Followers

Search Here...

Sunday, 18 May 2025

ஸ்கந்தம் 10: அத்யாயம் 69 (நாரதர் துவாரகை வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 நாரதர்

துவாரகை வருகை

ஸ்கந்தம் 10: அத்யாயம் 69

श्री-शुक उवाच –
नरकम् निहतम् श्रुत्वा तथा उद्वाहम् च योषिताम्।
कृष्णेन एकेन बह्वीनाम् तत् दिदृक्षुः स्म नारदः॥ 1

चित्रम् बत एतत् एका इव वपुषा युगपत् पृथक्।
गृहेषु द्वि-अष्ट-साहस्रम् स्त्रियः एकः उदावहत्॥ 2

इति उत्सुकः द्वारवतीम् देव-ऋषिः द्रष्टुम् आगमत्।
पुष्पित-उपवन-आराम द्विज-आलि-कुल-नादिताम्॥ 3

उत्फुल्ल-इन्दीवर-अम्भोज कह्लार-कुमुद-उत्पलैः।
छुरितेषु सरः-सूच्चैः कूजिताम् हंस-सारसैः॥ 4

प्रासाद-लक्षैः नवभिः जुष्टाम् स्फाटिक-राजतैः।
महा-मरकत-प्रख्यैः स्वर्ण-रत्न-परिच्छदैः॥ 5

विभक्त-रथ्या-पथ-चत्वर-अपणैः
शाला-सभा-अभी रुचिराम् सुरालयैः।
संसिक्त-मार्ग-अङ्गण-वीथि-देहलीम्
पतत्-पताका-ध्वज-वारित-आतपाम्॥ 6

तस्याम् अन्तःपुरम् श्रीमत् अर्चितम् सर्व-धिष्ण्यपैः।
हरेः स्व-कौशलम् यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम्॥ 7

तत्र षोडशभिः सद्म-सहस्रैः समलङ्कृतम्।
विवेश एकतमम् शौरेः पत्‍नीनाम् भवनम् महत्॥ 8

विष्टब्धम् विद्रुम-स्तम्भैः वैदूर्य-फलक-उत्तमैः।
इन्द्रनील-मयैः कुड्यैः जगत्या च आहत-त्विषा॥ 9

वितानैः निर्मितैः त्वष्ट्रा मुक्तादाम-विलम्बिभिः।
दान्तैः आसन-पर्यङ्कैः मणि-उत्तम-परिष्कृतैः॥ 10

दासीभिः निष्क-कण्ठीभिः सुवासोभिः अलङ्कृतम्।
पुम्भिः स-कञ्चुक-उष्णीष सुवस्त्र-मणि-कुण्डलैः॥ 11

रत्न-प्रदीप-निकर-द्युतिभिः निरस्त
ध्वान्तम् विचित्र-वलभीषु शिखण्डिनः अङ्गे।
नृत्यन्ति यत्र विहित-अगुरु-धूप-मक्षैः
निर्यान्तम् ईक्ष्य घन-बुद्धयः उन्नदन्तः॥ 12

तस्मिन् समान-गुण-रूप-वयः-सुवेष
दासी-सहस्र-युतया अनु-सवम् गृहिण्या।
विप्रः ददर्श चमर-व्यजनेन रुक्म
दण्डेन सात्वत-पतिम् परिवीजयन्त्या॥ 13

तम् सन्निरीक्ष्य भगवान् सहसा उत्थितः श्री–
पर्यङ्कतः सकल-धर्म-भृताम् वरिष्ठः।
आनम्य पाद-युगलम् शिरसा किरीट–
जुष्टेन साञ्जलिः अवीविशत् आसेने स्वे॥ 14

तस्य अवनिज्य चरणौ तत् अपः स्व-मूर्ध्ना
बिभ्रत् जगत्-गुरु-तमः अपि सताम् पतिः हि।
ब्रह्मण्य-देव इति यत् गुण-नाम युक्तम्
तस्य एव यत् चरण-शौचम् अशेष-तीर्थम्॥ 15

सम्पूज्य देव-ऋषि-वर्म्यम् ऋषिः पुराणः
नारायणः नर-सखः विधिना उदितेन।
वाण्या अभिभाष्य मित-या अमृतम् इष्टया तम्
प्राह प्रभो भगवते करवाम हे किम्॥ 16

श्री-नारद उवाच –
न एव अद्भुतम् त्वयि विभो अखिल-लोक-नाथे
मैत्री जनेषु सकलेषु दमः खलानाम्।
निःश्रेयसाय हि जगत्-स्थितिः रक्षणाभ्याम्
स्वैर-avatāra उरु-गाय विदाम सुष्ठु॥ 17

