Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 82 (குருக்ஷேத்ரத்தில் நந்தகோபர் யசோதை கண்ணனை சந்திக்கிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 குருக்ஷேத்ரத்தில்

நந்தகோபர் 

யசோதை கண்ணனை சந்திக்கிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 82

श्री-शुकः उवाच

अथ एकदा द्वारवत्याम् वसतः राम-कृष्णयोः।
सूर्य-उपरागः सुमहान् आसीत् कल्प-क्षये यथा॥ 1॥

तं ज्ञात्वा मनुजाः राजन् पुरः-तात्-एव सर्वतः।
समन्त-पञ्चकं क्षेत्रम् ययुः श्रेयः-विधित्सया॥ 2॥

निः-क्षत्रियाम् महीम् कुर्वन् रामः शस्त्र-भृताम् वरः।
नृपाणाम् रुधिर-ओघेण यत्र चक्रे महा-ह्रदान्॥ 3॥

ईजे च भगवान् रामः यत्र अस्पृष्टः अपि कर्मणा।
लोकस्य ग्रहयन् ईशः यथा अन्यः अघ-अप-नुत्तये॥ 4॥

महत्याम् तीर्थ-यात्रायाम् तत्र आगन् भारतीः प्रजाः।
वृष्णयः च तथा अक्रूर-वसुदेव-आहुक-आदयः॥ 5॥

ययुः भारत तत् क्षेत्रम् स्व-अघम् क्षपयिष्णवः।
गद-प्रद्युम्न-साम्ब-आद्याः सुचन्द्र-शुक-सारणैः॥ 6॥

आस्ते अनिरुद्धः रक्षायाम् कृतवर्मा च यूथपः।
ते रथैः देव-धिष्ण्य-आभैः हयैः च तरल-प्लवैः॥ 7॥

गजैः नदद्-भिः अभ्र-आभैः नृभिः विद्याधर-द्युभिः।
व्यरोचन्त महा-तेजाः पथि काञ्चन-मालिनः॥ 8॥

दिव्य-स्रक्-वस्त्र-सन्नाहाः कलत्रैः खेचराः इव।
तत्र स्नात्वा महा-भागाः उपोष्य सुसमाहिताः॥ 9॥

ब्राह्मणेभ्यः ददुः धेनुः वासः-स्रक्-रुक्म-मालिनीः।
राम-ह्रदेषु विधिवत् पुनः-आप्लुत्य वृष्णयः॥ 10॥

ददुः स्व-अन्नम् द्विज-आग्र्येभ्यः कृष्णे नः भक्तिः अस्तु इति।
स्वयम् च तत्-अनुज्ञाताः वृष्णयः कृष्ण-देवताः॥ 11॥

भुक्त्वा उपविविशुः कामम् स्निग्ध-छाय-आङ्घ्रि-पाङ्घ्रिषु।
तत्र आगतान् ते ददृशुः सुहृत्-संबन्धिनः नृपान्॥ 12॥

मत्स्य-उशीनर-कौशल्य-विदर्भ-कुरु-सृञ्जयान्।
काम्बोज-कैकयान् मद्रान् कुन्तीन् आनर्त-केरलान्॥ 13॥

अन्यान् च एव आत्म-पक्षीयान् परान् च शतशः नृप।
नन्द-आदीन् सुहृदः गोपान् गोप्यः च उत्कण्ठिताः चिरम्॥ 14॥

अन्योन्य-सन्दर्शन-हर्ष-रंहसा
प्रोत्फुल्ल-हृत्-वक्त्र-सरोरुह-श्रियः।
आश्लिष्य गाढम् नयनैः स्रवत्-जलाः
हृष्यत्-त्वचः रुद्ध-गिरः ययुः मुदम्॥ 15॥

स्त्रियः च संवीक्ष्य मिथः अति-सौहृद-
स्मित-अमल-आपाङ्ग-दृशः अभिरेभिरे।
स्तनैः स्तनान् कुङ्कुम-पङ्क-रूषितान्
निहत्य दोर्-भिः प्रणय-अश्रु-लोचनाः॥ 16॥

ततः अभिवाद्य ते वृद्धान् यविष्ठैः अभिवादिताः।
स्वागतम् कुशलम् पृष्ट्वा चक्रुः कृष्ण-कथाः मिथः॥ 17॥

पृथा भ्रातॄन् स्वसॄः वीक्ष्य तत्-पुत्रान् पितरौ अपि।
भ्रातृ-पत्नीः मुकुन्दम् च जहौ सङ्कथया शुचः॥ 18॥

कुन्ती ऊवाच –
आर्य भ्रातरः अहम् मन्ये आत्मानम् अकृत-आशिषम्।
यत् वा आपत्सु मद्-वार्ताम् न अनुस्मरथ सत्तमाः॥ 19॥

सुहृतः ज्ञातयः पुत्राः भ्रातरः पितरौ अपि।
न अनुस्मरन्ति स्व-जम् यस्य दैवम् अदक्षिणम्॥ 20॥

श्री-वसुदेवः उवाच –
अम्ब मा अस्मान्-असूयetha दैव-क्रीडन-कान् नरान्।
ईशस्य हि वशे लोकः कुरुते कार्यते अथवा॥ 21॥

कंस-प्रतापिताः सर्वे वयं याताः दिशं दिशम्।
एतर्हि एव पुनः स्थानं दैवेन आसादिताः स्वसः॥ 22

श्री-शुकः उवाच –
वसुदेव-उग्रसेन-आद्यैः यदुभिः ते अर्चिताः नृपाः।
आसन् अच्युत-सन्दर्श-परम्-आनन्द-निर्वृताः॥ 23

भीष्मः द्रोणः अम्बिका-पुत्रः गान्धारी स-सुता तथा।
स-दाराः पाण्डवाः कुन्ती सृञ्जयः विदुरः कृपः॥ 24

कुन्ती-भोजः विराटः च भीष्मकः नग्नजित् महान्।
पुरुजित् द्रुपदः शल्यः धृष्ट-केतुः स-काशिराट्॥ 25

