Followers

Search Here...

Sunday, 3 May 2026

ஸ்கந்தம் 11: அத்யாயம் 7 (உத்தவருக்கு உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

 உத்தவருக்கு உபதேசம்

ஸ்கந்தம் 11: அத்யாயம் 7

 

श्री-भगवान् उवाच

यत् आत्थ माम् महा-भाग तत् चिकीर्षितम् एव मे ।
ब्रह्मा भवः लोक-पालाः स्वः-वासम् मे अभिकाङ्क्षिणः ॥ 1 ॥

मया निष्पादितम् हि अत्र देव-कार्यं अशेषतः ।
यत्-अर्थम् अवतीर्णः अहम् अंशेन ब्रह्मणा अर्थितः ॥ 2 ॥

कुलम् वै शाप-निर्दग्धम् नङ्क्ष्यति अन्योन्य-विग्रहात् ।
समुद्रः सप्तमे अह्नि एताम् पुरीम् च प्लावयिष्यति ॥ 3 ॥

यर्हि एव अयम् मया त्यक्तः लोकः अयम् नष्ट-मङ्गलः ।
भविष्यति अचिरात् साधो कलिना अपि निराकृतः ॥ 4 ॥

न वस्तव्यम् त्वया एव इह मया त्यक्ते मही-तले ।
जनः अधर्म-रुचिः भद्र भविष्यति कलौ युगे ॥ 5 ॥

त्वम् तु सर्वम् परित्यज्य स्नेहम् स्वजन-बन्धुषु ।
मयि आवेश्य मनः सम्यक् सम-दृक् विचरस्व गाम् ॥ 6 ॥

यत् इदम् मनसा वाचा चक्षुर्भ्याम् श्रवण-आदिभिः ।
नश्वरम् गृह्यमाणम् च विद्धि माया-मनो-मयम् ॥ 7 ॥

पुंसः अयुक्तस्य नाना-अर्थः भ्रमः सः गुण-दोष-भाक् ।
कर्म-अकर्म-विकर्म इति गुण-दोष-धियः भिदा ॥ 8 ॥

तस्मात् युक्त-इन्द्रिय-ग्रामः युक्त-चित्तः इदम् जगत् ।
आत्मनि ईक्षस्व विततम् आत्मानम् मयि अधीश्वरे ॥ 9 ॥

ज्ञान-विज्ञान-संयुक्तः आत्म-भूतः शरीरिणाम् ।
आत्म-अनुभव-तुष्ट-आत्मा न अन्तरायैः विहन्यसे ॥ 10 ॥

दोष-बुद्ध्या उभयातीतः निषेधात् न निवर्तते ।
गुण-बुद्ध्या च विहितम् न करोति यथा अर्भकः ॥ 11 ॥

सर्व-भूत-सुहृत् शान्तः ज्ञान-विज्ञान-निश्चयः ।
पश्यन् मद्-आत्मकम् विश्वम् न विपद्येत वै पुनः ॥ 12 ॥

श्री-शुकः उवाच

इति आदिष्टः भगवता महा-भागवतः नृप ।
उद्धवः प्रणिपत्य आह तत्त्व-जिज्ञासुः अच्युतम् ॥ 13 ॥

श्री-उद्धवः उवाच

योग-ईश योग-विन्यास योग-आत्मन् योग-सम्भव ।
निःश्रेयसाय मे प्रोक्तः त्यागः संन्यास-लक्षणः ॥ 14 ॥

त्यागः अयम् दुष्करः भूमन् कामानाम् विषय-आत्मभिः ।
सुतराम् त्वयि सर्व-आत्मन् अभक्तैः इति मे मतिः ॥ 15 ॥

सः अहम् मम अहम् इति मूढ-मतिः विगाढः
त्वत्-मायया विरचित-आत्मनि स-अनुबन्धे ।
तत् त्वम् अञ्जसा निगदितम् भवता यथा अहम्
संसाधयामि भगवन् अनुशाधि भृत्यम् ॥ 16 ॥

सत्यस्य ते स्व-दृशः आत्मनः आत्मनः अन्यं
वक्तारम् ईश विबुधेषु अपि न अनुचक्षे ।
सर्वे विमोहित-धियः तव मायया इमे
ब्रह्म-आदयः तनु-भृतः बहिः-अर्थ-भावाः ॥ 17 ॥

तस्मात् भवन्तम् अनवद्यम् अनन्त-पारम्
सर्व-ज्ञम् ईश्वरम् अकुण्ठ-विकुण्ठ-धिष्ण्यम् ।
निर्विण्ण-धीः अहम् उ ह वृजिन-अभितप्तः
नारायणम् नर-सखम् शरणम् प्रपद्ये ॥ 18 ॥

श्री-भगवान् उवाच

प्रायेण मनुजाः लोके लोक-तत्त्व-विचक्षणाः ।
समुद्धरन्ति हि आत्मानम् आत्मना एव अशुभ-आशयात् ॥ 19 ॥

आत्मनः गुरुः आत्मा एव पुरुषस्य विशेषतः ।
यत् प्रत्यक्ष-अनुमानाभ्याम् श्रेयः असौ अनुविन्दते ॥ 20 ॥

पुरुषत्वे च माम् धीराः साङ्ख्य-योग-विशारदाः ।
आविस्तराम् प्रपश्यन्ति सर्व-शक्ति-उपबृंहितम् ॥ 21 ॥

एक-द्वि-त्रि-चतुः-पादः बहु-पादः तथा अपदः ।
बह्व्यः सन्ति पुरः सृष्टाः तासाम् मे पौरुषी प्रिया ॥ 22 ॥

अत्र माम् मार्गयन्ति अद्धा युक्ताः हेतुभिः ईश्वरम् ।
गृह्यमाणैः गुणैः लिङ्गैः अग्राह्यम् अनुमानतः ॥ 23 ॥

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् ।
अवधूतस्य संवादम् यदोः अमित-तेजसः ॥ 24 ॥

अवधूतम् द्विजम् कञ्चित् चरन्तम् अकुतो-भयम् ।
कविम् निरीक्ष्य तरुणम् यदुः पप्रच्छ धर्म-वित् ॥ 25 ॥

श्री-यदुः उवाच

कुतः बुद्धिः इयम् ब्रह्मन् अकर्तुः सु-विशारदा ।
याम् आसाद्य भवान् लोकम् विद्वान् चरति बालवत् ॥ 26 ॥

प्रायः धर्म-अर्थ-कामेषु विवित्सायाम् च मानवाः ।
हेतुना एव समीहन्ते आयुषः यशसः श्रियः ॥ 27 ॥

त्वम् तु कल्पः कविः दक्षः सु-भगः अमृत-भाषणः ।
न कर्ता न ईहसे किञ्चित् जड-उन्मत्त-पिशाच-वत् ॥ 28 ॥

जनेषु दह्यमानेषु काम-लोभ-दव-अग्निना ।
न तप्यसे अग्निना मुक्तः गङ्गा-अम्भः-स्थः इव द्विपः ॥ 29 ॥

त्वम् हि नः पृच्छताम् ब्रह्मन् आत्मनि आनन्द-कारणम् ।
ब्रूहि स्पर्श-विहीनस्य भवतः केवल-आत्मनः ॥ 30 ॥

श्री-भगवान् उवाच

यदुना एवम् महा-भागः ब्रह्मण्येन सु-मेधसा ।
पृष्टः स-भाजितः प्राह प्रश्रय-अवनतम् द्विजः ॥ 31 ॥

श्री-ब्राह्मणः उवाच

सन्ति मे गुरवः राजन् बहवः बुद्धि-उपश्रिताः ।
यतः बुद्धिम् उपादाय मुक्तः अटामि इह तत् शृणु ॥ 32 ॥