दृष्टम् तव अङ्घ्रि-युगलम् जन-ता-अपवर्गम्
ब्रह्म-आदिभिः हृदि विचिन्त्यम् अगाध-बोधैः।
संसार-कूप-Patita-उत्तरण-आवलम्बम्
ध्यायन् चरामि अनुगृहाण यथा स्मृतिः स्यात्॥ 18

ततः अन्यत् आविशत् गेहम् कृष्ण-पत्‍न्याः सः नारदः।
योगेश्वर-ईश्वरस्य अङ्ग योग-माया-विवित्सया॥ 19

दीव्यन्तम् अक्षैः तत्र अपि प्रियया च उद्धवेन च।
पूजितः परया भक्त्या प्रत्युत्थान-आसन-आदिभिः॥ 20

पृष्टः च अविदुषा इव असौ कदा आयातः भवन् इति।
क्रियते किम् नु पूर्णानाम् अपूर्णैः अस्मत्-आदिभिः॥ 21

अथ अपि ब्रूहि नः ब्रह्मन् जन्म एतत् शोभनम् कुरु।
सः तु विस्मितः उत्थाय तूष्णीम् अन्यत् अगात् गृहम्॥ 22

तत्र अपि अचष्ट गोविन्दम् लालयन्तम् सुतान् शिशून्।
ततः अन्यस्मिन् गृहे अपश्यन् मज्जनाय कृत-उद्यतम्॥ 23

जुह्वन्तम् च वितान-अग्नीन् यजन्तम् पञ्चभिः मखैः।
भोजयन्तम् द्विजान् क्व अपि भुञ्जानम् अवशेषितम्॥ 24

क्व अपि सन्ध्याम् उपासीनम् जपन्तम् ब्रह्म वाग्यतम्।
एकत्र च आस्ते चर्माभ्याम् चरन्तम् असि-वर्त्मसु॥ 25

अश्वैः गजैः रथैः क्व अपि विचरन्तम् गदा-अग्रजम्।
क्वचित् शयानम् पर्यङ्के स्तूयमानम् च वन्दिभिः॥ 26

मन्त्रयन्तम् च कस्मिन् चित् मन्त्रिभिः च उद्धव-आदिभिः।
जल-क्रीडा-रतम् क्व अपि वारा-मुख्या-बला-आवृतम्॥ 27

कुत्रचित् द्विज-मुख्येभ्यः ददतम् गाः स्व-अलङ्कृताः।
इतिहास-पुराणानि श्रृण्वन्तम् मङ्गलानि च॥ 28

हसन्तम् हास्य-कथया कदाचित् प्रियया गृहे।
क्व अपि धर्मम् सेवमानम् अर्थ-कामौ च कुत्रचित्॥ 29

ध्यायन्तम् एकम् आसीनम् पुरुषम् प्रकृतेः परम्।
शुश्रूषन्तम् गुरून् क्व अपि कामैः भोगैः सपर्यया॥ 30

कुर्वन्तम् विग्रहम् कैश्चित् सन्धिम् च अन्यत्र केशवम्।
कुत्र अपि सह रामेण चिन्तयन्तम् सताम् शिवम्॥ 31

पुत्राणाम् दुहितॄणाम् च काले विवाह-उपायपनम्।
दारैः वरैः तत्-सदृशैः कल्पयन्तम् विभूतिभिः॥ 32

प्रस्थापन-उपनयनैः अपत्यानाम् महा-उत्सवान्।
वीक्ष्य योगेश्वर-ईश्वरस्य येषाम् लोकाः विसिस्मिरे॥ 33

यजन्तम् सकलान् देवान् क्व अपि क्रतुभिः ऊर्जितैः।
पूर्तयन्तम् क्वचित् धर्मम् कूप-आराम-मठ-आदिभिः॥ 34

चरन्तम् मृगयाम् क्व अपि हयम् आरुह्य सैन्धवम्।
घ्नन्तम् ततः पशून् मेध्यान् परीतम् यदु-पुङ्गवैः॥ 35

अव्यक्त-लिङ्गम् प्रकृतिषु अन्तःपुर-गृह-आदिषु।
क्वचित् चरन्तम् योगेशम् तत्-तत्-भाव-बुभुत्सया॥ 36

अथ उवाच हृषीकेशम् नारदः प्रहसन् इव।
योग-माया-उदयं वीक्ष्य मानुषीम् ईयुषः गतिम्॥ 37