दम-घोषः विशाल-अक्षः मैथिलः मद्र-केकयौ।
युधामन्युः सुशर्मा च स-सुता बाह्लिक-आदयः॥ 26

राजानः ये च राजेन्द्र युधिष्ठिरम् अनुव्रताः।
श्री-निकेतं वपुः शौरेः स-स्त्रीकं वीक्ष्य विस्मिताः॥ 27

अथ ते राम-कृष्णाभ्याम् सम्यक् प्राप्त-समर्हणाः।
प्रशशंसुः मुदाऽयुक्ताः वृष्णीन् कृष्ण-परिग्रहान्॥ 28

अहो भोज-पते यूयम् जन्म-भाजः नृणाम् इह।
यत् पश्यथ असकृत् कृष्णम् दुर्दर्शम् अपि योगिनाम्॥ 29

यत्-विश्रुतिः श्रुति-नुते इदम् अमलं पुनाति।
पाद-अवनेजन-पयः च वचः च शास्त्रम्।
भूमिः काल-भर्जित-भगः अपि यत्-अङ्घ्रि-पद्म-
स्पर्श-उत्थ-शक्तिः अभिवर्षति नः अखिल-अर्थान्॥ 30

तत्-दर्शन-स्पर्शन-अनुपथ-प्रजल्प-
शय्या-आसन-आशन-सयोनस-पिण्ड-बन्धः।
येषाम् गृहे निरय-वर्त्मनि वर्तताम् वः
स्वर्ग-अपवर्ग-विरमः स्वयं आस विष्णुः॥ 31


नन्दः तत्र यदून् प्राप्तान् ज्ञात्वा कृष्ण-पुरोगमान्।
तत्र आगमत् वृतः गोपैः अनः-स्थ-अर्थैः दिदृक्षया॥ 32

तम् दृष्ट्वा वृष्णयः हृष्टाः तन्वः प्राणम् इव उत्थिताः।
परिषस्वजिरे गाढम् चिर-दर्शन-कातराः॥ 33

वसुदेवः परिष्वज्य सम्प्रीतः प्रेम-विह्वलः।
स्मरन् कंस-कृतान् क्लेशान् पुत्र-न्यासम् च गोकुले॥ 34

कृष्ण-रामौ परिष्वज्य पितरौ अभिवाद्य च।
न किञ्चन ऊचतुः प्रेम्णा स-आश्रु-कण्ठौ कुरु-उद्वह॥ 35

तौ आत्म-आसनम् आरोप्य बाहुभ्याम् परिरभ्य च।
यशोदा च महा-भागा सुतौ विजहतुः शुचः॥ 36

रोहिणी देवकी च अथ परिष्वज्य व्रजेश्वरीम्।
स्मरन्त्यौ तत्-कृताम् मैत्रीम् बाष्प-कण्ठ्यौ समूचतुः॥ 37

का विस्मरेत वाम् मैत्रीम् अनिवृत्ताम् व्रजेश्वरी।
अवाप्य आप्य ऐन्द्रम् ऐश्वर्यम् यस्याः न इह प्रतिक्रिया॥ 38

एतावत् दृष्ट-पितरौ युवयोः स्म पित्रोः
सम्प्रीणन-अभ्युदय-पोषण-पालनानि।
प्राप्य उषतुर्भवति पक्ष्म ह यत् वद्-अक्ष्णोः
न्यस्तौ अकुत्र च भयौ न सताम् परः स्वः॥ 39

श्री-शुक उवाच – गोप्यः च कृष्णम् उपलभ्य चिरात् अभीष्टम्
यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतम् शपन्ति।
दृग्भिः हृदीकृतम् अलम् परिरभ्य सर्वाः
तत्-भावम् आपुः अपि नित्य-युजाम् दुरापम्॥ 40

भगवान् ताः तथा-भूताः विविक्ते उपसङ्गतः।
आश्लिष्य आनामयम् पृष्ट्वा प्रहसन् इदम् अब्रवीत्॥ 41

अपि स्मरथ नः सख्यः स्व-आनाम् अर्थ-चिकीर्षया।
गतान् चिरायितान् शत्रु-पक्ष-क्षपण-चेतसः॥ 42

अपि अवध्यायथ नः स्वित् अ-कृतज्ञ-विशङ्कया।
नूनम् भूतानि भगवान् युनक्ति वियुनक्ति च॥ 43

वायुः यथा घन-आनीकं तृणम् तूलं रजांसि च।
संयोज्य अक्षिपते भूयः तथा भूतानि भूत-कृत्॥ 44

मयि भक्तिः हि भूतानाम् अमृतत्वाय कल्पते।
दिष्ट्या यत् आसीत् मत्-स्नेहः भवतीनाम् मत्-अपनः॥ 45

अहं हि सर्व-भूतानाम् आदिः अन्तः अन्तरम् बहिः।
भौतिकानाम् यथा खम् वार्-भूः वायुः ज्योतिः अङ्गनाः॥ 46

एवम् हि एतानि भूतानि भूतेषु आत्मा आत्मना ततः।
उभयम् मयि अथ परे पश्यत आभातम् अक्षरे॥ 47

श्री-शुकः उवाच – अध्यात्म-शिक्षया गोप्यः एवं कृष्णेन शिक्षिताः।
तत्-अनुस्मरण-ध्वस्त-जीव-कोशाः तम् अध्यगन्॥ 48

आहुः च ते नलिन-नाभ-पद-अरविन्दम्
योगेश्वरैः हृदि विचिन्त्यम् अगाध-बोधैः।
संसार-कूप- पतित-उत्तरण-अवलम्बम्
गेहम्-जुषाम् अपि मनसि उदियात् सदा नः॥ 49

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे वृष्णीगोपसङ्गमो नाम द्व्यशीतितमोऽध्यायः॥ 82॥

ஸ்கந்தம் 10: அத்யாயம் 81 (கண்ணன் ஸுதாமாவுக்கு அனுக்ரஹம் செய்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 கண்ணன் ஸுதாமாவுக்கு அனுக்ரஹம் செய்கிறார்

