम-कृष्णाभ्याम् सम्यक् प्राप्त-समर्हणाः।
प्रशशंसुः मुदाऽयुक्ताः वृष्णीन् कृष्ण-परिग्रहान्॥ 28

अहो भोज-पते यूयम् जन्म-भाजः नृणाम् इह।
यत् पश्यथ असकृत् कृष्णम् दुर्दर्शम् अपि योगिनाम्॥ 29

यत्-विश्रुतिः श्रुति-नुते इदम् अमलं पुनाति।
पाद-अवनेजन-पयः च वचः च शास्त्रम्।
भूमिः काल-भर्जित-भगः अपि यत्-अङ्घ्रि-पद्म-
स्पर्श-उत्थ-शक्तिः अभिवर्षति नः अखिल-अर्थान्॥ 30

तत्-दर्शन-स्पर्शन-अनुपथ-प्रजल्प-
शय्या-आसन-आशन-सयोनस-पिण्ड-बन्धः।
येषाम् गृहे निरय-वर्त्मनि वर्तताम् वः
स्वर्ग-अपवर्ग-विरमः स्वयं आस विष्णुः॥ 31


नन्दः तत्र यदून् प्राप्तान् ज्ञात्वा कृष्ण-पुरोगमान्।
तत्र आगमत् वृतः गोपैः अनः-स्थ-अर्थैः दिदृक्षया॥ 32

तम् दृष्ट्वा वृष्णयः हृष्टाः तन्वः प्राणम् इव उत्थिताः।
परिषस्वजिरे गाढम् चिर-दर्शन-कातराः॥ 33

वसुदेवः परिष्वज्य सम्प्रीतः प्रेम-विह्वलः।
स्मरन् कंस-कृतान् क्लेशान् पुत्र-न्यासम् च गोकुले॥ 34

कृष्ण-रामौ परिष्वज्य पितरौ अभिवाद्य च।
न किञ्चन ऊचतुः प्रेम्णा स-आश्रु-कण्ठौ कुरु-उद्वह॥ 35

तौ आत्म-आसनम् आरोप्य बाहुभ्याम् परिरभ्य च।
यशोदा च महा-भागा सुतौ विजहतुः शुचः॥ 36

रोहिणी देवकी च अथ परिष्वज्य व्रजेश्वरीम्।
स्मरन्त्यौ तत्-कृताम् मैत्रीम् बाष्प-कण्ठ्यौ समूचतुः॥ 37

का विस्मरेत वाम् मैत्रीम् अनिवृत्ताम् व्रजेश्वरी।
अवाप्य आप्य ऐन्द्रम् ऐश्वर्यम् यस्याः न इह प्रतिक्रिया॥ 38

एतावत् दृष्ट-पितरौ युवयोः स्म पित्रोः
सम्प्रीणन-अभ्युदय-पोषण-पालनानि।
प्राप्य उषतुर्भवति पक्ष्म ह यत् वद्-अक्ष्णोः
न्यस्तौ अकुत्र च भयौ न सताम् परः स्वः॥ 39

श्री-शुक उवाच – गोप्यः च कृष्णम् उपलभ्य चिरात् अभीष्टम्
यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतम् शपन्ति।
दृग्भिः हृदीकृतम् अलम् परिरभ्य सर्वाः
तत्-भावम् आपुः अपि नित्य-युजाम् दुरापम्॥ 40

भगवान् ताः तथा-भूताः विविक्ते उपसङ्गतः।
आश्लिष्य आनामयम् पृष्ट्वा प्रहसन् इदम् अब्रवीत्॥ 41

अपि स्मरथ नः सख्यः स्व-आनाम् अर्थ-चिकीर्षया।
गतान् चिरायितान् शत्रु-पक्ष-क्षपण-चेतसः॥ 42

अपि अवध्यायथ नः स्वित् अ-कृतज्ञ-विशङ्कया।
नूनम् भूतानि भगवान् युनक्ति वियुनक्ति च॥ 43

वायुः यथा घन-आनीकं तृणम् तूलं रजांसि च।
संयोज्य अक्षिपते भूयः तथा भूतानि भूत-कृत्॥ 44

मयि भक्तिः हि भूतानाम् अमृतत्वाय कल्पते।
दिष्ट्या यत् आसीत् मत्-स्नेहः भवतीनाम् मत्-अपनः॥ 45

अहं हि सर्व-भूतानाम् आदिः अन्तः अन्तरम् बहिः।
भौतिकानाम् यथा खम् वार्-भूः वायुः ज्योतिः अङ्गनाः॥ 46

एवम् हि एतानि भूतानि भूतेषु आत्मा आत्मना ततः।
उभयम् मयि अथ परे पश्यत आभातम् अक्षरे॥ 47

श्री-शुकः उवाच – अध्यात्म-शिक्षया गोप्यः एवं कृष्णेन शिक्षिताः।
तत्-अनुस्मरण-ध्वस्त-जीव-कोशाः तम् अध्यगन्॥ 48