विदाम योग-मायाः ते दुर्दर्शा अपि मायिनाम्।
योगेश्वर-आत्मन् निर्भाता भवत्-पाद-निषेवया॥ 38

अनुजानीहि माम् देव लोकान् ते यशसा आप्लुतान्।
पर्यटामि तव उद्गायन् लीलाम् भुवन-पावनीम्॥ 39

श्री-भगवान् उवाच –
ब्रह्मन् धर्मस्य वक्ता अहम् कर्ता तत् अनु-मोदिता।
तत् शिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः॥ 40

श्रीशुक उवाच –
इति आचरन्तम् सत्-धर्मान् पावनान् गृहमेधिनाम्।
तम् एव सर्व-गेहेषु सन्तम् एकम् ददर्श ह॥ 41

कृष्णस्य अनन्त-वीर्यस्य योग-माया-मह-उदयम्।
मुहुः दृष्ट्वा ऋषिः अभूत् विस्मितः जात-कौतुकः॥ 42

इति अर्थ-काम-धर्मेषु कृष्णेन श्रद्धित-आत्मना।
सम्यक् सभाजितः प्रीतः तम् एव अनुस्मरन् ययौ॥ 43

एवम् मनुष्य-पदवीम् अनुवर्तमानः
नारायणः अखिल-भवाय गृहीत-शक्तिः।
रेमे अङ्ग षोडश-सहस्र-वर-अङ्गनानाम्
सव्रीड-सौहृद-निरीक्षण-हास-जुष्टः॥ 44

यानि इह विश्व-विलय-उद्भव-वृत्ति-हेतुः
कर्माणि अनन्य-विषयाणि हरीः चकार।
यः तु अङ्ग गायति श्रृणोति अनुमोदते वा
भक्तिः भवेत् भगवति हि अपवर्ग-मार्गे॥ 45

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णगार्हस्थ्यदर्शनं नाम एकोनसप्ततितमोऽध्यायः ॥ 69


Saturday, 17 May 2025

ஸ்கந்தம் 10: அத்யாயம் 68 (சாம்பன் லக்ஷ்மணாவை மணந்து துவாரகை திரும்புதல் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 சாம்பன் லக்ஷ்மணாவை

மணந்து துவாரகை திரும்புதல்

ஸ்கந்தம் 10: அத்யாயம் 68

श्री शुक उवाच
दुर्योधन सुताम् राजन् लक्ष्मणाम् समितिं-जयः।
स्वयंवर स्थाम् अहरत् साम्बः जाम्बवती सुतः॥ 1

कौरवाः कुपिताः ऊचुः दुर्विनीतः अयम् अर्भकः।
कदर्थीकृत्य नः कन्याम् अकामाम् अहरत् बलात्॥ 2

बध्नीता इम् दुर्विनीतम् किम् करिष्यन्ति वृष्णयः।
ये अस्मत् प्रसाद उपचिताम् दत्ताम् नः भुञ्जते महीम्॥ 3

निगृहीतम् सुतम् श्रुत्वा यदि एष्यन्ति इह वृष्णयः।
भग्न-दर्पाः शमम् यान्ति प्राणाः इव सुसंयताः॥ 4

इति कर्णः शलः भूरिः यज्ञकेतुः सुयोधनः।
साम्बम् आरेभिरे बद्धुम् कुरु वृद्ध अनु-मोदिताः॥ 5

दृष्ट्वा अनु-धावतः साम्बः धार्तराष्ट्रान् महारथः।
प्रगृह्य रुचिरम् चापम् तस्थौ सिंहः इव एकलः॥ 6

तम् ते जिघृक्षवः क्रुद्धाः तिष्ठ तिष्ठ इति भाषिणः।
आसाद्य धन्विनः बाणैः कर्ण अग्रण्यः समाकिरन्॥ 7

सः अपविद्धः कुरुश्रेष्ठ कुरुभिः यदुनन्दनः।
न अमृष्यत तत् अचिन्त्य अर्भः सिंहः क्षुद्र मृगैः इव॥ 8

विस्फूर्ज्य रुचिरम् चापम् सर्वान् विव्याध सायकैः।
कर्ण आदि-ऋथान् वीरान् तावत्भिः युगपत् पृथक्॥ 9

चतुर्भिः चतुरः वाहान् एकैकम् च सारथीन्।
रथिनः च महा इष्वासान् तस्य तत् ते अभ्यपूजयन्॥ 10

तम् तु ते विरथम् चक्रुः चत्वारः चतुरः हयान्।
एकः तु सारथिम् जघ्ने चिच्छेद अन्यः शर आसनम्॥ 11