ஸ்கந்தம் 10: அத்யாயம் 81

श्री शुक उवाच
स इत्थं द्विज-मुख्येन सह सङ्-कथयन् हरिः।
सर्व-भूत-मनः-अभिज्ञः स्मयमानः उवाच तम्॥ 1

ब्रह्मण्यः ब्राह्मणम् कृष्णः भगवान् प्रहसन् प्रियम्।
प्रेम्णा निरीक्षणेन एव प्रेक्षन् खलु सताम् गतिः॥ 2

श्री भगवान् उवाच
किम् उपायनम् आनीतं ब्रहन् मे भवता गृहात्।
अणु अपि उपाहृतं भक्तैः प्रेम्णा भुः इव मे भवेत्।
भूरि अपि अभक्त उपहृतं न मे तोषाय कल्पते॥ 3

पत्रं पुष्पं फलम् तोयम् यः मे भक्त्या प्रयच्छति।
तत् अहम् भक्त्या उपहृतम् अश्नामि प्रयत-आत्मनः॥ 4

इति उक्तः अपि द्विजः तस्मै व्रीडितः पतये श्रियः।
पृथुक-प्रसृतिम् राजन् न प्रायच्छत् अवाङ्मुखः॥ 5

सर्व-भूत-आत्म-दृक् साक्षात् तस्य आगमन-कारणम्।
विज्ञाय आचिन्तयन् अयम् श्री-कामः माम् अभजत् पुरा॥ 6

पत्‍न्याः पतिव्रतायाः तु सखा प्रियत-चिकीर्षया।
प्राप्तः माम् अस्य दास्यामि सम्पदः अमर्त्य-दुर्लभाः॥ 7

इत्थं विचिन्त्य वसनात् चीर-बद्धान् द्विज-जन्मनः।
स्वयम् जहार किम् इदम् इति पृथुक-तण्डुलान्॥ 8

नु एतत् उपनीतं मे परम-प्रीणनं सखे।
तर्पयन्ति अङ्ग माम् विश्वम् एते पृथुक-तण्डुलाः॥ 9

इति मुष्टिम् सकृत् जग्ध्वा द्वितीयाम् जग्धुम् आददे।
तावत् श्रीः जगृहे हस्तं तत् परा परमेष्ठिनः॥ 10

एतावत् अलम् विश्व-आत्मन् सर्व-सम्पत् समृद्धये।
अस्मिन् लोके अथ वा अमुष्मिन् पुंसः त्वत्-तोष-कारणम्॥ 11

ब्राह्मणः ताम् तु रजनीम् उषित्वा अच्युत-मन्दिरे।
भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतम् यथा॥ 12

श्वः भूते विश्व-भावेन स्व-सुखेन अभिवन्दितः।
जगाम स्व-आलयं तात पथ्य अनु व्रज्य नन्दितः॥ 13

स च अलब्ध्वा धनं कृष्णात् न तु याचितवान् स्वयम्।
स्व-गृहान् व्रीडितः अगच्छत् महत्-दर्शन-निर्वृतः॥ 14

अहो ब्रह्मण्य-देवस्य दृष्टा ब्रह्मण्यता मया।
यत् दरिद्रतमः लक्ष्मीम् आश्लिष्टः बिभ्रतः उरसि॥ 15

क्व अहम् दरिद्रः पापीयान् क्व कृष्णः श्री-निकेतनः।
ब्रह्म-बन्धुः इति स्म अहम् बाहुभ्याम् परिरम्भितः॥ 16

निवासितः प्रिया-जुष्टे पर्यङ्के भ्रातरः यथा।
महिष्याः वीजितः श्रान्तः वाल-व्यजन-हस्तया॥ 17

शुश्रूषया परमया पाद-संवाहन-आदिभिः।
पूजितः देव-देवेन विप्र-देवेन देववत्॥ 18

स्वर्ग-अपवर्गयोः पुंसाम् रसायाम् भुवि सम्पदाम्।
सर्वासाम् अपि सिद्धीनां मूलं तत् चरण-आर्चनम्॥ 19

अधनः अयम् धनं प्राप्य माद्यात् उच्छैः न माम् स्मरेत्।
इति कारुणिकः नूनं धनं मे अभूरि न आददात्॥ 20

इति तत् चिन्तयन् अन्तः प्राप्तः नियगृह-अन्तिकम्।
सूर्य-अनल-इन्दु-सङ्काशैः विमानैः सर्वतः वृतम्॥ 21

विचित्र-उपवन-उद्यानैः कूजत्-द्विज-कुल-आकुलैः।
प्रोत्फुल्ल-कुमुद-अम्भोज-कह्लार-उत्पल-वारिभिः॥ 22

जुष्टं स्व-अलङ्कृतैः पुम्भिः स्त्रीभिः च हरिण-आक्षिभिः।
किम् इदम् कस्य वा स्थानं कथं तत् इदम् इति अभूत्॥ 23

एवम् मीमांसमानं तम् नराः नार्यः अमर-प्रभाः।
प्रत्यगृह्णन् महा-भागं गीत-वाद्येन भूयसा॥ 24

पतिम् आगतम् आकर्त्य पत्नी उत्-हर्ष- अतिसम्भ्रमा।
निःचक्राम गृहात् तूर्णं रूपिणी श्रीः इव आलयात्॥ 25

पति-व्रता पतिम् दृष्ट्वा प्रेम-उत्कण्ठा-अश्रु-लोचना।
मीलित-अक्षी अनमत् बुद्ध्या मनसा परिषस्वजे॥ 26

पत्नीम् वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीम् इव।
दासी-नाम् निष्क-कण्ठी-नाम् मध्ये भान्तीं स विस्मितः॥ 27

प्रीतः स्वयं तया युक्तः प्रविष्टः निज-मन्दिरम्।
मणि-स्तम्भ-शत-उपेतं महेन्द्र-भवनं यथा॥ 28