पृथिवी वायुः आकाशम् आपः अग्निः चन्द्रमाः रविः ।
कपोतः अजगरः सिन्धुः पतङ्गः मधु-कृत् गजः ॥ 33 ॥

मधु-हा हरिणः मीनः पिङ्गला कुररः अर्भकः ।
कुमारी शर-कृत् सर्पः ऊर्ण-नाभिः सुपेश-कृत् ॥ 34 ॥

एते मे गुरवः राजन् चतुर्विंशतिः आश्रिताः ।
शिक्षाः वृत्तिभिः एतेषाम् अन्वशिक्षम् इह आत्मनः ॥ 35 ॥

यतः यत् अनुशिक्षामि यथा वा नाहुष-आत्मज ।
तत् तथा पुरुष-व्याघ्र निबोध कथयामि ते ॥ 36 ॥

भूतैः आक्रम्यमाणः अपि धीरः दैव-वश-अनुगैः ।
तत् विद्वान् न चलॆत् मार्गात् अन्वशिक्षम् क्षितेः व्रतम् ॥ 37 ॥

शश्वत् परार्थ-सर्व-ईहः परार्थ-एकान्त-सम्भवः ।
साधुः शिक्षेत भू-भृतः नग-शिष्यः पर-आत्मताम् ॥ 38 ॥

प्राण-वृत्त्या एव सन्तुष्येत् मुनिः न एव इन्द्रिय-प्रियैः ।
ज्ञानम् यथा न नश्येत् न अवकीर्येत वाक्-मनः ॥ 39 ॥

विषयेषु आविशन् योगी नाना-धर्मेषु सर्वतः ।
गुण-दोष-व्यपेत-आत्मा न विषज्जेत वायु-वत् ॥ 40 ॥

पार्थिवेषु इह देहेषु प्रविष्टः तत्-गुण-आश्रयः ।
गुणैः न युज्यते योगी गन्धैः वायुः इव आत्म-दृक् ॥ 41 ॥

अन्तर्हितः च स्थिर-जङ्गमेषु
ब्रह्म-आत्म-भावेन समन्वयेन ।
व्याप्त्या अव्यवच्छेदम् असङ्गम् आत्मनः
मुनिः नभः त्वम् विततस्य भावयेत् ॥ 42 ॥

तेजः-अब्-अन्न-मयैः भावैः मेघ-आद्यैः वायुना ईरितैः ।
न स्पृश्यते नभः तद्वत् काल-सृष्टैः गुणैः पुमान् ॥ 43 ॥

स्वच्छः प्रकृतितः स्निग्धः माधुर्यः तीर्थ-भूः नृणाम् ।
मुनिः पुनाति अपाम् मित्रम् ईक्षा-उपस्पर्श-कीर्तनैः ॥ 44 ॥

तेजस्वी तपसा दीप्तः दुर्धर्षः उदर-भाजनः ।
सर्व-भक्ष्यः अपि युक्त-आत्मा न आदत्ते मलम् अग्नि-वत् ॥ 45 ॥

क्वचित् छन्नः क्वचित् स्पष्टः उपास्यः श्रेयः इच्छताम् ।
भुङ्क्ते सर्वत्र दातॄणाम् दहन् प्राक्-उत्तर-अशुभम् ॥ 46 ॥

स्व-मायया सृष्टम् इदम् सत्-असत्-लक्षणम् विभुः ।
प्रविष्टः ईयते तत्-तत् स्वरूपः अग्निः इव एधसि ॥ 47 ॥

विसर्ग-आद्याः श्मशान-अन्ताः भावाः देहस्य न आत्मनः ।
कलानाम् इव चन्द्रस्य कालेन अव्यक्त-वर्त्मना ॥ 48 ॥

कालेन हि ओघ-वेगेन भूतानाम् प्रभव-अप्ययौ ।
नित्यौ अपि न दृश्येते आत्मनः अग्नेः यथा अर्चिषाम् ॥ 49 ॥

गुणैः गुणान् उपादत्ते यथा-कालम् विमुञ्चति ।
न तेषु युज्यते योगी गोभिः गाः इव गो-पतिः ॥ 50 ॥

बुध्यते स्वे न भेदेन व्यक्तिस्थः इव तत्-गतः ।
लक्ष्यते स्थूल-मतिभिः आत्मा च अवस्थितः अर्क-वत् ॥ 51 ॥

न अति-स्नेहः प्रसङ्गः वा कर्तव्यः क्वापि केनचित् ।
कुर्वन् विन्देत सन्तापम् कपोतः इव दीन-धीः ॥ 52 ॥

कपोतः कश्चन अरण्ये कृत-नीडः वनस्पतौ ।
कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥ 53 ॥

कपोतौ स्नेह-गुणित-हृदयौ गृह-धर्मिणौ ।
दृष्टिम् दृष्ट्या अङ्गम् अङ्गेन बुद्धिम् बुद्ध्या बबन्धतुः ॥ 54 ॥

शय्या-आसन-आटन-स्थान-वार्ता-क्रीडा-आशन-आदिकम् ।
मिथुनी-भूय विस्त्रब्धौ चेरतुः वन-राजिषु ॥ 55 ॥

यम् यम् वाञ्छति सा राजन् तर्पयन्ती अनुकम्पिता ।
तम् तम् समनयत् कामम् कृच्छ्रेण अपि अजित-इन्द्रियः ॥ 56 ॥

कपोती प्रथमम् गर्भम् गृह्णती काले आगते ।
अण्डानि सुषुवे नीडे स्व-पत्युः सन्निधौ सती ॥ 57 ॥

तेषु काले व्यजायन्त रचित-अवयवाः हरेः ।
शक्तिभिः दुर्विभाव्याभिः कोमल-अङ्ग-तनु-रुहाः ॥ 58 ॥

प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्र-वात्सलौ ।
शृण्वन्तौ कूजितम् तासाम् निर्वृतौ कल-भाषितैः ॥ 59 ॥

तासाम् पतत्रैः सु-स्पर्शैः कूजितैः मुग्ध-चेष्टितैः ।
प्रत्युद्गमैः अ-दीनानाम् पितरौ मुदम् आपतुः ॥ 60 ॥

स्नेह-अनुबद्ध-हृदयौ अन्योन्यम् विष्णु-मायया ।
विमोहितौ दीन-धियौ शिशून् पुपुषतुः प्रजाः ॥ 61 ॥

एकदा जग्मतुः तासाम् अन्न-अर्थम् तौ कुटुम्बिनौ ।
परितः कानने तस्मिन् अर्थिनौ चेरतुः चिरम् ॥ 62 ॥

दृष्ट्वा तान् लुब्धकः कश्चित् यदृच्छया ततः वन-चरः ।
जगृहे जालम् आतत्य चरतः स्व-आलय-अन्तिके ॥ 63 ॥

कपोतः च कपोती च प्रजा-पोषे सदा उत्सुकौ ।
गतौ पोषणम् आदाय स्व-नीडम् उपजग्मतुः ॥ 64 ॥

कपोती स्व-आत्मजान् वीक्ष्य बालकान् जाल-संवृतान् ।
तान् अभ्यधावत् क्रोशन्ती क्रोशतः भृश-दुःखिता ॥ 65 ॥

सा सकृत् स्नेह-गुणिता दीन-चित्ता अज-मायया ।
स्वयम् च अबध्यत शिचा बद्धान् पश्यन्ती अपस्मृतिः ॥ 66 ॥

कपोतः च आत्मजान् बद्धान् आत्मनः अपि अधिकान् प्रियान् ।
भार्याम् च आत्म-समाम् दीनः विललाप अति-दुःखितः ॥ 67 ॥

अहो मे पश्यत आपायम् अल्प-पुण्यस्य दुर्मतेः ।
अतृप्तस्य अ-कृत-अर्थस्य गृह-त्रैवर्गिकः हतः ॥ 68 ॥

