Followers

Search Here...

Sunday, 19 July 2026

சுந்தர காண்டம் – 59 - சீதையை உடனே மீட்டு இராமனிடம் அழைத்துச் செல்லலாம் என்று வானரர்களை ஊக்குவிக்கிறார்.

HOME          PREVIOUS               NEXT

एतत् आख्यानम् तत् सर्वम् हनूमान् मारुत-आत्मजः ।
भूयः समुपचक्राम वचनम् वक्तुम् उत्तरम् ॥ ५-५९-१ ॥

सफलः राघव-उद्योगः सुग्रीवस्य च सम्भ्रमः ।
शीलम् आसाद्य सीतायाः मम च प्रवणम् मनः ॥ ५-५९-२ ॥

तपसा निर्दहेत् लोकान् क्रुद्धः वा निर्दहेत् अपि ।
सर्व-धाति-प्रवृद्धः असौ रावणः राक्षस-अधिपः ॥ ५-५९-३ ॥

तस्य ताम् स्पृशतः गात्रम् तपसा न विनाशितम् ।
न तत् अग्नि-शिखा कुर्यात् संस्पृष्टा पाणिना सती ॥ ५-५९-४ ॥

जनकस्य सुता कुर्यात् यत् क्रोध-कलुषी-कृता ।
जाम्बवत्-प्रमुखान् सर्वान् अनुज्ञाप्य महा-हरीन् ॥ ५-५९-५ ॥

अस्मिन् एवम् गते कार्ये भवताम् च निवेदिते ।
न्याय्यम् स्म सह वैदेह्या द्रष्टुम् तौ पार्थिव-आत्मजौ ॥ ५-५९-६ ॥

अहम् एकः अपि पर्याप्तः स-राक्षस-गणाम् पुरीम् ।
ताम् लङ्काम् तरसा हन्तुम् रावणम् च महा-बलम् ॥ ५-५९-७ ॥

किम् पुनः सहितः वीरैः बलवद्भिः कृत-आत्मभिः ।
कृत-अस्त्रैः प्लवगैः शूरैः भवद्भिः विजय-एषिभिः ॥ ५-५९-८ ॥

अहम् तु रावणम् युद्धे स-सैन्यम् स-पुरःसरम् ।
सह-पुत्रम् वधिष्यामि सहोदर-युतम् युधि ॥ ५-५९-९ ॥

ब्रह्मम् ऐन्द्रम् च रौद्रम् च वायव्यम् वारुणम् तथा ।
यदि शक्र-जोतः अस्त्राणि दुर्निरीक्षाणि सम्युगे ॥ ५-५९-१० ॥

तानि अहम् विधर्ष्यामि हनिष्यामि च रावणम् ।
भवताम् अभ्यनुज्ञातः विक्रमः मे रुणद्धि तम् ॥ ५-५९-११ ॥

मया तुला विसृष्टा हि शैल-वृष्टिः निरन्तरा ।
देवान् अपि रणे हन्यात् किम् पुनः तान् निशाचरान् ॥ ५-५९-१२ ॥

सागरः अपि अतीयात् वेलाम् मन्दरः प्रचलेत् अपि ।
न जाम्बवन्तम् समरे कम्पयेत् अरि-वाहिनी ॥ ५-५९-१३ ॥

सर्व-राक्षस-सङ्घानाम् राक्षसाः ये च महा-आत्मनः ।
अलम् एकः विनाशाय वीरः वालि-सुतः कपिः ॥ ५-५९-१४ ॥

पनसस्य उरु-वेगेन नीलस्य च महा-आत्मनः ।
मन्दरः अपि अवशीर्येत किम् पुनः युधि राक्षसाः ॥ ५-५९-१५ ॥

स-देव-असुर-यक्षेषु गन्धर्व-उरग-पक्षिषु ।
मैन्दस्य प्रति-योद्धारम् शंसत द्विविदस्य वा ॥ ५-५९-१६ ॥

अश्वि-पुत्रौ महा-भागौ एतौ प्लवग-सत्तमौ ।
एतयोः प्रति-योद्धारम् न पश्यामि रण-अजिरे ॥ ५-५९-१७ ॥

पितामह-वर-उत्सेकात् परमम् दर्पम् आस्थितौ ।
अमृत-प्राशनौ एतौ सर्व-वानर-सत्तमौ ॥ ५-५९-१८ ॥

अश्विनोः मानन-अर्थम् हि सर्व-लोक-पितामहः ।
सर्व-अवध्यत्वम् अतुलम् अनयोः दत्तवान् पुरा ॥ ५-५९-१९ ॥