पयः-फेन-निभाः शय्याः दान्ताः रुक्म-परिच्छदाः।
पर्यङ्काः हेम-दण्डानि चामर-व्यजनानि च॥ 29

आसनानि च हैमानि मृदु-उपस्तरणानि च।
मुक्ता-दाम-विलम्बीनि वितानानि द्युमन्ति च॥ 30

स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च।
रत्न-दीपाः भ्राजमानान् ललना-रत्न-संयुताः॥ 31

विलोक्य ब्राह्मणः तत्र समृद्धीः सर्व-सम्पदाम्।
तर्कयामास निर्व्यग्रः स्व-समृद्धि-मह-हेतुकīm॥ 32

नूनम् बत एतत् मम दुर्भगस्य शश्वत्-दरिद्रस्य समृद्धि-हेतुः।
महा-विभूतेः अवलोकतः अन्यः नैव उपपद्येत यदूत्तमस्य॥ 33

ननु अब्रुवाणः दिशते समक्षं याचिष्णवे भूरि अपि भूरि-भोजः।
पर्जन्यवत् तत् स्वयं ईक्षमाणः दाशार्हकाणाम् ऋषभः सखा मे॥ 34

किञ्चित् करोति उर्वपि यत् स्व-दत्तं सुहृत्-कृतं फल्गु अपि भूरि-कारी।
मया उपनीतं पृथुक-एक-मुष्टिं प्रत्यग्रहीत् प्रीति-युतः महात्मा॥ 35

तस्य एव मे सौहृद-सख्यम् मैत्री दास्यम् पुनः जन्मनि जन्मनि स्यात्।
महानुभावेन गुण-आलयेन विषज्जतः तत्-पुरुष-प्रसङ्गः॥ 36

भक्ताय चित्राः भगवान् हि सम्पदः राज्यं विभूतयः न समर्थयति अजः।
अदीर्घ-बोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनाम् मद-उद्भवम्॥ 37

इत्थम् व्यवसितः बुद्ध्या भक्तः अतीव जनार्दने।
विषयान् जाया-या त्यक्ष्यन् बुभुजे न अति-लम्पटः॥ 38

तस्य वै देव-देवस्य हरेः यज्ञ-पतेः प्रभोः।
ब्राह्मणाः प्रभवः दैवम् न तेभ्यः विद्यते परम्॥ 39

एवं स विप्रः भगवत्-सुहृत् तदा दृष्ट्वा स्व-भृत्यैः अजितं पराजितम्।
तत्-ध्यान-वेग-उद्ग्रथित-आत्म-बन्धनः तत्-धाम लेभे अचिरतः सताम् गतिम्॥ 40

एतत् ब्रह्मण्य-देवस्य श्रुत्वा ब्रह्मण्यताम् नरः।
लब्ध-भावः भगवति कर्म-बन्धात् विमुच्यते॥ 41॥

इति श्रीमत्-भागवते महा-पुराणे पारमहंस्यां संहितायाम्
दशम-स्कन्धे उत्तर-अर्धे पृथुक-उपाख्यानं नाम
एक-शीतितमः अध्यायः॥ 81॥

ஸ்கந்தம் 10: அத்யாயம் 80 (ஸுதாமா துவாரகை கிளம்பினார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 ஸுதாமா துவாரகை

கிளம்பினார்.

ஸ்கந்தம் 10: அத்யாயம் 80

श्री-राजा उवाच
भगवन् यानि च अन्यानि मुकुन्दस्य महा-आत्मनः ।
वीर्याणि अनन्त-वीर्यस्य श्रोतुम् इच्छामहे प्रभो ॥1॥

कः नु श्रुत्वा असकृत् ब्रहन् उत्तमः-श्लोक-सत्-कथाः ।
विरमेत विशेष-ज्ञः विषण्णः काम-मार्गणैः ॥2॥

सा वाक् या या तस्य गुणान् गृणीते
करौ च तत्-कर्म-करौ मनः च ।
स्मरेत् वसन्तम् स्थिर-जङ्गमेषु
शृणोति तत्-पुण्य-कथाः सः कर्णः ॥3॥

शिरः तु तस्य उभय-लिङ्गम् आनमेत्
तत् एव यत् पश्यति तत् हि चक्षुः ।
अङ्गानि विष्णोः अथ तत्-जनानाम्
पाद-उदकम् यानि भजन्ति नित्यम् ॥4॥

सूतः उवाच —
विष्णु-रातेन सम्पृष्टः भगवान् बादरायणिः ।
वासुदेवे भगवति निमग्न-हृदयः अब्रवीत् ॥5॥

श्री-शुकः उवाच —
कृष्णस्य आसीत् सखा कश्चित् ब्राह्मणः ब्रह्म-वित्तमः ।
विरक्तः इन्द्रिय-अर्थेषु प्रशान्त-आत्मा जित-इन्द्रियः ॥6॥

यदृच्छया उपपन्नेन वर्तमानः गृह-आश्रमी ।
तस्य भार्या कुचैलस्य क्षुत्-क्षामा च तथा-विदा ॥7॥

पति-व्रता पतिम् प्राह म्लायता वदनेन सा ।
दरिद्रा सीदमाना सा वेपमाना अभिगम्य च ॥8॥

नु ब्रहन् भगवतः सखा साक्षात् श्रियः पतिः ।
ब्रह्मण्यः च शरण्यः च भगवान् सात्वत-ऋषभः ॥9॥

तम् उपैहि महा-भाग साधूनाम् च परायणम् ।
दास्यति द्रविणम् भूरि सीदते ते कुटुम्बिने ॥10॥

आस्ते अधुना द्वारवत्याम् भोज-वृष्णि-अन्धक-ईश्वरः ।
स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति ।
किम् नु अर्थ-कामान् भजतः न अति-अभीष्टान् जगत्-गुरुः ॥11॥

सः एवम् भार्यया विप्रः बहुशः प्रार्थितः मृदु ।
अयम् हि परमः लाभः उत्तम-श्लोक-दर्शनम् ॥12॥