अनुरूप-अनुकूला च यस्य मे पति-देवता ।
शून्ये गृहे माम् सन्त्यज्य पुत्रैः स्वर्गम् याति साधुभिः ॥ 69 ॥

सः अहम् शून्ये गृहे दीनः मृत-दारः मृत-प्रजः ।
जिजीविषे किम् अर्थम् वा विधुरः दुःख-जीवितः ॥ 70 ॥

तान् तथा एव आवृतान् शिग्भिः मृत्यु-ग्रस्तान् विचेष्टतः ।
स्वयम् च कृपणः शिक्षु पश्यन् अपि अबुधः अपतत् ॥ 71 ॥

तम् लब्ध्वा लुब्धकः क्रूरः कपोतम् गृह-मेधिनम् ।
कपोतकान् कपोतीम् च सिद्ध-अर्थः प्रययौ गृहम् ॥ 72 ॥

एवम् कुटुम्बी अशान्त-आत्मा द्वन्द्व-आरामः पतत्रि-वत् ।
पुष्णन् कुटुम्बम् कृपणः स-अनुबन्धः अवसीदति ॥ 73 ॥

यः प्राप्य मानुषम् लोकम् मुक्ति-द्वारम् अपावृतम् ।
गृहेषु खग-वत् सक्तः तम् आरूढ-च्युतम् विदुः ॥ 74 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे सप्तमः अध्यायः ॥ 7 ॥


ஸ்கந்தம் 11: அத்யாயம் 6 (உத்தவர் வருகை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

உத்தவர் வருகை

ஸ்கந்தம் 11: அத்யாயம் 6

 

श्री-शुकः उवाच

अथ ब्रह्मा आत्म-जैः देवैः प्रज-ईशैः आवृतः अभ्यगात् ।
भवः च भूत-भव्य-ईशः ययौ भूत-गणैः वृतः ॥ 1 ॥

इन्द्रः मरुत्भिः भगवान् आदित्याः वसवः अश्विनौ ।
ऋभवः अङ्गिरसः रुद्राः विश्वे साध्याः च देवताः ॥ 2 ॥

गन्धर्वाः अप्सरसः नागाः सिद्ध-चारण-गुह्यकाः ।
ऋषयः पितरः च एव स-विद्याधर-किन्नराः ॥ 3 ॥

द्वारकाम् उपसञ्जग्मुः सर्वे कृष्ण-दिदृक्षवः ।
वपुषा येन भगवान् नर-लोक-मनो-रमः ।
यशः वितेने लोकेषु सर्व-लोक-मल-अपहम् ॥ 4 ॥

तस्याम् विभ्राजमानायाम् समृद्धायाम् महा-ऋद्धिभिः ।
व्यचक्षत अवितृप्त-अक्षाः कृष्णम् अद्भुत-दर्शनम् ॥ 5 ॥

स्वर्ग-उद्यान-उपगैः माल्यैः छादयन्तः यदु-उत्तमम् ।
गीर्भिः च चित्र-पदार्थाभिः तुष्टुवुः जगत्-ईश्वरम् ॥ 6 ॥

श्री-देवाः ऊचुः

नताः स्म ते नाथ पद-अरविन्दम्
बुद्धि-इन्द्रिय-प्राण-मनः-वचोभिः ।
यत् चिन्त्यते अन्तः-हृदि भाव-युक्तैः
मुमुक्षुभिः कर्म-मय-उरु-पाशात् ॥ 7 ॥

त्वम् मायया त्रि-गुणया आत्मनि दुर्विभाव्यम्
व्यक्तम् सृजसि अवसि लुम्पसि तत्-गुण-स्थः ।
न एतैः भवान् अजित कर्मभिः अज्यते वै
यत् स्वे सुखे अव्यवहिते अभिरतः अनवद्यः ॥ 8 ॥

शुद्धिः नृणाम् न तु तथा ईड्य दुराशयानाम् ।
विद्या-श्रुत-अध्ययन-दान-तपः-क्रियाभिः ।
सत्त्व-आत्मनाम् ऋषभ ते यशसि प्रवृद्ध-
सत्-श्रद्धया श्रवण-सम्भृतया यथा स्यात् ॥ 9 ॥

स्यात् नः तव अङ्घ्रिः अशुभ-आशय-धूम-केतुः
क्षेमाय यः मुनिभिः आर्द्र-हृदः ऊह्यमानः ।
यः सात्वतैः सम-विभूतयः आत्म-वद्भिः
व्यूहे अर्चितः सवन-शः स्वरति-क्रमाय ॥ 10 ॥

यः चिन्त्यते प्रयत-पाणिभिः अध्वर-अग्नौ
त्रय्या निरुक्त-विधिना ईश हविः गृहीत्वा ।
अध्यात्म-योगे उत योगिभिः आत्म-मायाम्
जिज्ञासुभिः परम-भागवतैः परीष्टः ॥ 11 ॥

पर्युष्टया तव विभो वन-मालया इयम्
संस्पर्धिनी भगवती प्रति-पत्नि-वत् श्रीः ।
यः सुप्रणीतम् अमुया अर्हणम् आददन् नः
भूयात् सदा अङ्घ्रिः अशुभ-आशय-धूम-केतुः ॥ 12 ॥

केतुः त्रि-विक्रम-युतः त्रि-पतत्-पताकः
यः ते भय-अभय-करः असुर-देव-चम्वोः ।
स्वर्गाय साधुषु खलेषु इतराय भूमन्
पादः पुनातु भगवन् भजताम् अघम् नः ॥ 13 ॥

नस्य-उत-गावः इव यस्य वशे भवन्ति
ब्रह्म-आदयः तनु-भृतः मिथः उर्द्यमानाः ।
कालस्य ते प्रकृति-पुरुषयोः परस्य
शम् नः तनोतु चरणः पुरुष-उत्तमस्य ॥ 14 ॥

अस्य असि हेतुः उदय-स्थिति-संयमानाम्
अव्यक्त-जीव-महताम् अपि कालम् आहुः ।
सः अयम् त्रि-नाभिः अखिल-अपचये प्रवृत्तः
कालः गभीर-रयः उत्तम-पुरुषः त्वम् ॥ 15 ॥

त्वत्तः पुमान् समधिगम्य यया स्व-वीर्यम्
धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः ।
सः अयम् तया अनुगतः आत्मना आण्ड-कोशम्
हैमम् ससर्ज बहिः आवरणैः उपेतम् ॥ 16 ॥

तत् तस्थूषः च जगतः च भवान् अधीशः
यत् मायया उत्थ-गुण-विक्रियया उपनीतान् ।
अर्थान् जुषन् अपि हृषीक-पते न लिप्तः
ये अन्ये स्वतः परिहृतात् अपि बिभ्यति स्म ॥ 17 ॥

स्माय-अवलोक-लव-दर्शित-भाव-हारि
भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः ।
पत्न्यः तु षोडश-सहस्रम् अनङ्ग-बाणैः
यस्य इन्द्रियम् विमथितुम् करणैः न विभ्व्यः ॥ 18 ॥

विभ्व्यः तव अमृत-कथा-उदवहाः त्रि-लोक्याः
पाद-अवनेज-सरितः शमलानि हन्तुम् ।
आनुश्रवम् श्रुतिभिः अङ्घ्रि-जम् अङ्ग-सङ्गैः
तीर्थ-द्वयम् शुचि-सदः उपस्पृशन्ति ॥ 19 ॥

श्री-बादरायणिः उवाच

इति अभिष्टूय विबुधैः स-ईशः शत-धृतिः हरिम् ।
अभ्यभाषत गोविन्दम् प्रणम्य अम्बरम् आश्रितः ॥ 20 ॥

श्री-ब्रह्मा उवाच

भूमेः भार-अवताराय पुरा विज्ञापितः प्रभो ।
त्वम् अस्माभिः अशेष-आत्मन् तत् तथा एव उपपादितम् ॥ 21 ॥