आहुः च ते नलिन-नाभ-पद-अरविन्दम्
योगेश्वरैः हृदि विचिन्त्यम् अगाध-बोधैः।
संसार-कूप- पतित-उत्तरण-अवलम्बम्
गेहम्-जुषाम् अपि मनसि उदियात् सदा नः॥ 49

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे वृष्णीगोपसङ्गमो नाम द्व्यशीतितमोऽध्यायः॥ 82॥

ஸ்கந்தம் 10: அத்யாயம் 81 (கண்ணன் ஸுதாமாவுக்கு அனுக்ரஹம் செய்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 கண்ணன் ஸுதாமாவுக்கு அனுக்ரஹம் செய்கிறார்

ஸ்கந்தம் 10: அத்யாயம் 81

श्री शुक उवाच
स इत्थं द्विज-मुख्येन सह सङ्-कथयन् हरिः।
सर्व-भूत-मनः-अभिज्ञः स्मयमानः उवाच तम्॥ 1

ब्रह्मण्यः ब्राह्मणम् कृष्णः भगवान् प्रहसन् प्रियम्।
प्रेम्णा निरीक्षणेन एव प्रेक्षन् खलु सताम् गतिः॥ 2

श्री भगवान् उवाच
किम् उपायनम् आनीतं ब्रहन् मे भवता गृहात्।
अणु अपि उपाहृतं भक्तैः प्रेम्णा भुः इव मे भवेत्।
भूरि अपि अभक्त उपहृतं न मे तोषाय कल्पते॥ 3

पत्रं पुष्पं फलम् तोयम् यः मे भक्त्या प्रयच्छति।
तत् अहम् भक्त्या उपहृतम् अश्नामि प्रयत-आत्मनः॥ 4

इति उक्तः अपि द्विजः तस्मै व्रीडितः पतये श्रियः।
पृथुक-प्रसृतिम् राजन् न प्रायच्छत् अवाङ्मुखः॥ 5

सर्व-भूत-आत्म-दृक् साक्षात् तस्य आगमन-कारणम्।
विज्ञाय आचिन्तयन् अयम् श्री-कामः माम् अभजत् पुरा॥ 6

पत्‍न्याः पतिव्रतायाः तु सखा प्रियत-चिकीर्षया।
प्राप्तः माम् अस्य दास्यामि सम्पदः अमर्त्य-दुर्लभाः॥ 7

इत्थं विचिन्त्य वसनात् चीर-बद्धान् द्विज-जन्मनः।
स्वयम् जहार किम् इदम् इति पृथुक-तण्डुलान्॥ 8

नु एतत् उपनीतं मे परम-प्रीणनं सखे।
तर्पयन्ति अङ्ग माम् विश्वम् एते पृथुक-तण्डुलाः॥ 9

इति मुष्टिम् सकृत् जग्ध्वा द्वितीयाम् जग्धुम् आददे।
तावत् श्रीः जगृहे हस्तं तत् परा परमेष्ठिनः॥ 10

एतावत् अलम् विश्व-आत्मन् सर्व-सम्पत् समृद्धये।
अस्मिन् लोके अथ वा अमुष्मिन् पुंसः त्वत्-तोष-कारणम्॥ 11

ब्राह्मणः ताम् तु रजनीम् उषित्वा अच्युत-मन्दिरे।
भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतम् यथा॥ 12

श्वः भूते विश्व-भावेन स्व-सुखेन अभिवन्दितः।
जगाम स्व-आलयं तात पथ्य अनु व्रज्य नन्दितः॥ 13

स च अलब्ध्वा धनं कृष्णात् न तु याचितवान् स्वयम्।
स्व-गृहान् व्रीडितः अगच्छत् महत्-दर्शन-निर्वृतः॥ 14

अहो ब्रह्मण्य-देवस्य दृष्टा ब्रह्मण्यता मया।
यत् दरिद्रतमः लक्ष्मीम् आश्लिष्टः बिभ्रतः उरसि॥ 15

क्व अहम् दरिद्रः पापीयान् क्व कृष्णः श्री-निकेतनः।
ब्रह्म-बन्धुः इति स्म अहम् बाहुभ्याम् परिरम्भितः॥ 16

निवासितः प्रिया-जुष्टे पर्यङ्के भ्रातरः यथा।
महिष्याः वीजितः श्रान्तः वाल-व्यजन-हस्तया॥ 17

शुश्रूषया परमया पाद-संवाहन-आदिभिः।
पूजितः देव-देवेन विप्र-देवेन देववत्॥ 18

स्वर्ग-अपवर्गयोः पुंसाम् रसायाम् भुवि सम्पदाम्।
सर्वासाम् अपि सिद्धीनां मूलं तत् चरण-आर्चनम्॥ 19