इति सञ्चिन्त्य मनसा गमनाय मतिम् दधे ।
अपि अस्ति उपायनम् किञ्चित् गृहे कल्याणि दीयताम् ॥13॥

याचित्वा चतुरः मुष्टीन् विप्रान् पृथुक-तण्डुलान् ।
चैल-खण्डेन तान् बद्ध्वा भर्त्रे प्रादात् उपायनम् ॥14॥

सः तान् आदाय विप्र-अग्र्यः प्रययौ द्वारकाम् किल ।
कृष्ण-सन्दर्शनम् मम कथम् स्यात् इति चिन्तयन् ॥15॥

त्रीणि गुल्मानि अतीत्य तिस्रः कक्षाः च सः द्विजः ।
विप्रः अगम्य अन्धक-वृष्णीनाम् गृहेषु अच्युत-धर्मिणाम् ॥16॥

गृहम् द्वि-अष्ट-सहस्राणाम् महिषीणाम् हरेः द्विजः ।
विवेश एकतमम् श्रीमत् ब्रह्म-आनन्दम् गतः यथा ॥17॥

तम् विलोक्य अच्युतः दूरात् प्रिया-पर्यङ्कम् आस्थितः ।
सहसा उत्थाय च अभ्येत्य दोर्भ्याम् पर्यग्रहीत् मुदा ॥18॥

सख्युः प्रियस्य विप्र-ऋषेः अङ्ग-सङ्गात् निर्वृतः ।
प्रीतः व्यमुञ्चत् अम्बु-बिन्दून् नेत्राभ्याम् पुष्कर-ईक्षणः ॥19॥

अथ उपवेश्य पर्यङ्के स्वयम् सख्युः समर्हणम् ।
उपहृत्य अवनिज्य आस्य पादौ पाद-अवनेजनी ॥20॥

अग्रहीत् शिरसा राजन् भगवन् लोक-पावनः ।
विलिम्पत् दिव्य-गन्धेन चन्दन-अगुरु-कुङ्कमैः ॥21॥

धूपैः सुरभिभिः मित्रम् प्रदीप-आवलिभिः मुदा ।
अर्चित्वा आवेद्य ताम्बूलम् गाम् च स्वागतम् अब्रवीत् ॥22॥

कुचैलम् मलिनम् क्षामम् द्विजम् धमनि-संततम् ।
देवी पर्यचरत् साक्षात् चामर-व्यजनेन वै ॥23॥

अन्तःपुर-जनः दृष्ट्वा कृष्णेन अमल-कीर्तिना ।
विस्मितः अभूत् अति-प्रीत्या अवधूतम् सभाजितम् ॥24॥

किम् अनेन कृतम् पुण्यम् अवधूतेन भिक्षुणा ।
श्रिया हीनेन लोके अस्मिन् गर्हितेन अधमेन च ॥25॥

यः असौ त्रि-लोक-गुरुणा श्री-निवासेन सम्भृतः ।
पर्यङ्क-स्थाम् श्रियम् हित्वा परिष्वक्तः अग्रजः यथा ॥26॥

कथयन् चक्रतुः गाथाः पूर्वाः गुरुकुले सतः ।
आत्मनः ललिताः राजन् करौ गृह्य परस्परम् ॥27॥

श्री-भगवान् उवाच —
अपि ब्रहन् गुरुकुलात् भवता लब्ध-दक्षिणात् ।
समावृत्तेन धर्म-ज्ञ भार्या उढा सदृशी न वा ॥28॥

प्रायः गृहेषु ते चित्तम् अकाम-विहितम् तथा ।
न एव अति-प्रीयसे विद्वन् धनेषु विदितम् हि मे ॥29॥

केचित् कुर्वन्ति कर्माणि कामैः अहत-चेतसः ।
त्यजन्तः प्रकृतिः दैवीः यथा अहम् लोक-सङ्ग्रहम् ॥30॥

कच्चित् गुरुकुले वासम् ब्रहन् स्मरसि नः यतः ।
द्विजः विज्ञाय विज्ञेयं तमसः पारम् अश्नुते ॥31॥

सः वै सत्कर्मणाम् साक्षात् द्विजातेः इह सम्भवः ।
आद्यः अङ्गः यत्र आश्रमिणाम् यथा अहम् ज्ञानदः गुरुः ॥32॥

नु अर्थ-कोविदाः ब्रहन् वर्ण-आश्रमवताम् इह ।
ये मया गुरुणा वाचा तरन्ति अञ्जः भव-अर्णवम् ॥33॥

न अहम् इज्या-प्रजातिभ्याम् तपसा उपशमेन वा ।
तुष्येयम् सर्व-भूत-आत्मा गुरु-शुश्रूषया यथा ॥34॥

अपि नः स्मर्यते ब्रहन् वृत्तम् निवसताम् गुरौ ।
गुरु-दारैः च उदितानाम् इन्धन-आयने क्वचित् ॥35॥

प्रविष्टानाम् महाअरण्यम् अपर्तौ सुमहत् द्विज ।
वात-वर्षम् अभूत् तीव्रम् निष्ठुराः स्तनयित्नवः ॥36॥

सूर्यः च अस्तम् गतः तावत् तमसा च आवृता दिशः ।
निम्नम् कूलम् जल-मयम् न प्राज्ञायत किञ्चन ॥37॥

वयम् भृशम् तत्र महा-अनिल-अम्बुभिः
निहन्यमानाः मुहुः अम्बु-सम्प्लवे ।
दिशः अविदन्तः अथ परस्परम् वने
गृहीत-हस्ताः परिबभ्रिम आतुराः ॥38॥

एतत् विदित्वा उदिते रवौ सान्दीपनिः गुरुः ।
अन्वेषमाणः नः शिष्यन् आचार्यः अपश्यत् आतुरान् ॥39॥

अहो हे पुत्रकाः यूयम् अस्मत्-अर्थे अति-दुःखिताः ।
आत्मा वै प्राणिनाम् प्रेष्ठः तम् अनादृत्य मत्-पराः ॥40॥