वर-उत्सेकेन मत्तौ च प्रमथ्य महतीम् चमूम् ।
सुराणाम् अमृतम् वीरौ पीतवन्तौ प्लवङ्गमौ ॥ ५-५९-२० ॥

एताभ्याम् हि सङ्क्रुद्धाभ्याम् स-वाजि-रथ-कुञ्जराम् ।
लङ्काम् नाशयितुम् शक्तौ सर्वे तिष्ठन्तु वानराः ॥ ५-५९-२१ ॥

मया एव निहता लङ्का दग्धा भस्मी-कृता पुनः ।
राज-मार्गेषु सर्वत्र नाम विश्रावितम् मया ॥ ५-५९-२२ ॥

जयति अति-बलः रामः लक्ष्मणः च महा-बलः ।
राजा जयति सुग्रीवः राघवेण अभिपालितः ॥ ५-५९-२३ ॥

अहम् कोसल-राजस्य दासः पवन-सम्भवः ।
हनुमान् इति सर्वत्र नाम विश्रावितम् मया ॥ ५-५९-२४ ॥

अशोक-वनिका-मध्ये रावणस्य दुरात्मनः ।
अधस्तात् शिंशपा-वृक्षे साध्वी करुणम् आस्थिता ॥ ५-५९-२५ ॥

राक्षसीभिः परिवृता शोक-सन्ताप-कर्शिता ।
मेघ-लेखा-परिवृता चन्द्र-लेखा इव निष्प्रभा ॥ ५-५९-२६ ॥

अचिन्तयन्ती वैदेही रावणम् बल-दर्पितम् ।
पति-व्रता च सु-श्रोणी अवष्टब्धा च जानकी ॥ ५-५९-२७ ॥

अनुरक्ता हि वैदेही रामम् सर्व-आत्मना शुभा ।
अनन्य-चित्ता रामे च पौलोमी इव पुरम्-दरे ॥ ५-५९-२८ ॥

तत् एक-वासः संवीता रजः-ध्वस्ता तथा एव च ।
शोक-सन्ताप-दीन-अङ्गी सीता भर्तृ-हिते रता ॥ ५-५९-२९ ॥

सा मया राक्षसी-मध्ये तर्ज्यमाना मुहुः मुहुः ।
राक्षसीभिः विरूपाभिः दृष्टा हि प्रमदा वने ॥ ५-५९-३० ॥

एक-वेणी-धरा दीना भर्तृ-चिन्ता-परायणा ।
अधः-शय्या विवर्ण-अङ्गी पद्मिनी इव हिम-आगमे ।
रावणात् विनिवृत्त-अर्था मर्तव्य-कृत-निश्चया ॥ ५-५९-३१ ॥

कथंचित् मृग-शाव-अक्षी विश्वासम् उपपादिता ॥ ५-५९-३२ ॥

ततः सम्भाषिता च एव सर्वम् अर्थम् च दर्शिता ।
राम-सुग्रीव-सख्यम् च श्रुत्वा प्रीतिम् उपागता ॥ ५-५९-३३ ॥

नियतः सम्यक्-आचारः भक्तिः भर्तरि च उत्तमा ।
यत् न हन्ति दश-ग्रीवम् सः महा-आत्मा कृत-अगसम् ॥ ५-५९-३४ ॥

निमित्त-मात्रम् रामः तु वधे तस्य भविष्यति ।
सा प्रकृत्या एव तनु-अङ्गी तत्-वियोगात् च कर्शिता ॥ ५-५९-३५ ॥

प्रतिपत्-पाठ-शीलस्य विद्या इव तनुताम् गता ।
एवम् आस्ते महा-भागा सीता शोक-परायणा ॥ ५-५९-३६ ॥

यत् अत्र प्रति-कर्तव्यम् तत् सर्वम् उपपाद्यताम् ॥

इति आर्षे श्रीमत्-रामायणे आदि-काव्ये सुन्दर-काण्डे एकोन-षष्टितमः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 58 - இலங்கையில் செய்த அனைத்துச் செயல்களையும் வானரர்களிடம் விவரிக்கிறார்.