धर्मः च स्थापितः सत्सु सत्य-सन्धेषु वै त्वया ।
कीर्तिः च दिक्षु विक्षिप्ता सर्व-लोक-मल-अपहा ॥ 22 ॥

अवतीर्य यदु-वांशे बिभ्रत् रूपम् अनुत्तमम् ।
कर्माणि उद्दाम-वृत्तानि हिताय जगतः अकृथाः ॥ 23 ॥

यानि ते चरितानि ईश मनुष्याः साधवः कलौ ।
शृण्वन्तः कीर्तयन्तः च तरिष्यन्ति अञ्जसा तमः ॥ 24 ॥

यदु-वांशे अवतीर्णस्य भवतः पुरुष-उत्तम ।
शरत्-शतम् व्यतीयाय पञ्च-विंश-अधिकम् प्रभो ॥ 25 ॥

न अधुना ते अखिल-आधार देव-कार्य-अवशेषितम् ।
कुलम् च विप्र-शापेन नष्ट-प्रायम् अभूत् इदम् ॥ 26 ॥

ततः स्व-धाम परमम् विशस्व यदि मन्यसे ।
स-लोकान् लोक-पालान् नः पाहि वैकुण्ठ-किङ्करान् ॥ 27 ॥

श्री-भगवान् उवाच

अवधारितम् एतत् मे यत् आत्थ विबुध-ईश्वर ।
कृतम् वः कार्यम् अखिलम् भूमेः भारः अवतारितः ॥ 28 ॥

तत् इदम् यादव-कुलम् वीर्य-शौर्य-श्रिया उद्दतम् ।
लोकम् जिघृक्षत् रुद्धम् मे वेलया इव महा-अर्णवः ॥ 29 ॥

यदि असंहृत्य दृप्तानाम् यदूनाम् विपुलम् कुलम् ।
गन्ता अस्मि अनेन लोकः अयम् उद्वेलेन विनङ्क्ष्यति ॥ 30 ॥

इदानीम् नाशः आरब्धः कुलस्य द्विज-शाप-जः ।
यास्यामि भवनम् ब्रह्मन् एतत् अन्ते तव अनघ ॥ 31 ॥

श्री-शुकः उवाच

इति उक्तः लोक-नाथेन स्वयम्भूः प्रणिपत्य तम् ।
सह देव-गणैः देवः स्व-धाम समपद्यत ॥ 32 ॥

अथ तस्याम् महा-उत्पातान् द्वारवत्याम् समुत्थितान् ।
विलोक्य भगवान् आह यदु-वृद्धान् समागतान् ॥ 33 ॥

श्री-भगवान् उवाच

एते वै सु-महा-उत्पाताः व्युत्तिष्ठन्ति इह सर्वतः ।
शापः च नः कुलस्य आसीत् ब्राह्मणेभ्यः दुरत्ययः ॥ 34 ॥

न वस्तव्यम् इह अस्माभिः जिजीविषुभिः आर्यकाः ।
प्रभासम् सु-महत् पुण्यम् यास्यामः अद्य एव मा चिरम् ॥ 35 ॥

यत्र स्नात्वा दक्ष-शापात् गृहीतः यक्ष्मणा उडु-राट् ।
विमुक्तः किल्बिषात् सद्यः भेजे भूयः कल-उदयम् ॥ 36 ॥

वयम् च तस्मिन् आप्लुत्य तर्पयित्वा पितॄन् सुरान् ।
भोजयित्वा उशिजः विप्रान् नाना-गुण-वतान् धसा ॥ 37 ॥

तेषु दानानि पात्रेषु श्रद्धया उप्त्वा महान्ति वै ।
वृजिनानि तरिष्यामः दानैः नौभिः इव अर्णवम् ॥ 38 ॥

श्री-शुकः उवाच

एवम् भगवता आदिष्टाः यादवाः कुल-नन्दन ।
गन्तुम् कृत-धियः तीर्थम् स्यन्दनान् समयूयुजन् ॥ 39 ॥

तत् निरीक्ष्य उद्धवः राजन् श्रुत्वा भगवतः उदितम् ।
दृष्ट्वा अरिष्टानि घोराणि नित्यम् कृष्णम् अनुव्रतः ॥ 40 ॥

विविक्ते उपसङ्गम्य जगताम् ईश्वर-ईश्वरम् ।
प्रणम्य शिरसा पादौ प्राञ्जलिः तम् अभाषत ॥ 41 ॥

श्री-उद्धवः उवाच

देव-देव-ईश योग-ईश पुण्य-श्रवण-कीर्तन ।
संहृत्य एतत् कुलम् नूनम् लोकम् सन्त्यक्ष्यते भवान् ।
विप्र-शापम् समर्थः अपि प्रत्यहन् न यत् ईश्वरः ॥ 42 ॥

न अहम् तव अङ्घ्रि-कमलम् क्षण-अर्धम् अपि केशव ।
त्यक्तुम् समुत्सहे नाथ स्व-धाम नय माम् अपि ॥ 43 ॥

तव विक्रीडितम् कृष्ण नृणाम् परम-मङ्गलम् ।
कर्ण-पीयूषम् आसाद्य त्यजन्ति अन्य-स्पृहाम् जनाः ॥ 44 ॥

शय्या-आसन-आटन-स्थान स्नान-क्रीडा-आशन-आदिषु ।
कथम् त्वाम् प्रिय-आत्मानम् वयम् भक्ताः त्यजेमहि ॥ 45 ॥

त्वया उपभुक्त स्रक्-गन्ध-वासः अलङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनः दासाः तव मायाम् जयेमहि ॥ 46 ॥

वात-रशनाः ये ऋषयः श्रमणाः ऊर्ध्व-मन्थिनः ।
ब्रह्म-अख्यम् धाम ते यान्ति शान्ताः संन्यासिनः अमलाः ॥ 47 ॥

वयम् तु इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु ।
त्वत्-वार्तया तरिष्यामः तावकैः दुस्तरम् तमः ॥ 48 ॥

स्मरन्तः कीर्तयन्तः ते कृतानि गदितानि च ।
गति-उत्स्मित-ईक्षण-क्ष्वेलि यत् नृ-लोक-विडम्बनम् ॥ 49 ॥

श्री-शुकः उवाच

एवम् विज्ञापितः राजन् भगवान् देवकी-सुतः ।
एकान्तिनम् प्रियम् भृत्यम् उद्धवम् समभाषत ॥ 50 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे षष्ठः अध्यायः ॥ 6 ॥


ஸ்கந்தம் 11: அத்யாயம் 5 (பூஜா விதி) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பூஜா விதி

ஸ்கந்தம் 11: அத்யாயம் 5

 

श्री-राजा उवाच

भगवन्तम् हरिम् प्रायः न भजन्ति आत्म-वित्तमाः । तेषाम् अशान्त-कामानाम् का निष्ठा अ-विजित-आत्मनाम् ॥ 1 ॥

श्री-चमसः उवाच

मुख-बाहु-ऊरु-पादेभ्यः पुरुषस्य आश्रमैः सह । चत्वारः जज्ञिरे वर्णाः गुणैः विप्र-आदयः पृथक् ॥ 2 ॥

यः एषाम् पुरुषम् साक्षात् आत्म-प्रभवम् ईश्वरम् । न भजन्ति अवजानन्ति स्थानात् भ्रष्टाः पतन्ति अधः ॥ 3 ॥

दूरे हरि-कथाः केचित् दूरे च अच्युत-कीर्तनाः । स्त्रियः शूद्र-आदयः च एव ते अनुकम्प्याः भवत्-आदृशाम् ॥ 4 ॥