एतत् एव हि सत्-शिष्यैः कर्तव्यम् गुरु-निष्कृतम् ।
यत् वै विशुद्ध-भावेन सर्व-अर्थ-आत्म-अर्पणम् गुरौ ॥41॥

तुष्टः अहम् भोः द्विज-श्रेष्ठाः सत्याः सन्तु मनोरथाः ।
छन्दांसि अयात-यामानि भवन्तु इह परत्र च ॥42॥

इत्थम् विधानि अनेकानि वसताम् गुरु-वेश्मसु ।
गुरोः अनुग्रहेण एव पुमान् पूर्णः प्रशान्तये ॥43॥

श्री-ब्राह्मणः उवाच —
किम् अस्माभिः अनिर्वृत्तम् देव-देव जगत्-गुरो ।
भवता सत्य-कामेन येषाम् वासः गुरौ अभूत् ॥44॥

यस्य छन्दः-मयम् ब्रह्म देह आवपनम् विभो ।
श्रेयसाम् तस्य गुरुषु वासः अत्यन्त-विडम्बनम् ॥45॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीदामचरिते अशीतितमोऽध्यायः ॥८०॥


ஸ்கந்தம் 10: அத்யாயம் 79 (பலராமர் தீர்த்த யாத்திரை கிளம்பினார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 பலராமர் தீர்த்த யாத்திரை கிளம்பினார்.

ஸ்கந்தம் 10: அத்யாயம் 79

श्री-शुकः उवाच — 
ततः पर्वणि उपावृत्ते प्रचण्डः पांशु-वर्षणः।
भीमः वायुः अभूत् राजन् पूय-गन्धः तु सर्वशः॥ 1

ततः अमेध्य-मयम् वर्षम् बल्वलेन विनिर्मितम्।
अभवत् यज्ञ-शालायाम् सः अन्वदृश्यत शूल-धृक्॥ 2

तम् विलोक्य बृहत्-कायम् भिन्न-अञ्जन-चय-उपमम्।
तप्त-ताम्र-शिखा-अश्मश्रुम् दंष्ट्रा-उग्र-भ्रुकुटी-मुखम्॥ 3

सः स्मार मूसलम् रामः पर-सैन्य-विदारणम्।
हलम् च दैत्य-दमनम् ते तूर्णम् उपतस्थतुः॥ 4

तम् आकृष्य हल-अग्रेण बल्वलम् गगन-चरम्।
मूषलेन अहनत् क्रुद्धः मूर्ध्नि ब्रह्म-द्रुहम् बलः॥ 5

सः अपतत् भुवि निर्भिन्न-ललाटः असृक् समुत्सृजन्।
मुञ्चन् आर्त-स्वरम् शैलः यथा वज्र-हतः अरुणः॥ 6

संस्तुत्य मुनयः रामम् प्रयुज्य अवितथ-आशिषः।
अभ्यषिञ्चन् महा-भागाः वृत्र-घ्नम् विबुधाः यथा॥ 7

वैजयन्तीम् ददुः मालाम् श्री-धामाम् अम्लान-पङ्कजाम्।
रामाय वाससी दिव्ये दिव्यानि आभरणानि च॥ 8

अथ तैः अभ्यनुज्ञातः कौशिकीम् एत्य ब्राह्मणैः।
स्नात्वा सरोवरम् अगात् यतः सरयूः आस्रवत्॥ 9

अनु-स्रोतेन सरयूम् प्रयागम् उपगम्य सः।
स्नात्वा सन्तर्प्य देव-आदीन् जगाम पुलह-आश्रमम्॥ 10

गोमतीम् गण्डकीम् स्नात्वा विपाशाम् शोणम् आप्लुतः।
गयाम् गत्वा पितृन् इष्ट्वा गङ्गा-सागर-सङ्गमे॥ 11

उपस्पृश्य महेन्द्र-आद्रौ रामम् दृष्ट्वा अभिवाद्य च।
सप्त-गोदावरीम् वेणाम् पम्पाम् भीम-रथीम् ततः॥ 12

स्कन्दम् दृष्ट्वा ययौ रामः श्री-शैलम् गिरि-आलयम्।
द्रविडेषु महा-पुण्यम् दृष्ट्वा अद्रिम् वेङ्कटम् प्रभुः॥ 13

काम-कोष्णीम् पुरीम् काञ्चीम् कावेरीम् च सरित्-वराम्।
श्री-रङ्ग-आख्यम् महा-पुण्यम् यत्र सन्निहितः हरिः॥ 14

ऋषभ-आद्रिम् हरेः क्षेत्रम् दक्षिणाम् मथुराम् तथा।
सामुद्रम् सेतुम् अगमत् महा-पातक-नाशनम्॥ 15

तत्र अयुतम् अदात् धेनून् ब्राह्मणेभ्यः हलायुधः।
कृतमालाम् ताम्रपर्णीम् मलयं च कुल-आचलम्॥ 16

तत्र अगस्त्यम् समासीनम् नमस्कृत्य अभिवाद्य च।
योजितः तेन च आशीःभिः अनुज्ञातः गतः अर्णवम्॥ 17

दक्षिणम् तत्र कन्या-आख्याम् दुर्गाम् देवीं ददर्श सः।
ततः फाल्गुनम् आसाद्य पञ्च-अप्सरस्-अनुत्तमम्।
विष्णुः सन्निहितः यत्र स्नात्वा अस्पर्शत् गव-आयुतम्॥ 18

ततः अभिव्रज्य भगवान् केरलान् तु त्रिगर्तकान्।
गोकर्ण-आख्यम् शिव-क्षेत्रम् सान्निध्यम् यत्र धूर्जटेः॥ 19

आर्याम् द्वैपायनीम् दृष्ट्वा शूर्पारकम् अगात् बलः।
तापीम् पयोष्णीम् निर्विन्ध्याम् उपस्पृश्य अथ दण्डकम्॥ 20