HOME          PREVIOUS               NEXT

ततः तस्य गिरेः शृङ्गे महा-इन्द्रस्य महा-बलाः ।
हनुमत्-प्रमुखाः प्रीतिं हरयः जग्मुः उत्तमाम् ॥ ५-५८-१ ॥

तं ततः प्रति-संहृष्टः प्रीति-मन्तं महा-कपिम् ।
जाम्बवान् कार्य-वृत्त-अन्तम् अपृच्छत् अनिल-आत्मजम् ॥ ५-५८-२ ॥

कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।
तस्यां वा सः कथं वृत्तः क्रूर-कर्मा दश-आननः ॥ ५-५८-३ ॥

तत्त्वतः सर्वम् एतत् नः प्रब्रूहि त्वं महा-कपे ।
श्रुत-अर्थाः चिन्तयिष्यामः भूयः कार्य-विनिश्चयम् ॥ ५-५८-४ ॥

यः च अर्थः तत्र वक्तव्यः गतैः अस्माभिः आत्मवान् ।
रक्षितव्यं च यत् तत्र तत् भवान् व्याकरोतु नः ॥ ५-५८-५ ॥

सः नियुक्तः ततः तेन सम्प्रहृष्ट-तनू-रुहः ।
नमस्यन् शिरसा देव्यै सीतायै प्रत्यभाषत ॥ ५-५८-६ ॥

प्रत्यक्षम् एव भवतां महा-इन्द्र-अग्रात् खम् आप्लुतः ।
उदधेः दक्षिणं पारं काङ्क्षमाणः समाहितः ॥ ५-५८-७ ॥

गच्छतः च हि मे घोरं विघ्न-रूपम् इव अभवत् ।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनः-हरम् ॥ ५-५८-८ ॥

स्थितं पन्थानम् आवृत्य मेने विघ्नं च तं नगम् ।
उपसङ्गम्य तं दिव्यं काञ्चनं नग-सत्तमम् ॥ ५-५८-९ ॥

कृता मे मनसा बुद्धिः भेत्तव्यः अयं मया इति च ।
प्रहतं च मया तस्य लाङ्गूलेन महा-गिरेः ॥ ५-५८-१० ॥

शिखरं सूर्य-सङ्काशं व्यशीर्यत सहस्रधा ।
व्यवसायं च मे बुद्ध्वा सः ह उवाच महा-गिरिः ॥ ५-५८-११ ॥

पुत्र इति मधुरां वाणीं मनः प्रह्लादयन् इव ।
पितृव्यम् च अपि मां विद्धि सखा अयं मातरिश्वनः ॥ ५-५८-१२ ॥

मैनाकम् इति विख्यातं निवसन्तं महा-उदधौ ।
पक्ष-वतः पुरा पुत्र बभूवुः पर्वत-उत्तमाः ॥ ५-५८-१३ ॥

छन्दतः पृथिवीं चेरुः बाधमानाः समन्ततः ।
श्रुत्वा नगानां चरितं महा-इन्द्रः पाक-शासनः ॥ ५-५८-१४ ॥

चिच्छेद भगवान् पक्षान् वज्रेण एषां सहस्रशः ।
अहं तु मोक्षितः तस्मात् तव पित्रा महा-आत्मना ॥ ५-५८-१५ ॥

मारुतेन तदा वत्स प्रक्षिप्तः अस्मि महा-अर्णवे ।
रामस्य च मया साह्ये वर्तितव्यम् अरिम्-दम ॥ ५-५८-१६ ॥

रामः धर्म-भृतां श्रेष्ठः महा-इन्द्र-सम-विक्रमः ।
एतत् श्रुत्वा मया तस्य मैनाकस्य महा-आत्मनः ॥ ५-५८-१७ ॥

कार्यम् आवेद्य तु गिरेः उद्धतं च मनः मम ।
तेन च अहम् अनुज्ञातः मैनाकेन महा-आत्मना ॥ ५-५८-१८ ॥

सः च अपि अन्तर्हितः शैलः मानुषेण वपुष्मता ।
शरीरेण महा-शैलः शैलेन च महा-उदधौ ॥ ५-५८-१९ ॥

उत्तमं जवम् आस्थाय शेषम् अध्वानम् आस्थितः ।
ततः अहं सुचिरं कालं वेगेन अभ्यगमं पथि ॥ ५-५८-२० ॥

ततः पश्यामि अहं देवीं सुरसां नाग-मातरम् ।
समुद्र-मध्ये सा देवी वचनं माम् अभाषत ॥ ५-५८-२१ ॥

मम भक्ष्यः प्रदिष्टः त्वं अमरैः हरि-सत्तम ।
ततः त्वां भक्षयिष्यामि विहितः त्वं चिरस्य मे ॥ ५-५८-२२ ॥

एवम् उक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।
विवर्ण-वदनः भूत्वा वाक्यं च इदम् उदीरयम् ॥ ५-५८-२३ ॥

रामः दाशरथिः श्रीमान् प्रविष्टः दण्डक-अवनम् ।
लक्ष्मणेन सह भ्रात्रा सीतया च परं-तपः ॥ ५-५८-२४ ॥