विप्रः राजन्यः वैश्यः च हरेः प्राप्ताः पद-अन्तिकम् । श्रौतेन जन्मना अथ अपि मुह्यन्ति आम्नाय-वादिनः ॥ 5 ॥

कर्मणि अकोविदाः स्तब्धाः मूर्खाः पण्डित-मानिनः । वदन्ति चाटुकान् मूढाः यया माध्व्या गिरा उत्सुकाः ॥ 6 ॥

रजसा घोर-सङ्कल्पाः कामुकाः अहि-मन्यवः । दाम्भिकाः मानिनः पापाः विहसन्ति अच्युत-प्रियान् ॥ 7 ॥

वदन्ति ते अन्योन्यम् उपासिताः स्त्रियः गृहेषु मैथुन्य-परेषु च आशिषः । यजन्ति असृष्टान् अविधान-दक्षिणम् वृत्त्यै परम् घ्नन्ति पशून् अ-तत्-विदः ॥ 8 ॥

श्रिया विभूत्या अभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जात-स्मयेन अन्ध-धियः सह ईश्वरान् सताम् अवमन्यन्ति हरि-प्रियान् खलाः ॥ 9 ॥

सर्वेषु शश्वत् तनु-भृत्सु अवस्थितम् यथा खम् आत्मानम् अभीष्टम् ईश्वरम् । वेद-उपगीतं च न शृण्वन्ति अबुधाः मनोरथानाम् प्रवदन्ति वार्तया ॥ 10 ॥

लोके व्यवाय-आमिष-मद्य-सेवा नित्याः तु जन्तोः न हि तत्र चोदना । व्यवस्थितिः तेषु विवाह-यज्ञ- सुरा-ग्रहैः आसु निवृत्तिः इष्टा ॥ 11 ॥

धनम् च धर्म-एक-फलम् यतः वै ज्ञानम् स-विज्ञानम् अनुप्रशान्तिः । गृहेषु युञ्जन्ति कलेवरस्य मृत्युम् न पश्यन्ति दुरन्त-वीर्यम् ॥ 12 ॥

यत् घ्राण-भक्षः विहितः सुरायाः तथा पशोः आलभनम् न हिंसा । एवम् व्यवायः प्रजया न रत्या इमम् विशुद्धम् न विदुः स्व-धर्मम् ॥ 13 ॥

ये तु अनेवं-विदः असन्तः स्तब्धाः सत्-अभिमानिनः । पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ 14 ॥

द्विषन्तः पर-कायेषु स्व-आत्मानम् हरिम् ईश्वरम् । मृतके स-अनुबन्धे अस्मिन् बद्ध-स्नेहाः पतन्ति अधः ॥ 15 ॥

ये कैवल्यम् असम्प्राप्ताः ये च अतीताः च मूढताम् । त्रैवर्गिकाः हि अक्षणिकाः आत्मानम् घातयन्ति ते ॥ 16 ॥

एते आत्म-हनः अशान्ताः अज्ञाने ज्ञान-मानिनः । सीदन्ति अ-कृत-कृत्याः वै काल-ध्वस्त-मनोरथाः ॥ 17 ॥

हित्वा अति-आयास-रचिताः गृह-अपत्य-सुहृत्-श्रियः । तमः विशन्ति अनिच्छन्तः वासुदेव-पराङ्-मुखाः ॥ 18 ॥

श्री-राजा उवाच

कस्मिन् काले सः भगवान् किम् वर्णः कीदृशः नृभिः । नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम् ॥ 19 ॥

श्री-करभाजनः उवाच

कृतम् त्रेता द्वापरम् च कलिः इति एषु केशवः । नाना-वर्ण-अभिधा-आकारः नाना एव विधिना इज्यते ॥ 20 ॥

कृते शुक्लः चतुर्बाहुः जटिलः वल्कल-अम्बरः । कृष्ण-अजिन-उपवीत-अक्षान् बिभ्रत् दण्ड-कमण्डलू ॥ 21 ॥

मनुष्याः तु तदा शान्ताः निर्वैराः सुहृदः समाः । यजन्ति तपसा देवम् शमेन च दमेन च ॥ 22 ॥

हंसः सुपर्णः वैकुण्ठः धर्मः योग-ईश्वरः अमलः । ईश्वरः पुरुषः अव्यक्तः परम-आत्मा इति गीयते ॥ 23 ॥

त्रेतायाम् रक्त-वर्णः असौ चतुर्बाहुः त्रि-मेखलः । हिरण्य-केशः त्रय्या-आत्मा स्रुक्-स्रुव-आदि-उपलक्षणः ॥ 24 ॥

तम् तदा मनुजाः देवम् सर्व-देव-मयम् हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठाः ब्रह्म-वादिनः ॥ 25 ॥

विष्णुः यज्ञः पृश्नि-गर्भः सर्व-देवः उरु-क्रमः । वृषाकपिः जयन्तः च उरु-गायः इति ईर्यते ॥ 26 ॥

द्वापरे भगवान् श्यामः पीत-वासा निज-आयुधः । श्रीवत्स-आदिभिः अङ्कैः च लक्षणैः उपलक्षितः ॥ 27 ॥

तम् तदा पुरुषम् मर्त्याः महा-राज-उपलक्षणम् । यजन्ति वेद-तन्त्राभ्याम् परम् जिज्ञासवः नृप ॥ 28 ॥

नमः ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नाय अनिरुद्धाय तुभ्यम् भगवते नमः ॥ 29 ॥

नारायणाय ऋषये पुरुषाय महा-आत्मने । विश्व-ईश्वराय विश्वाय सर्व-भूत-आत्मने नमः ॥ 30 ॥

इति द्वापरे उर्वी-ईश स्तुवन्ति जगत्-ईश्वरम् । नाना-तन्त्र-विधानेन कलौ अपि यथा शृणु ॥ 31 ॥

कृष्ण-वर्णम् त्विषा अ-कृष्णम् स-अङ्ग-उपाङ्ग-अस्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैः यजन्ति हि सु-मेधसः ॥ 32 ॥

ध्येयम् सदा परिभव-घ्नम् अभीष्ट-दोहम् तीर्थ-आस्पदम् शिव-विरिञ्चि-नुतम् शरण्यम् । भृत्य-आर्ति-हम् प्रणत-पाल भव-अब्धि-पोतम् वन्दे महा-पुरुष ते चरण-अरविन्दम् ॥ 33 ॥

त्यक्त्वा सु-दुस्त्यज-सुर-इप्सित-राज्य-लक्ष्मीम् धर्मिष्ठः आर्य-वचसा यत् अगात् अरण्यम् । माया-मृगम् दयितया इप्सितम् अन्वधावत् वन्दे महा-पुरुष ते चरण-अरविन्दम् ॥ 34 ॥

एवम् युग-अनुरूपाभ्याम् भगवान् युग-वर्तिभिः । मनुजैः इज्यते राजन् श्रेयसाम् ईश्वरः हरिः ॥ 35 ॥

कलिम् सभाजयन्ति आर्याः गुण-ज्ञाः सार-भागिनः । यत्र सङ्कीर्तनेन एव सर्वः स्व-अर्थः अभिलभ्यते ॥ 36 ॥

न हि अतः परमः लाभः देहिनाम् भ्राम्यताम् इह । यतः विन्देत परमाम् शान्तिम् नश्यति संसृतिः ॥ 37 ॥

कृत-आदिषु प्रजाः राजन् कलौ इच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायण-परायणाः ॥ 38 ॥

क्वचित् क्वचित् महा-राज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृत-माला पयस्विनी ॥ 39 ॥

कावेरी च महा-पुण्या प्रतीची च महा-नदी । ये पिबन्ति जलम् तासाम् मनुजाः मनुज-ईश्वर । प्रायः भक्ताः भगवति वासुदेवे अमल-आशयाः ॥ 40 ॥