प्रविश्य रेवाम् अगमत् यत्र माहिष्मती पुरी।
मनु-तीर्थम् उपस्पृश्य प्रभासम् पुनः आगमत्॥ 21

श्रुत्वा द्विजैः कथ्यमानम् कुरु-पाण्डव-संयुगे।
सर्व-राजन्य-निधनम् भारम् मेने हृतम् भुवः॥ 22

सः भीम-दुर्योधनयोः गदाभ्याम् युध्यतोः मृधे।
वारयिष्यान् विनशनम् जगाम यदु-नन्दनः॥ 23

युधिष्ठिरः तु तम् दृष्ट्वा यमौ कृष्ण-अर्जुनौ अपि।
अभिवाद्य अभवन् तुष्णीम् किम् विवक्षुः इह आगतः॥ 24

गदा-पाणी उभौ दृष्ट्वा संरब्धौ विजय-इषिणौ।
मण्डलानि विचित्राणि चरन्तौ इदम् अब्रवीत्॥ 25

युवाम् तुल्य-बलौ वीरौ हे राजन् हे वृक-उदर।
एकम् प्राण-अधिकम् मन्ये उत एकम् शिक्षया अधिकम्॥ 26

तस्मात् एक-तरस्य इह युवयोः सम-वीर्ययोः।
न लक्ष्यते जयः अन्यः वा विरमतु अफलः रणः॥ 27

न तत् वाक्यम् जगृहतुः बद्ध-वैरोः नृप-अर्थवत्।
अनुस्मरन्तौ अन्योन्यम् दुरुक्तम् दुष्कृतानि च॥ 28

दिष्टम् तत् अनुमन्वानः रामः द्वारवतीम् ययौ।
उग्रसेन-आदिभिः प्रीतैः ज्ञातिभिः समुपागतः॥ 29

तम् पुनः नैमिषम् प्राप्तम् ऋषयः अयाजयन् मुदा।
क्रत्-अङ्गम् क्रतुभिः सर्वैः निवृत्त-अखिल-विग्रहम्॥ 30

तेभ्यः विशुद्ध-विज्ञानम् भगवान् व्यतरत् विभुः।
येन एव आत्मनि अदः विश्वम् आत्मानम् विश्वगम् विदुः॥ 31

स्व-पत्य-आवभृथ-स्नातः ज्ञाति-बन्धु-सुहृत्-वृतः।
रेजे स्व-ज्योत्स्नया इव इन्दुः सु-वासाः सुष्ठु-अलङ्कृतः॥ 32

ईदृक्-विधानि असङ्ख्यानि बलस्य बल-शालिनः।
अनन्तस्य अप्रमेयस्य माया-अमर्त्यस्य सन्ति हि॥ 33

यः अनुस्मरेत् रामस्य कर्माणि अद्भुत-कर्मणः।
सायम् प्रातर् अनन्तस्य विष्णोः सः दयितः भवेत्॥ 34

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम्
दशम-स्कन्धे उत्तर-अर्धे बलदेव-तीर्थ-यात्रा-निरूपणम्
नाम एकोन-अशीतितमः अध्यायः॥ 79॥

ஸ்கந்தம் 10: அத்யாயம் 78 (கிருஷ்ணன் தந்தவக்ரனை வதம் செய்கிறார். கோபத்தில் ரோம்ஹர்ஷனரை பலராமர் கொல்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 கிருஷ்ணன் தந்தவக்ரனை

வதம் செய்கிறார்.

கோபத்தில் ரோம்ஹர்ஷனரை

பலராமர் கொல்கிறார்.

ஸ்கந்தம் 10: அத்யாயம் 78

श्री शुक उवाच
शिशुपालस्य शाल्वस्य पौण्ड्रकस्य अपि दुर्मतिः ।
पर-लोक-गतानाम् च कुर्वन् पारोक्ष्य-सौहृदम् ॥ 1

एक: पदाति: सङ्क्रुद्ध: गदा-पाणि: प्रकम्पयन् ।
पद्भ्याम् इमाम् महा-राज महा-सत्त्व: व्यदृश्यत ॥ 2

तम् तथा आयान्तम् आलोक्य गदाम् आदाय सत्वर: ।
अवप्लुत्य रथात् कृष्ण: सिन्धुम् वेले इव प्रत्यधात् ॥ 3

गदाम् उद्यम्य कारूष: मुकुन्दम् प्राह दुर्मद: ।
दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टि-पथम् गत: ॥ 4

त्वम् मातुलेय: न: कृष्ण मित्र-दृक् माम् जिघांससि ।
अतः त्वाम् गदया मन्द हनिष्ये वज्र-कल्पया ॥ 5

तर्हि अनृण्यम् उपैमि अज्ञ मित्राणाम् मित्रवत्सल: ।
बन्धु-रूपम् अरिम् हत्वा व्याधिम् देह-चरम् यथा ॥ 6

एवम् रूक्षै: तुदन् वाक्यै: कृष्णम् तोत्रै: इव द्विपम् ।
गदया ताडयन् मूर्ध्नि सिंहवत् व्यनदत् च स: ॥ 7

गदा-अभिहत: अपि आजौ न चचाल यदु-उद्वह: ।
कृष्ण: अपि तम् अहन् गुर्व्या कौमोदक्या स्तन-अन्तरे ॥ 8

गदा-निर्भिन्न-हृदय: उद्वमन् रुधिरम् मुखात् ।
प्रसार्य केश-बाहु-अङ्घ्रीन् धरण्याम् न्यपतत् व्यसुः ॥ 9

ततः सूक्ष्मतरम् ज्योतिः कृष्णम् आविशत् अद्भुतम् ।
पश्यताम् सर्व-भूतानाम् यथा चैद्य-वधे नृप ॥ 10

विदूरथ: तु तत्-भ्राता भ्रातृ-शोक-परिप्लुत: ।
आगच्छत् असि-चर्म-अभ्याम् उच्छ्वसन् तत्-जिघांसया ॥ 11