तस्य सीता हृता भार्या रावणेन दुरात्मना ।
तस्याः सकाशं दूतः अहं गमिष्ये राम-शासनात् ॥ ५-५८-२५ ॥

कर्तुम् अर्हसि रामस्य साह्यं विषय-वासिनि ।
अथवा मैथिलीं दृष्ट्वा रामं च अक्लिष्ट-कारिणम् ॥ ५-५८-२६ ॥

आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे ।
एवम् उक्ता मया सा तु सुरसा काम-रूपिणी ॥ ५-५८-२७ ॥

अब्रवीत् न अतिवर्तेत कश्चित् एषः वरः मम ।
एवम् उक्तः सुरसया दश-योजनम् आयतः ॥ ५-५८-२८ ॥

ततः अर्ध-गुण-विस्तारः बभूव अहं क्षणेन तु ।
मत्-प्रमाण-अनुरूपं च व्यादितं तत् मुखं तया ॥ ५-५८-२९ ॥

तत् दृष्ट्वा व्यादितं तु आस्यं ह्रस्वं हि अकरवं वपुः ।
तस्मिन् मुहूर्ते च पुनः बभूव अङ्गुष्ठ-सम्मितः ॥ ५-५८-३० ॥

अभिपत्य आशु तत् वक्त्रं निर्गतः अहं ततः क्षणात् ।
अब्रवीत् सुरसा देवी स्वेन रूपेण माम् पुनः ॥ ५-५८-३१ ॥

अर्थ-सिद्ध्यै हरि-श्रेष्ठ गच्छ सौम्य यथा-सुखम् ।
समानय च वैदेहीं राघवेण महात्मना ॥ ५-५८-३२ ॥

सुखी भव महा-बाहो प्रीता अस्मि तव वानर ।
ततः अहं साधु साधु इति सर्व-भूतैः प्रशंसितः ॥ ५-५८-३३ ॥

ततः अन्तरिक्षं विपुलं प्लुतः अहं गरुडः यथा ।
छाया मे निगृहीता च न च पश्यामि किंचन ॥ ५-५८-३४ ॥

सः अहं विगत-वेगः तु दिशः दश विलोकयन् ।
न किंचित् तत्र पश्यामि येन मे अपहृता गतिः ॥ ५-५८-३५ ॥

ततः मे बुद्धिः उत्पन्ना किम् नाम गमने मम ।
ईदृशः विघ्नः उत्पन्नः रूपं यत्र न दृश्यते ॥ ५-५८-३६ ॥

अधः-भागेन मे दृष्टिः शोचता पातिता मया ।
ततः अद्राक्षम् अहं भीमां राक्षसीं सलिले शयाम् ॥ ५-५८-३७ ॥

प्रहस्य च महा-नादम् उक्तः अहं भीमया तया ।
अवस्थितः असम्भ्रान्तः इदं वाक्यम् अशोभनम् ॥ ५-५८-३८ ॥

क्व असि गन्ता महा-काय क्षुधितायाः मम ईप्सितः ।
भक्षः प्रीणय मे देहं चिरम् आहार-वर्जितम् ॥ ५-५८-३९ ॥

बाढम् इति एव तां वाणीं प्रत्यगृह्णाम् अहं ततः ।
आस्य-प्रमाणात् अधिकं तस्याः कायम् अपूरयम् ॥ ५-५८-४० ॥

तस्याः च आस्यम् महत् भीमम् वर्धते मम भक्षणे ।
न च माम् सा तु बुबुधे मम वा विकृतम् कृतम् ॥ ५-५८-४१॥

ततः अहम् विपुलम् रूपम् संक्षिप्य निमिष-अन्तरात् ।
तस्याः हृदयम् आदाय प्रपतामि नभः-तलम् ॥ ५-५८-४२॥

सा विसृष्ट-भुजा भीमा पपात लवण-अम्भसि ।
मया पर्वत-संकाशा निकृत्त-हृदया सती ॥ ५-५८-४३॥

शृणोमि ख-गतानाम् च सिद्धानाम् चारणैः सह ।
राक्षसी सिंहिका भीमा क्षिप्रम् हनुमता हृता ॥ ५-५८-४४॥

ताम् हत्वा पुनः एव अहम् कृत्यम् आत्ययिकम् स्मरन् ।
गत्वा च महत् अध्वानम् पश्यामि नग-मण्डितम् ॥ ५-५८-४५॥

दक्षिणम् तीरम् उदधेः लङ्का यत्र च सा पुरी ।
अस्तम् दिन-करे याते रक्षसाम् निलयम् पुरीम् ॥ ५-५८-४६॥