देव-ऋषि-भूत-आप्त-नृणाम् पितॄणाम् न किङ्करः न अयम् ऋणी च राजन् । सर्व-आत्मना यः शरणम् शरण्यम् गतः मुकुन्दम् परिहृत्य कर्तम् ॥ 41 ॥

स्व-पाद-मूलम् भजतः प्रियस्य त्यक्त-अन्य-भावस्य हरिः परेशः । विकर्म यत् च उत्पतितम् कथञ्चित् धुनोति सर्वम् हृदि सन्निविष्टः ॥ 42 ॥

श्री-नारदः उवाच

धर्मान् भागवतान् इत्थम् श्रुत्वा अथ मिथिला-ईश्वरः । जायन्तेयान् मुनीन् प्रीतः स-उपाध्यायः हि अपूजयत् ॥ 43 ॥

ततः अन्तर्दधिरे सिद्धाः सर्व-लोकस्य पश्यतः । राजा धर्मान् उपातिष्ठन् अवाप परमाम् गतिम् ॥ 44 ॥

त्वम् अपि एतान् महा-भाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तः निः-सङ्गः यास्यसे परम् ॥ 45 ॥

युवयोः खलु दम्पत्योः यशसा पूरितम् जगत् । पुत्रताम् अगमत् यत् वाम् भगवान् ईश्वरः हरिः ॥ 46 ॥

दर्शन-आलिङ्गन-आलापैः शयन-आसन-भोजनैः । आत्मा वाम् पावितः कृष्णे पुत्र-स्नेहम् प्रकुर्वतोः ॥ 47 ॥

वैरेण यम् नृपतयः शिशुपाल-पौण्ड्र- शाल्व-आदयः गति-विलास-विलोकन-आद्यैः । ध्यायन्तः आकृत-धियः शयन-आसन-आदौ तत्-साम्यम् आपुः अनुरक्त-धियाम् पुनः किम् ॥ 48 ॥

मा अपत्य-बुद्धिम् अकृथाः कृष्णे सर्व-आत्मनि ईश्वरे । माया-मनुष्य-भावेन गूढ-ऐश्वर्ये परे अव्यये ॥ 49 ॥

भू-भार-असुर-राजन्य-हन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते ॥ 50 ॥

श्री-शुकः उवाच

एतत् श्रुत्वा महा-भागः वसुदेवः अति-विस्मितः । देवकी च महा-भागा जहतुः मोहम् आत्मनः ॥ 51 ॥

इतिहासम् इमम् पुण्यम् धारयेत् यः समाहितः । सः विधूय इह शमलम् ब्रह्म-भूयाय कल्पते ॥ 52 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम् एकादश-स्कन्धे पञ्चमः अध्यायः ॥ 5 ॥


ஸ்கந்தம் 11: அத்யாயம் 4 (பகவானின் வர்ணனை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பகவானின் வர்ணனை

ஸ்கந்தம் 11: அத்யாயம் 4

 

श्री-राजा उवाच

यानि यानि इह कर्माणि यैः यैः स्वच्छन्द-जन्मभिः । चक्रे करोति कर्ता वा हरिः तानि ब्रुवन्तु नः ॥ 1 ॥

श्री-द्रुमिलः उवाच

यः वा अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् सः तु बाल-बुद्धिः । रजांसि भूमेः गणयेत् कथञ्चित् कालेन न एव अखिल-शक्ति-धाम्नः ॥ 2 ॥

भूतैः यदा पञ्चभिः आत्म-सृष्टैः पुरम् विराजम् विरचय्य तस्मिन् । स्व-अंशेन विष्टः पुरुष-अभिधानम् अवाप नारायणः आदि-देवः ॥ 3 ॥

यत्-कायः एषः भुवन-त्रय-सन्निवेशः यस्य इन्द्रियैः तनु-भृताम् उभय-इन्द्रियाणि । ज्ञानम् स्वतः श्वसनतः बलम् ओजः ईहा सत्त्व-आदिभिः स्थिति-लय-उद्भव आदि-कर्ता ॥ 4 ॥

आदौ अभूत् शत-धृतिः रजसा अस्य सर्गे विष्णुः स्थितौ क्रतु-पतिः द्विज-धर्म-सेतुः । रुद्रः अपि अप्ययाय तमसा पुरुषः सः आद्यः इति उद्भव-स्थिति-लयाः सततम् प्रजासु ॥ 5 ॥

धर्मस्य दक्ष-दुहितरि अजनिष्ट मूर्त्याम् नारायणः नर-ऋषि-प्रवरः प्रशान्तः । नैष्कर्म्य-लक्षणम् उवाच चचार कर्म यः अद्यापि च आस्ते ऋषि-वर्य-निषेवित-अङ्घ्रिः ॥ 6 ॥

इन्द्रः विशङ्क्य मम धाम जिघृक्षति इति कामम् न्ययुङ्क्त स-गणम् सः बदरि-उपाख्यम् । गत्वा अप्सरः-गण-वसन्त-सुमन्द-वातैः स्त्री-प्रेक्षण-इषुभिः अविध्यत् अ-तत्-महिज्ञः ॥ 7 ॥

विज्ञाय शक्र-कृतम् अक्रमम् आदि-देवः प्राह प्रहस्य गत-विस्मय एजमानान् । मा भैष्ट भो मदन मारुत देव-वध्वः गृह्णीत नः बलिम् अशून्यम् इमम् कुरुध्वम् ॥ 8 ॥

इत्थम् ब्रुवति अभय-दे नर-देव देवाः स-व्रीड-नम्र-शिरसः स-घृणम् तम् ऊचुः । न एतत् विभो त्वयि परे अविकृते विचित्रम् स्व-आराम-धीर-निकर-अनत-पाद-पद्मे ॥ 9 ॥

त्वाम् सेवताम् सुर-कृताः बहवः अन्तरायाः स्व-ओकः विलङ्घ्य परमम् व्रजताम् पदम् ते । न अन्यस्य बर्हिषि बलीन् ददतः स्व-भागान् धत्ते पदम् त्वम् अविता यदि विघ्न-मूर्ध्नि ॥ 10 ॥

क्षुत्-तृट्-त्रि-काल-गुण-मारुत-जैह्व्य-शैश्याः अस्मान् अपार-जलधीन् अतितीर्य केचित् । क्रोधस्य यान्ति विफलस्य वशम् पदे गोः मज्जन्ति दुश्चर-तपः च वृथा उत्सृजन्ति ॥ 11 ॥

इति प्रगृणताम् तेषाम् स्त्रियः अति-अद्भुत-दर्शनाः । दर्शयामास शुश्रूषाम् स्व-अर्चिताः कुर्वतीः विभुः ॥ 12 ॥

ते देव-अनुचराः दृष्ट्वा स्त्रियः श्रीः इव रूपिणीः । गन्धेन मुमुहुः तासाम् रूप-औदार्य-हत-श्रियः ॥ 13 ॥

तान् आह देव-देव-ईशः प्रणतान् प्रहसन् इव । आसाम् एक-तमाम् वृण्ध्वम् स-वर्णाम् स्वर्ग-भूषणाम् ॥ 14 ॥

ॐ इति आदेशम् आदाय नत्वा तम् सुर-वन्दिनः । उर्वशीम् अप्सरः-श्रेष्ठाम् पुरस्कृत्य दिवम् ययुः ॥ 15 ॥

इन्द्राय अनम्य सदसि शृण्वताम् त्रि-दिव-ओकसाम् । ऊचुः नारायण-बलम् शक्रः तत्र आसीत् विस्मितः ॥ 16 ॥

हंस-स्वरूप्य अवदत् अच्युतः आत्म-योगम् दत्तः कुमारः ऋषभः भगवान् पिता नः । विष्णुः शिवाय जगताम् कलया अवतीर्णः तेन आहृताः मधु-भिदा श्रुतयः हय-आस्ये ॥ 17 ॥