तस्य च आपततः कृष्ण: चक्रेण क्षुर-नेमिना ।
शिर: जहार राजेन्द्र स-किरीटम् स-कुण्डलम् ॥ 12

एवम् सौभम् च शाल्वम् च दन्तवक्रम् सह अनुजम् ।
हत्वा दुर्विषह-अन्यै: ईडित: सुर-मानवै: ॥ 13

मुनिभि: सिद्ध-गन्धर्वै: विद्याधर-महोरगै: ।
अप्सरोभि: पितृ-गणै: यक्षै: किन्नर-चारणै: ॥ 14

उपगीयमान-विजय: कुसुमै: अभिवर्षित: ।
वृत: च वृष्णि-प्रवरै: विवेश आलङ्कृताम् पुरीम् ॥ 15

एवम् योगेश्वर: कृष्ण: भगवान् जगत्-ईश्वर: ।
ईयते पशु-दृष्टीनाम् निर्जित: जयति इति स: ॥ 16

श्रुत्वा युद्ध-उद्यमम् राम: कुरूणाम् सह पाण्डवै: ।
तीर्थ-अभिषेक-व्याजेन मध्यस्थ: प्रययौ किल ॥ 17

स्नात्वा प्रभासे सन्तर्प्य देव-ऋषि-पितृ-मानवान् ।
सरस्वतीम् प्रति-स्रोतम् ययौ ब्राह्मण-संवृत: ॥ 18

पृथु-उदकम् बिन्दु-सर: त्रित-कूपम् सुदर्शनम् ।
विशालम् ब्रह्म-तीर्थम् च चक्रम् प्राचीम् सरस्वतीम् ॥ 19

यमुनाम् अनु यानि एव गङ्गाम् अनु च भारत ।
जगाम नैमिषम् यत्र ऋषय: सत्रम् आसते ॥ 20

तम् आगतम् अभिप्रेत्य मुनय: दीर्घ-सत्रिण:।
अभिनन्द्य यथा न्यायम् प्रणम्य उत्थाय च अर्चयन्॥ 21

स: अर्चित: स-परीवार: कृत-आसन-परिग्रह:।
रोमहर्षणम् आसीनम् महर्षे: शिष्यम् ऐक्षत॥ 22

अप्रत्युत्थायिनम् सूतम् अ-कृत-प्रह्व-अञ्जलिम्।
अधि-आसीनम् च तान् विप्रान् चुकोप-उद्वीक्ष्य माधव:॥ 23

कस्मात् असौ इमान् विप्रान् अध्यास्ते प्रति-लोमज:।
धर्म-पालान् तथा एव अस्मान् वधम् अर्हति दुर्मतिः॥ 24

ऋषे: भगवत: भूत्वा शिष्य: अधीत्य बहूनि च।
स-इतिहास-पुराणानि धर्म-शास्त्राणि सर्वश:॥ 25

अ-दान्तस्य अ-विनीतस्य वृथा पण्डित-मानिन:।
न गुणाय भवन्ति स्म नटस्य इव अ-जित-आत्मन:॥ 26

एतत्-अर्थ: हि लोके अस्मिन् अवतार: मया कृत:।
वध्या मे धर्म-ध्वजिन: ते हि पातकिन: अधिका:॥ 27

एतावत् उक्त्वा भगवान् निवृत्त: असत्-वधात् अपि।
भावित्वात् तम् कुश-अग्रेण कर-स्थेन आहनत् प्रभु:॥ 28

हाहेति वादिन: सर्वे मुनय: खिन्न-मानसाः।
ऊचु: सङ्कर्षणम् देवम् अ-धर्म: ते कृत: प्रभो॥ 29

अस्य ब्रह्म-आसनम् दत्तम् अस्माभि: यदु-नन्दन।
आयु: च आत्मा-क्लमम् तावत् यावत् सत्रम् समाप्यते॥ 30

अजानता एव आचरित: त्वया ब्रह्म-वध: यथा।
योगेश्वरस्य भवत: नाम्ना अपि नियामक:॥ 31

यदि एतत् ब्रह्म-हत्यायाः पावनम् लोक-पावन।
चरिष्यति भवाम् लोक-सङ्ग्रह: अनन्य-चोदित:॥ 32

श्री-भगवान् उवाच करिष्ये वध-निर्वेशम् लोक-अनुग्रह-काम्यया।
नियम: प्रथमे कल्पे यावान् स: तु विधीयताम्॥ 33

दीर्घम् आयुः बत एतस्य सत्त्वम् इन्द्रियम् एव च।
आशासितम् यत् तत् ब्रूत साधये योग-मायया॥ 34

ऋषय: ऊचु: अस्त्रस्य तव वीर्यस्य मृत्यो: अस्माकम् एव च।
यथा भवेत् वच: सत्यम् तथा राम विधीयताम्॥ 35

श्री-भगवान् उवाच आत्मा वै पुत्र: उत्पन्न: इति वेद-अनुशासनम्।
तस्मात् अस्य भवेत् वक्ता आयु: इन्द्रिय-सत्त्व-वान्॥ 36

किम् व: काम: मुनि-श्रेष्ठा: ब्रूत अहम् करवाणि अथ।
अजानत: त्व् अपचितिम् यथा मे चिन्त्यताम् बुधा:॥ 37

ऋषय: ऊचु: इल्वलस्य सुत: घोर: बल्वल: नाम दानव:।
स: दूषयति न: सत्रम् एत्य पर्वणि पर्वणि॥ 38

तम् पापम् जहि दाशार्ह तत् न: शुश्रूषणम् परम्।
पूय-शोणित-विण्-मूत्र-सुरा-मांस-अभिवर्षिणम्॥ 39

ततः च भारतम् वर्षम् परीत्य सुसमाहित:।
चरित्वा द्वादश मासान् तीर्थ-स्नायी विशुद्ध्यसे॥ 40

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम्
दशम-स्कन्धे उत्तरार्धे बलदेव-चरिते बल्वल-वध-उपक्रम: नाम
अष्ट-सप्ततितम: अध्याय:॥ 78॥