प्रविष्टः अहम् अविज्ञातः रक्षोभिः भीम-विक्रमैः ।
तत्र प्रविशतः च अपि कल्प-अन्त-घन-सन्निभा ॥ ५-५८-४७॥

अट्टहासम् विमुञ्चन्ती नारी का अपि उत्थिता पुरः ।
जिघांसन्तीम् ततः ताम् तु ज्वलत्-अग्नि-शिरोरुहाम् ॥ ५-५८-४८॥

सव्य-मुष्टि-प्रहारेण पराजित्य सु-भैरवाम् ।
प्रदोष-काले प्रविशम् भीतया अहम् तया उदितः ॥ ५-५८-४९॥

अहम् लङ्का-पुरी वीर निर्जिता विक्रमेण ते ।
यस्मात् तस्मात् विजेतासि सर्व-रक्षांसि अशेषतः ॥ ५-५८-५०॥

तत्र अहम् सर्व-रात्रम् तु विचिन्वन् जनक-आत्मजाम् ।
रावण-अन्तः-पुरम् गतः न च अपश्यम् सु-मध्यमाम् ॥ ५-५८-५१॥

ततः सीताम् अपश्यन् तु रावणस्य निवेशने ।
शोक-सागरम् आसाद्य न पारम् उपलक्षये ॥ ५-५८-५२॥

शोचता च मया दृष्टम् प्राकारेण समावृतम् ।
काञ्चनेन विकृष्टेन गृह-उपवनम् उत्तमम् ॥ ५-५८-५३॥

सः प्राकारम् अवप्लुत्य पश्यामि बहु-पादपम् ।
अशोक-वनिका-मध्ये शिंशपा-पादपः महान् ॥ ५-५८-५४॥

तम् आरुह्य च पश्यामि काञ्चनम् कदली-वनम् ।
अदूरात् शिंशपा-वृक्षात् पश्यामि वन-वर्णिनीम् ॥ ५-५८-५५॥

श्यामाम् कमल-पत्र-अक्षीम् उपवास-कृश-आननाम् ।
तत्-एक-वासः-संवीताम् रजः-ध्वस्त-शिरोरुहाम् ॥ ५-५८-५६॥

शोक-सन्ताप-दीन-अङ्गीम् सीताम् भर्तृ-हिते स्थिताम् ।
राक्षसीभिः विरूपाभिः क्रूराभिः अभिसंवृताम् ॥ ५-५८-५७॥

मांस-शोणित-भक्ष्याभिः व्याघ्रीभिः हरिणीम् यथा ।
सा मया राक्षसी-मध्ये तर्ज्यमाना मुहुः-मुहुः ॥ ५-५८-५८॥

एक-वेणी-धराः दीनाम् भर्तृ-चिन्ता-परायणाम् ।
भूमि-शय्याम् विवर्ण-अङ्गीम् पद्मिनीम् इव हिम-आगमे ॥ ५-५८-५९॥

रावणात् विनिवृत्त-अर्थाम् मर्तव्य-कृत-निश्चयाम् ।
कथञ्चित् मृग-शाब-अक्षीम् तूर्णम् आसादिता मया ॥ ५-५८-६०॥

ताम् दृष्ट्वा तादृशीम् नारीम् राम-पत्नीम् अनिन्दिताम् ।
तत्र एव शिंशपा-वृक्षे पश्यन् अहम् अवस्थितः ॥ ५-५८-६१ ॥

ततः हलहला-शब्दम् काञ्ची-नूपुर-मिश्रितम् ।
शृणोमि अधिक-गम्भीरम् रावणस्य निवेशने ॥ ५-५८-६२ ॥

ततः अहम् परम-उद्विग्नः स्वरूपम् प्रत्यसंहरम् ।
अहम् च शिंशपा-वृक्षे पक्षी इव गहने स्थितः ॥ ५-५८-६३ ॥

ततः रावण-दाराः च रावणः च महा-बलः ।
तम् देशम् समनुप्राप्ताः यत्र सीता अभवत् स्थिता ॥ ५-५८-६४ ॥

तम् दृष्ट्वा अथ वर-आरोहा सीता रक्षः-गण-ईश्वरम् ।
सङ्कुच्य ऊरू स्तनौ पीनौ बाहुभ्याम् परिरभ्य च ॥ ५-५८-६५ ॥

वित्रस्ताम् परम-उद्विग्नाम् वीक्षमाणाम् इतः-ततः ।
त्राणम् किंचित् अपश्यन्तीम् वेपमानाम् तपस्विनीम् ॥ ५-५८-६६ ॥