गुप्तः अपि अये मनुः इला औषधयः च मात्स्ये क्रौडे हतः दितिजः उद्धरताम् अम्भसः क्ष्माम् । कौर्मे धृतः अद्रिः अमृत-उन्मथने स्व-पृष्ठे ग्राहात् प्रपन्नम् इभ-राजम् अमुञ्चत् आर्तम् ॥ 18 ॥

संस्तुन्वतः अब्धि-पतितान् श्रमणान् ऋषीन् च शक्रम् च वृत्र-वधतः तमसि प्रविष्टम् । देव-स्त्रियः असुर-गृहे पिहिताः अनाथाः जघ्ने असुर-इन्द्रम् अभयाय सताम् नृसिंहे ॥ 19 ॥

देव-असुरे युधि च दैत्य-पतीन् सुर-अर्थे हत्वा अन्तरेषु भुवनानि अदधात् कलाभिः । भूत्वा अथ वामनः इमाम् अहरत् बलेः क्ष्माम् याच्ञा-च्छलेन समदात् अदितेः सुतेभ्यः ॥ 20 ॥

निः-क्षत्रियाम् अकरोत् गाम् च त्रिः-सप्त-कृत्वः रामः तु हैहय-कुल-अप्यय-भार्गव-अग्निः । सः अब्धिम् बबन्ध दश-वक्त्रम् अहन् स-लङ्कम् सीता-पतिः जयति लोक-मल-घ्न-कीर्तिः ॥ 21 ॥

भूमेः भार-अवतरणाय यदुषु अजन्मा जातः करिष्यति सुरैः अपि दुष्कराणि । वादैः विमोहयति यज्ञ-कृतः अतत्-अर्हान् शूद्रान् कलौ क्षिति-भुजः न्यहनिष्यत् अन्ते ॥ 22 ॥

एवम्-विधानि कर्माणि जन्मानि च जगत्-पतेः । भूरीणि भूरि-यशसः वर्णितानि महा-भुज ॥ 23 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम् एकादश-स्कन्धे चतुर्थः अध्यायः ॥ 4 ॥


ஸ்கந்தம் 11: அத்யாயம் 3 (மோக்ஷ மார்க்கம், ரிஷப தேவரின் புத்திரர்கள் உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

மோக்ஷ மார்க்கம், ரிஷப தேவரின் புத்திரர்கள் உபதேசம்

ஸ்கந்தம் 11: அத்யாயம் 3

 

श्री-राजा उवाच

परस्य विष्णोः ईशस्य मायिनाम् अपि मोहिनीम् ।
मायाम् वेदितुम् इच्छामः भगवन्तः ब्रुवन्तु नः ॥ 1 ॥

न अनु-तृप्ये जुषन् युष्मत्-वचः हरि-कथा-अमृतम् ।
संसार-ताप-निस्तप्तः मर्त्यः तत्-ताप-भेषजम् ॥ 2 ॥

श्री-अन्तरिक्षः उवाच

एभिः भूतानि भूत-आत्मा महा-भूतैः महा-भुज ।
ससर्ज उच्च-अवचानि आद्यः स्व-मात्र-आत्म-प्रसिद्धये ॥ 3 ॥

एवम् सृष्टानि भूतानि प्रविष्टः पञ्च-धातुभिः ।
एकधा दशधा आत्मानम् विभजन् जुषते गुणान् ॥ 4 ॥

गुणैः गुणान् सः भुञ्जानः आत्म-प्रद्योतितैः प्रभुः ।
मन्यमानः इदम् सृष्टम् आत्मानम् इह सज्जते ॥ 5 ॥

कर्माणि कर्मभिः कुर्वन् स-निमित्तानि देह-भृत् ।
तत्-तत् कर्म-फलम् गृह्णन् भ्रमति इह सुख-इतरम् ॥ 6 ॥

इत्थम् कर्म-गतिः गच्छन् बहु-अभद्र-वहाः पुमान् ।
आ-भूत-सम्प्लवात् सर्ग-प्रलयौ अश्नुते अवशः ॥ 7 ॥

धातु-उपप्लवे आसन्ने व्यक्तम् द्रव्य-गुण-आत्मकम् ।
अनादि-निधनः कालः हि अव्यक्ताय अपकर्षति ॥ 8 ॥

शत-वर्षा हि अनावृष्टिः भविष्यति उल्बणा भुवि ।
तत्-काल-उपचित-उष्ण-अर्कः लोकान् त्रीन् प्रतपिष्यति ॥ 9 ॥

पाताल-तलम् आरभ्य सङ्कर्षण-मुख-अनलः ।
दहन् ऊर्ध्व-शिखः विष्वक् वर्धते वायु-नेरितः ॥ 10 ॥

सांवर्तकः मेघ-गणः वर्षति स्म शतम् समाः ।
धाराभिः हस्ति-हस्ताभिः लीयते सलिले विराट् ॥ 11 ॥

ततः विराजम् उत्सृज्य वैराजः पुरुषः नृप ।
अव्यक्तम् विशते सूक्ष्मम् निरिन्द्धनः इव अनलः ॥ 12 ॥

वायुना हृत-गन्धा भूः सलिलत्वाय कल्पते ।
सलिलम् तत् धृत-रसम् ज्योतिष्ट्वाय उपकल्पते ॥ 13 ॥

हृत-रूपम् तु तमसा वायौ ज्योतिः प्रलीयते ।
हृत-स्पर्शः अवकाशेन वायुः नभसि लीयते ॥ 14 ॥

काल-आत्मना हृत-गुणम् नभः आत्मनि लीयते ।
इन्द्रियाणि मनः बुद्धिः सह वैकारिकैः नृप ।
प्रविशन्ति हि अहङ्कारम् स्व-गुणैः अहम् आत्मनि ॥ 15 ॥

एषा माया भगवतः सर्ग-स्थिति-अन्त-कारिणी ।
त्रि-वर्णा वर्णिता अस्माभिः किम् भूयः श्रोतुम् इच्छसि ॥ 16 ॥

श्री-राजा उवाच

यथा एताम् ऐश्वरीम् मायाम् दुस्तराम् अ-कृत-आत्मभिः ।
तरन्ति अञ्जः स्थूल-धियः महर्षे इदम् उच्यताम् ॥ 17 ॥

श्री-प्रबुद्धः उवाच

कर्माणि आरभमाणानाम् दुःख-हत्यै सुखाय च ।
पश्येत् पाक-विपर्यासम् मिथुनी-चारिणाम् नृणाम् ॥ 18 ॥

नित्य-आर्ति-देन वित्तेन दुर्लभेन आत्म-मृत्युना ।
गृह-अपत्य-आप्त-पशुभिः का प्रीतिः साधितैः चलैः ॥ 19 ॥

एवम् लोकम् परम् विद्यात् नश्वरम् कर्म-निर्मितम् ।
स-तुल्य-अतिशय-ध्वंसम् यथा मण्डल-वर्तिनाम् ॥ 20 ॥

तस्मात् गुरुम् प्रपद्येत जिज्ञासुः श्रेयः उत्तमम् ।
शाब्दे परे च निष्णातम् ब्रह्मणि उपशम-आश्रयम् ॥ 21 ॥

तत्र भागवतान् धर्मान् शिक्षेत् गुरु-आत्म-दैवतः ।
अमायया अनुवृत्त्या यैः तुष्येत् आत्मा आत्म-दः हरिः ॥ 22 ॥

सर्वतः मनसः असङ्गम् आदौ सङ्गम् च साधुषु ।
दयाम् मैत्रीम् प्रश्रयम् च भूतेषु अद्धा यथा-उचितम् ॥ 23 ॥