अधनः अयम् धनं प्राप्य माद्यात् उच्छैः न माम् स्मरेत्।
इति कारुणिकः नूनं धनं मे अभूरि न आददात्॥ 20

इति तत् चिन्तयन् अन्तः प्राप्तः नियगृह-अन्तिकम्।
सूर्य-अनल-इन्दु-सङ्काशैः विमानैः सर्वतः वृतम्॥ 21

विचित्र-उपवन-उद्यानैः कूजत्-द्विज-कुल-आकुलैः।
प्रोत्फुल्ल-कुमुद-अम्भोज-कह्लार-उत्पल-वारिभिः॥ 22

जुष्टं स्व-अलङ्कृतैः पुम्भिः स्त्रीभिः च हरिण-आक्षिभिः।
किम् इदम् कस्य वा स्थानं कथं तत् इदम् इति अभूत्॥ 23

एवम् मीमांसमानं तम् नराः नार्यः अमर-प्रभाः।
प्रत्यगृह्णन् महा-भागं गीत-वाद्येन भूयसा॥ 24

पतिम् आगतम् आकर्त्य पत्नी उत्-हर्ष- अतिसम्भ्रमा।
निःचक्राम गृहात् तूर्णं रूपिणी श्रीः इव आलयात्॥ 25

पति-व्रता पतिम् दृष्ट्वा प्रेम-उत्कण्ठा-अश्रु-लोचना।
मीलित-अक्षी अनमत् बुद्ध्या मनसा परिषस्वजे॥ 26

पत्नीम् वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीम् इव।
दासी-नाम् निष्क-कण्ठी-नाम् मध्ये भान्तीं स विस्मितः॥ 27

प्रीतः स्वयं तया युक्तः प्रविष्टः निज-मन्दिरम्।
मणि-स्तम्भ-शत-उपेतं महेन्द्र-भवनं यथा॥ 28

पयः-फेन-निभाः शय्याः दान्ताः रुक्म-परिच्छदाः।
पर्यङ्काः हेम-दण्डानि चामर-व्यजनानि च॥ 29

आसनानि च हैमानि मृदु-उपस्तरणानि च।
मुक्ता-दाम-विलम्बीनि वितानानि द्युमन्ति च॥ 30

स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च।
रत्न-दीपाः भ्राजमानान् ललना-रत्न-संयुताः॥ 31

विलोक्य ब्राह्मणः तत्र समृद्धीः सर्व-सम्पदाम्।
तर्कयामास निर्व्यग्रः स्व-समृद्धि-मह-हेतुकīm॥ 32

नूनम् बत एतत् मम दुर्भगस्य शश्वत्-दरिद्रस्य समृद्धि-हेतुः।
महा-विभूतेः अवलोकतः अन्यः नैव उपपद्येत यदूत्तमस्य॥ 33

ननु अब्रुवाणः दिशते समक्षं याचिष्णवे भूरि अपि भूरि-भोजः।
पर्जन्यवत् तत् स्वयं ईक्षमाणः दाशार्हकाणाम् ऋषभः सखा मे॥ 34

किञ्चित् करोति उर्वपि यत् स्व-दत्तं सुहृत्-कृतं फल्गु अपि भूरि-कारी।
मया उपनीतं पृथुक-एक-मुष्टिं प्रत्यग्रहीत् प्रीति-युतः महात्मा॥ 35

तस्य एव मे सौहृद-सख्यम् मैत्री दास्यम् पुनः जन्मनि जन्मनि स्यात्।
महानुभावेन गुण-आलयेन विषज्जतः तत्-पुरुष-प्रसङ्गः॥ 36

भक्ताय चित्राः भगवान् हि सम्पदः राज्यं विभूतयः न समर्थयति अजः।
अदीर्घ-बोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनाम् मद-उद्भवम्॥ 37

इत्थम् व्यवसितः बुद्ध्या भक्तः अतीव जनार्दने।
विषयान् जाया-या त्यक्ष्यन् बुभुजे न अति-लम्पटः॥ 38

तस्य वै देव-देवस्य हरेः यज्ञ-पतेः प्रभोः।
ब्राह्मणाः प्रभवः दैवम् न तेभ्यः विद्यते परम्॥ 39

एवं स विप्रः भगवत्-सुहृत् तदा दृष्ट्वा स्व-भृत्यैः अजितं पराजितम्।
तत्-ध्यान-वेग-उद्ग्रथित-आत्म-बन्धनः तत्-धाम लेभे अचिरतः सताम् गतिम्॥ 40

एतत् ब्रह्मण्य-देवस्य श्रुत्वा ब्रह्मण्यताम् नरः।
लब्ध-भावः भगवति कर्म-बन्धात् विमुच्यते॥ 41॥

इति श्रीमत्-भागवते महा-पुराणे पारमहंस्यां संहितायाम्
दशम-स्कन्धे उत्तर-अर्धे पृथुक-उपाख्यानं नाम
एक-शीतितमः अध्यायः॥ 81॥