ताम् उवाच दश-ग्रीवः सीताम् परम-दुःखिताम् ।
अवाक्-शिराः प्रपतितः बहु मन्यस्व माम् इति ॥ ५-५८-६७ ॥

यदि चेत् त्वम् तु माम् दर्पात् न अभिनन्दसि गर्विते ।
द्वौ मासौ अनन्तरम् सीते पास्यामि रुधिरम् तव ॥ ५-५८-६८ ॥

एतत् श्रुत्वा वचः तस्य रावणस्य दुरात्मनः ।
उवाच परम-क्रुद्धा सीता वचनम् उत्तमम् ॥ ५-५८-६९ ॥

राक्षस-अधम रामस्य भार्याम् अमित-तेजसः ।
इक्ष्वाकु-कुल-नाथस्य स्नुषाम् दशरथस्य च ॥ ५-५८-७० ॥

अवाच्यम् वदतः जिह्वा कथम् न पतिता तव ।
किम् स्वित् वीर्यम् तव अनार्य यः माम् भर्तुः असन्निधौ ॥ ५-५८-७१ ॥

अपहृत्य आगतः पाप तेन अदृष्टः महात्मना ।
न त्वम् रामस्य सदृशः दास्ये अपि अस्याः न युज्यसे ॥ ५-५८-७२ ॥

यज्ञीयः सत्य-वाक् च एव रण-श्लाघी च राघवः ।
जानक्याः परुषम् वाक्यम् एवम् उक्तः दश-आननः ॥ ५-५८-७३ ॥

जज्वाल सहसा कोपात् चिता-स्थः इव पावकः ।
विवृत्य नयने क्रूरे मुष्टिम् उद्यम्य दक्षिणम् ॥ ५-५८-७४ ॥

मैथिलीम् हन्तुम् आरब्धः स्त्रीभिः हाहा-कृतम् तदा ।
स्त्रीणाम् मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ॥ ५-५८-७५ ॥

वरा मन्दोदरी नाम तया सः प्रतिषेधितः ।
उक्तः च मधुराम् वाणीम् तया सः मदन-अर्दितः ॥ ५-५८-७६ ॥

सीतया तव किम् कार्यम् महा-इन्द्र-सम-विक्रम ।
देव-गन्धर्व-कन्याभिः यक्ष-कन्याभिः एव च ॥ ५-५८-७७ ॥

सार्धम् प्रभो रमस्व इह सीतया किम् करिष्यसि ।
ततः ताभिः समेताभिः नारीभिः सः महा-बलः ॥ ५-५८-७८ ॥

उत्थाप्य सहसा नीतः भवनम् स्वम् निशा-चरः ।
याते तस्मिन् दश-ग्रीवे राक्षस्यः विकृत-आननाः ॥ ५-५८-७९ ॥

सीताम् निर्भर्त्सयाम् आसुः वाक्यैः क्रूरैः सु-दारुणैः ।
तृणवत् भाषितम् तासाम् गणयामास जानकी ॥ ५-५८-८० ॥

तर्जितम् च तदा तासाम् सीताम् प्राप्य निरर्थकम् ।
वृथा-गर्जित-निश्चेष्टाः राक्षस्यः पिशित-अशनाः ॥ ५-५८-८१॥

रावणाय शशंसुः ताः सीता-अव्यवसितम् महत् ।
ततः ताः सहिताः सर्वाः विहत-आशाः निरुद्यमाः ॥ ५-५८-८२॥

परिक्षिप्य समन्तात् ताम् निद्रा-वशम् उपागताः ।
तासु च एव प्रसुप्तासु सीता भर्तृ-हिते रता ॥ ५-५८-८३॥

विलप्य करुणम् दीना प्रशुशोच सु-दुःखिता ।
तासाम् मध्यात् समुत्थाय त्रिजटा वाक्यम् अब्रवीत् ॥ ५-५८-८४॥

आत्मानम् खादत क्षिप्रम् न सीता विनशिष्यति ।
जनकस्य आत्मजा साध्वी स्नुषा दशरथस्य च ॥ ५-५८-८५॥

स्वप्नः हि अद्य मया दृष्टः दारुणः रोम-हर्षणः ।
रक्षसाम् च विनाशाय भर्तुः अस्याः जयाय च ॥ ५-५८-८६॥

अलम् अस्मात् परित्रातुम् राघवात् राक्षसी-गणम् ।
अभियाचाम वैदेहीम् एतत् हि मम रोचते ॥ ५-५८-८७॥

यस्याः हि एवम्-विधः स्वप्नः दुःखितायाः प्रदृश्यते ।
सा दुःखैः विविधैः मुक्ता सुखम् आप्नोति अनुत्तमम् ॥ ५-५८-८८॥