तम् बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवः युधि।
कुमारम् स्वस्य कन्याम् च स्वपुरम् जयिनः अविशन्॥ 12

तत् श्रुत्वा नारद उक्तेन राजन् सञ्जात मन्यवः।
कुरून् प्रत्य् उद्यमम् चक्रुः उग्रसेन प्रचोदिताः॥ 13

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णि पुंगवान्।
न ऐच्छत् कुरूणाम् वृष्णीनाम् कलिम् कलि-मल-अपहः॥ 14

जगाम हस्तिन पुरम् रथेन आदित्य वर्चसा।
ब्राह्मणैः कुल वृद्धैः च वृतः चन्द्रः इव ग्रहैः॥ 15

गत्वा गजाह्वयम् रामः बाह्य उपवनम् आस्थितः।
उद्धवम् प्रेषयामास धृतराष्ट्रम् बुभुत्सया॥ 16

सः अभिवन्द्य अम्बिका पुत्रम् भीष्मम् द्रोणम् च बाह्लिकम्।
दुर्योधनम् च विधिवत् रामम् आगतम् अब्रवीत्॥ 17

ते अतिप्रीताः तम् आकर्ण्य प्राप्तम् रामम् सुहृत् तमम्।
तम् अर्चयित्वा अभिययुः सर्वे मङ्गल पाणयः॥ 18

तम् संगम्य यथान्यायम् गाम् अर्घ्यम् च न्यवेदयन्।
तेषाम् ये तत् प्रभाव ज्ञाः प्रणेमुः शिरसा बलम्॥ 19

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम्।
परस्परम् अथ रामः बभाषे अविक्लवम् वचः॥ 20

उग्रसेनः क्षितीश-ईशः यत् वा आज्ञापयत् प्रभुः।
तत् अव्यग्र-धियः श्रुत्वा कुरुध्वम् मा अविलम्बितम्॥ 21

यत् यूयम् बहवः तु एकम् जित्वा अधर्मेण धार्मिकम्।
अबध्नीत अथ तत् अमृष्ये बन्धूनाम् ऐक्य-काम्यया॥ 22

वीर्य-शौर्य-बल-उन्नद्धम् आत्म-शक्ति-समम् वचः।
कुरवः बलदेवस्य निशम्य ऊचुः प्रकोपिताः॥ 23

अहो महत् चित्रम् इदम् काल-गत्या दुरत्यया।
आरुरुक्षति उपानत् वै शिरः मुकुट-सेवितम्॥ 24

एते यौनेन सम्बद्धाः सह-शय्या-आसन-आशनाः।
वृष्णयः तुल्यताम् नीताः अस्मत्-दत्त-नृप-आसनाः॥ 25

चामर-व्यजने शङ्खम् आतपत्रम् च पाण्डुरम्।
किरीटम् आसनम् शय्याम् भुञ्जन्ति अस्मत्-उपेक्षया॥ 26

अलम् यदूनाम् नर-देव-लाञ्छनैः।
दातुः प्रतीपैः फणिनाम् इव अमृतम्॥
ये अस्मत्-प्रसाद-उपचिताः हि यादवाः।
आज्ञापयन्ति अद्य गत-त्रपाः बत॥ 27

कथम् इन्द्रः अपि कुरुभिः भीष्म-द्रोण-अर्जुन-आदिभिः।
अदत्तम् अवरुन्धीत सिंह-ग्रस्तम् इव उरणः॥ 28

श्री शुक उवाच
जन्म-बन्धु-श्रियः उन्नद्ध-मदाः ते भरतर्षभ।
आश्राव्य रामम् दुर्वाच्यम् असभ्याः पुरम् आविशन्॥ 29

दृष्ट्वा कुरूणाम् दौःशील्यम् श्रुत्वा अवाच्यानि च अच्युतः।
अवोचत् कोप-संरब्धः दुष्प्रेक्ष्यः प्रहसन् मुहुः॥ 30

नूनम् नाना-मद-उन्नद्धाः शान्तिम् न इच्छन्ति असाधवः।
तेषाम् हि प्रशमः दण्डः पशूनाम् लगुडः यथा॥ 31

अहो यदून् सुसंरब्धान् कृष्णम् च कुपितम् शनैः।
सान्त्वयित्वा अहम् एतेषाम् शमम् इच्छन् इह आगतः॥ 32

ते इमे मन्द-मतयः कलह-अभिरताः खलाः।
तम् माम् अवज्ञाय मुहुः दुर्भाषान् मानिनः अब्रुवन्॥ 33

न उग्रसेनः किल विभुः भोज-वृष्णि-अन्धक-ईश्वरः।
शक्र-आदयः लोक-पालाः यस्य आदेश-अनुवर्तिनः॥ 34