शौचम् तपः तितिक्षाम् च मौनम् स्वाध्यायम् आर्जवम् ।
ब्रह्मचर्यम् अहिंसाम् च समत्वम् द्वन्द्व-संज्ञयोः ॥ 24 ॥

सर्वत्र आत्म-ईश्वर-अन्वीक्षाम् कैवल्यम् अनिकेतताम् ।
विविक्त-चीर-वसनम् सन्तोषम् येन केनचित् ॥ 25 ॥

श्रद्धाम् भागवते शास्त्रे अनिन्दाम् अन्यत्र च अपि हि ।
मनः-वाक्-कर्म-दण्डम् च सत्यम् शम-दमौ अपि ॥ 26 ॥

श्रवणम् कीर्तनम् ध्यानम् हरेः अद्भुत-कर्मणः ।
जन्म-कर्म-गुणानाम् च तत्-अर्थे अखिल-चेष्टितम् ॥ 27 ॥

इष्टम् दत्तम् तपः जप्तम् वृत्तम् यत् च आत्मनः प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ 28 ॥

एवम् कृष्ण-आत्म-नाथेषु मनुष्येषु च सौहृदम् ।
परिचर्याम् च उभयत्र महत्सु नृषु साधुषु ॥ 29 ॥

परस्पर-अनु-कथनम् पावनम् भगवत्-यशः ।
मिथः रतिः मिथः तुष्टिः निवृत्तिः मिथः आत्मनः ॥ 30 ॥

स्मरन्तः स्मारयन्तः च मिथः अघ-ओघ-हरम् हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रति उत्पुलकाम् तनुम् ॥ 31 ॥

क्वचित् रुदन्ति अच्युत-चिन्तया क्वचित्
हसन्ति नन्दन्ति वदन्ति अलौकिकाः ।
नृत्यन्ति गायन्ति अनुशीलयन्ति अजम्
भवन्ति तूष्णीम् परम् एत्य निर्वृताः ॥ 32 ॥

इति भागवतान् धर्मान् शिक्षन् भक्त्या तत्-उत्थया ।
नारायण-परः मायाम् अञ्जः तरति दुस्तराम् ॥ 33 ॥

श्री-राजा उवाच

नारायण-अभिधानस्य ब्रह्मणः परम-आत्मनः ।
निष्ठाम् अर्हथ नः वक्तुम् यूयम् हि ब्रह्म-वित्तमाः ॥ 34 ॥

श्री-पिप्पलायनः उवाच

स्थिति-उद्भव-प्रलय-हेतुः अहेतुः अस्य
यत् स्वप्न-जागर-सुषुप्तिषु सत् बहिः च ।
देह-इन्द्रिय-असु-हृदयानि चरन्ति येन
सञ्जीवितानि तत् अवेहि परम् नरेन्द्र ॥ 35 ॥

न एतत् मनः विशति वाक् उत चक्षुः आत्मा
प्राण-इन्द्रियाणि च यथा अनलम् अर्चिषः स्वाः ।
शब्दः अपि बोधक-निषेधतया आत्म-मूलम्
अर्थ-उक्तम् आह यत् ऋते न निषेध-सिद्धिः ॥ 36 ॥

सत्त्वम् रजः तमः इति त्रि-वृत् एकम् आदौ
सूत्रम् महान् अहम् इति प्रवदन्ति जीवम् ।
ज्ञान-क्रिया-अर्थ-फल-रूपतया उरु-शक्ति
ब्रह्म एव भाति सत्-असत् च तयोः परम् यत् ॥ 37 ॥

न आत्मा जजान न मरिष्यति न एधते असौ
न क्षीयते सवन-वित् व्यभिचारिणाम् हि ।
सर्वत्र शश्वत् अनपायी उपलब्धि-मात्रम्
प्राणः यथा इन्द्रिय-बलेन विकल्पितम् सत् ॥ 38 ॥

अण्डेषु पेशिषु तरुषु अविनिश्चितेषु
प्राणः हि जीवम् उपधावति तत्र तत्र ।
सन्ने यत् इन्द्रिय-गणे अहम् इति च प्रसुप्ते
कूटस्थः आशयम् ऋते तत् अनुस्मृतिः नः ॥ 39 ॥

यर्हि अब्ज-नाभ-चरण-एषणया उरु-भक्त्या
चेतः-मलानि विधमेत् गुण-कर्म-जानि ।
तस्मिन् विशुद्धे उपलभ्यते आत्म-तत्त्वम्
साक्षात् यथा अमल-दृशोः सवितृ-प्रकाशः ॥ 40 ॥

श्री-राजा उवाच

कर्म-योगम् वदत नः पुरुषः येन संस्कृतः ।
विधूय इह आशु कर्माणि नैष्कर्म्यम् विन्दते परम् ॥ 41 ॥

एवम् प्रश्नम् ऋषीन् पूर्वम् अपृच्छम् पितुः अन्तिके ।
न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणम् उच्यताम् ॥ 42 ॥

श्री-आविहोत्रः उवाच

कर्म-अकर्म-विकर्म इति वेद-वादः न लौकिकः ।
वेदस्य च ईश्वर-आत्मत्वात् तत्र मुह्यन्ति सूरयः ॥ 43 ॥

परोक्ष-वादः वेदः अयम् बालानाम् अनुशासनम् ।
कर्म-मोक्षाय कर्माणि विधत्ते हि अगदम् यथा ॥ 44 ॥

न आचरेत् यः तु वेद-उक्तम् स्वयम् अज्ञः अजित-इन्द्रियः ।
विकर्मणा हि अधर्मेण मृत्योः मृत्युम् उपैति सः ॥ 45 ॥

वेद-उक्तम् एव कुर्वाणः निः-सङ्गः अर्पितम् ईश्वरे ।
नैष्कर्म्यम् लभते सिद्धिम् रोचन-अर्था फल-श्रुतिः ॥ 46 ॥

यः आशु हृदय-ग्रन्थिम् निर्जिहीर्षुः पर-आत्मनः ।
विधिना उपचरेत् देवं तन्त्र-उक्तेन च केशवम् ॥ 47 ॥

लब्ध-अनुग्रहः आचार्यात् तेन सन्दर्शित-आगमः ।
महा-पुरुषम् अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः ॥ 48 ॥

शुचिः सम्मुखम् आसीनः प्राण-संयमन-आदिभिः ।
पिण्डम् विशोध्य संन्यास-कृत-रक्षः अर्चयेत् हरिम् ॥ 49 ॥

अर्चा-आदौ हृदये च अपि यथा-लब्ध-उपचारकैः ।
द्रव्य-क्षिति-आत्म-लिङ्गानि निष्पाद्य प्रोक्ष्य च आसनम् ॥ 50 ॥

पाद्य-आदीन् उपकल्प्य अथ सन्निधाप्य समाहितः ।
हृद्-आदिभिः कृत-न्यासः मूल-मन्त्रेण च अर्चयेत् ॥ 51 ॥

स-अङ्ग-उपाङ्गाम् स-पार्षदाम् ताम् ताम् मूर्तिम् स्व-मन्त्रतः ।
पाद्य-अर्घ्य-आचमनीय-आद्यैः स्नान-वसः-विभूषणैः ॥ 52 ॥

गन्ध-माल्य-अक्षत-स्रग्भिः धूप-दीप-उपहारकैः ।
स-अङ्गम् सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ 53 ॥

आत्मानम् तत्-मयम् ध्यायन् मूर्तिम् सम्पूजयेत् हरेः ।
शेषाम् आधाय शिरसा स्व-धाम्नि उद्वास्य सत्-कृतम् ॥ 54 ॥

एवम् अग्नि-अर्क-तोय-आदौ अतिथौ हृदये च यः ।
यजति ईश्वरम् आत्मानम् अचिरात् मुच्यते हि सः ॥ 55 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
एकादश-स्कन्धे तृतीयः अध्यायः ॥ 3 ॥