प्रणिपात-प्रसन्ना हि मैथिली जनक-आत्मजा ।
ततः सा ह्री-मती बाला भर्तुः विजय-हर्षिता ॥ ५-५८-८९॥

अवोचत् यदि तत् तथ्यम् भवेयम् शरणम् हि वः ।
ताम् च अहम् तादृशीम् दृष्ट्वा सीतायाः दारुणाम् दशाम् ।
चिन्तयामास विश्रान्तः न च मे निर्वृतम् मनः ॥ ५-५८-९०॥

सम्भाषण-अर्थे च मया जानक्याः चिन्तितः विधिः ॥ ५-५८-९१॥

इक्ष्वाकु-कुल-वंशः तु ततः मम पुरः कृतः ।
श्रुत्वा तु गदिताम् वाचम् राज-ऋषि-गण-पूजिताम् ॥ ५-५८-९२॥

प्रत्यभाषत माम् देवी बाष्पैः पिहित-लोचना ।
कः त्वम् केन कथम् च इह प्राप्तः वानर-पुङ्गव ॥ ५-५८-९३॥

का च रामेण ते प्रीतिः तत् मे शंसितुम् अर्हसि ।
तस्याः तत् वचनम् श्रुत्वा अहम् अपि अब्रुवम् वचः ॥ ५-५८-९४॥

देवि रामस्य भर्तुः ते सहायः भीम-विक्रमः ।
सुग्रीवः नाम विक्रान्तः वानर-इन्द्रः महा-बलः ॥ ५-५८-९५॥

तस्य माम् विद्धि भृत्यम् त्वम् हनूमन्तम् इह आगतम् ।
भर्त्रा अहम् प्रहितः तुभ्यम् रामेण अक्लिष्ट-कर्मणा ॥ ५-५८-९६॥

इदम् च पुरुष-व्याघ्रः श्रीमान् दाशरथिः स्वयम् ।
अङ्गुलीयम् अभिज्ञानम् अदात् तुभ्यम् यशस्विनि ॥ ५-५८-९७॥

तत् इच्छामि त्वया आज्ञप्तम् देवि किम् करवाणि अहम् ।
राम-लक्ष्मणयोः पार्श्वम् नयामि त्वाम् किम् उत्तरम् ॥ ५-५८-९८॥

एतत् श्रुत्वा विदित्वा च सीता जनक-नन्दिनी ।
आह रावणम् उत्साद्य राघवः माम् नयतु इति ॥ ५-५८-९९॥

प्रणम्य शिरसा देवीम् अहम् आर्याम् अनिन्दिताम् ।
राघवस्य मनः-ह्लादम् अभिज्ञानम् अयाचिषम् ॥ ५-५८-१००॥

अथ माम् अब्रवीत् सीता गृह्यताम् अयम् उत्तमः ।
मणिः येन महा-बाहुः रामः त्वाम् बहु-मन्यते ॥ ५-५८-१०१॥

एवम् उक्ता वर-आरोहा मणि-प्रवरम् उत्तमम् ।
प्रायच्छत् परम-उद्विग्ना वाचा माम् संदिदेश ह ॥ ५-५८-१०२॥

ततः तस्यै प्रणम्य अहम् राज-पुत्र्यै समाहितः ।
प्रदक्षिणम् परिक्रामम् इह अभ्युद्गत-मानसः ॥ ५-५८-१०३॥

उत्तरम् पुनः एव आह निश्चित्य मनसा तदा ।
हनूमन् मम वृत्त-अन्तम् वक्तुम् अर्हसि राघवे ॥ ५-५८-१०४॥

यथा श्रुत्वा एव न चिरात् तौ उभौ राम-लक्ष्मणौ ।
सुग्रीव-सहितौ वीरौ उपेयाताम् तथा कुरु ॥ ५-५८-१०५॥

यदि अन्यथा भवेत् एतत् द्वौ मासौ जीवितम् मम ।
न माम् द्रक्ष्यति काकुत्स्थः म्रिये अहम् अनाथवत् ॥ ५-५८-१०६॥

तत् श्रुत्वा करुणम् वाक्यम् क्रोधः माम् अभ्यवर्तत ।
उत्तरम् च मया दृष्टम् कार्य-शेषम् अनन्तरम् ॥ ५-५८-१०७॥

ततः अवर्धत मे कायः तदा पर्वत-सन्निभः ।
युद्ध-काङ्क्षी वनम् तत् च विनाशयितुम् आरभे ॥ ५-५८-१०८॥

तत् भग्नम् वन-षण्डम् तु भ्रान्त-त्रस्त-मृग-द्विजम् ।
प्रतिबुद्धाः निरीक्षन्ते राक्षस्यः विकृत-आननाः ॥ ५-५८-१०९॥