सुधर्मा आक्रम्यते येन पारिजातः अमर-अङ्घ्रिपः।
आनीय भुज्यते सः असौ न किल अध्यासन-अर्हणः॥ 35

यस्मिन् पाद-युगम् साक्षात् श्रीः उपास्ते अखिल-ईश्वरी।
सः नार्हति किल श्री-ईशः नर-देव-परिच्छदान्॥ 36

यस्य अङ्घ्रि-पङ्कज-रजः अखिल-लोक-पालैः।
मौलि-उत्तमैः धृतम् उपासित-तीर्थ-तीर्थम्॥
ब्रह्मा भवः अहम् अपि यस्य कलाः कलायाः।
श्रीः च उद्वहेम् चिरम् अस्य नृप-आसनम् क्व॥ 37

भुञ्जते कुरुभिः दत्तम् भू-खण्डम् वृष्णयः किल।
उपानहः किल वयम् स्वयं तु कुरवः शिरः॥ 38

अहो ऐश्वर्य-मत्तानाम् मत्तानाम् इव मानिनाम्।
असंबद्धाः गिरः रुक्षाः कः सहेत अनुशासीता॥ 39

अद्य निः-कौरवम् पृथ्वीम् करिष्यामि इति अमर्षितः।
गृहीत्वा हलम् उत्तस्थौ दहन् इव जगत् त्रयम्॥ 40

लाङ्गल-अग्रेण नगरम् उद्द्विदार्य गजाह्वयम्।
विचकर्ष सः गङ्गायाम् प्रहरिष्यन् अमर्षितः॥ 41

जल-यानम् इव अघूर्णम् गङ्गायाम् नगरम् पतत्।
आकृष्यमाणम् आलोक्य कौरवाः जात-सम्भ्रमाः॥ 42

तम् एव शरणम् जग्मुः स-कुटुम्बाः जिजीविषवः।
स-लक्ष्मणम् पुरस्कृत्य साम्बम् प्राञ्जलयः प्रभुम्॥ 43

राम राम अखिल-अधार-प्रभावम् न विदाम ते।
मूढानाम् नः कु-बुद्धीनाम् क्षन्तुम् अर्हसि अतिक्रमम्॥ 44

स्थित्य्-उत्पत्ति-अप्ययानाम् त्वम् एकः हेतुः निराश्रयः।
लोकान् क्रीडनक-ईश क्रीडतः ते वदन्ति हि॥ 45

त्वम् एव मूर्ध्नि-इदम् अनन्त लीलया
भूमण्डलम् बिभर्षि सहस्र-मूर्धन्।
अन्ते च यः स्व-आत्मनि रुद्ध-विश्वः
शेषे अद्वितीयः परिशिष्य-मानः॥ 46

कोपः ते अखिल-शिक्षा-अर्थम् न द्वेषात् न च मत्सरात्।
बिभ्रतः भगवन् सत्त्वम् स्थिति-पालन-तत्परः॥ 47

नमः ते सर्व-भूत-आत्मन् सर्व-शक्ति-धर-अव्यय।
विश्व-कर्मन् नमः अस्तु त्वाम् वयम् शरणम् गताः॥ 48

श्री-शुक उवाच –
एवम् प्रपन्नैः संविग्नैः वेपमान-आयनैः बलः।
प्रसादितः सुप्रसन्नः मा भैष्ठ इति अभयम् ददौ॥ 49

दुर्योधनः पारि-बर्‍हम् कुञ्जरान् षष्टि-हायनान्।
ददौ च द्वादश-शतानि अयुतानि तुरङ्गमान्॥ 50

रथानाम् षट्-सहस्राणि रौक्माणाम् सूर्य-वर्चसाम्।
दासीनाम् निष्क-कण्ठीनाम् सहस्रम् दुहितृ-वत्सलः॥ 51

प्रतिगृह्य तु तत् सर्वम् भगवान् सात्वत-ऋषभः।
स-सुतः स- स्नुषः प्रायात् सुहृद्भिः अभिनन्दितः॥ 52

ततः प्रविष्टः स्व-पुरम् हलायुधः
समेत्य बान्धून् अनुरक्त-चेतसः।
शशंस सर्वम् यदु-पुङ्गवानाम्
मध्ये सभायाम् कुरुषु स्व-चेष्टितम्॥ 53

अद्य अपि च पुरम् हि एतत् सूचयत् राम-विक्रमम्।
समुन्नतम् दक्षिणतः गङ्गायाम् अनुदृश्यते॥ 54