माम् च दृष्ट्वा वने तस्मिन् समागम्य ततः ततः ।
ताः समभ्यागताः क्षिप्रम् रावणाय आचचक्षिरे ॥ ५-५८-११०॥

राजन् वनम् इदम् दुर्गम् तव भग्नम् दुरात्मना ।
वानरेण हि अविज्ञाय तव वीर्यम् महा-बल ॥ ५-५८-१११॥

दुर्बुद्धेः तस्य राजेन्द्र तव विप्रिय-कारिणः ।
वधम् आज्ञापय क्षिप्रम् यथा असौ विलयम् व्रजेत् ॥ ५-५८-११२॥

तत् श्रुत्वा राक्षस-इन्द्रेण विसृष्टाः भृश-दुर्जयाः ।
राक्षसाः किङ्कराः नाम रावणस्य मनः-अनुगाः ॥ ५-५८-११३॥

तेषाम् अशीति-साहस्रम् शूल-मुद्गर-पाणिनाम् ।
मया तस्मिन् वन-उद्देशे परिघेण निषूदितम् ॥ ५-५८-११४॥

तेषाम् तु हत-शेषाः ये ते गताः लघु-विक्रमाः ।
निहतम् च मया सैन्यम् रावणाय आचचक्षिरे ॥ ५-५८-११५॥

ततः मे बुद्धिः उत्पन्ना चैत्य-प्रासादम् आक्रमम् ।
तत्र-स्थान् राक्षसान् हत्वा शतम् स्तम्भेन वै पुनः ॥ ५-५८-११६॥

ललाम-भूतः लङ्कायाः मया विध्वंसितः रुषा ।
ततः प्रहस्तस्य सुतम् जम्बु-मालिनम् आदिशत् ॥ ५-५८-११७॥

राक्षसैः बहुभिः सार्धम् घोर-रूपैः भयानकैः ।
तम् अहम् बल-संपन्नम् राक्षसम् रण-कोविदम् ॥ ५-५८-११८॥

परिघेण अति-घोरेण सूदयामि सह-अनुगम् ।
तत् श्रुत्वा राक्षस-इन्द्रः तु मन्त्रि-पुत्रान् महा-बलान् ॥ ५-५८-११९॥

पदाति-बल-संपन्नान् प्रेषयामास रावणः ।
परिघेण एव तान् सर्वान् नयामि यम-सादनम् ॥ ५-५८-१२०॥

मन्त्रि-पुत्रान् हतान् श्रुत्वा समरे लघु-विक्रमान् ।
पञ्च सेना-अग्र-गान् शूरान् प्रेषयामास रावणः ॥ ५-५८-१२१॥

तान् अहम् सह सैन्यान् वै सर्वान् एव अभ्यसूदयम् ।
ततः पुनः दश-ग्रीवः पुत्रम् अक्षम् महा-बलम् ॥ ५-५८-१२२॥

बहुभिः राक्षसैः सार्धम् प्रेषयामास रावणः ।
तम् तु मन्दोदरी-पुत्रम् कुमारम् रण-पण्डितम् ॥ ५-५८-१२३॥

सहसा खम् समुत्क्रान्तम् पादयोः च गृहीतवान् ।
चर्म-असिनम् शत-गुणम् भ्रामयित्वा व्यपेषयम् ॥ ५-५८-१२४॥

तम् अक्षम् आगतम् भग्नम् निशम्य सः दश-आननः ।
ततः इन्द्रजितम् नाम द्वितीयम् रावणः सुतम् ॥ ५-५८-१२५॥

व्यादिदेश सु-संक्रुद्धः बलिनम् युद्ध-दुर्मदम् ।
तस्य अपि अहम् बलम् सर्वम् तम् च राक्षस-पुङ्गवम् ॥ ५-५८-१२६॥

नष्ट-ओजसम् रणे कृत्वा परम् हर्षम् उपागमम् ।
महता हि महा-बाहुः प्रत्ययेन महा-बलः ॥ ५-५८-१२७॥

प्रेषितः रावणेन एषः सह वीरैः मद-उत्कटैः ।
सः अविषह्यम् हि माम् बुद्ध्वा स्वम् बलम् च अवमर्दितम् ।
ब्राह्मेण अस्त्रेण सः तु माम् प्रबध्नात् च अति-वेगतः ॥ ५-५८-१२८॥

रज्जूभिः अभिबध्नन्ति ततः माम् तत्र राक्षसाः ॥ ५-५८-१२९॥

रावणस्य समीपम् च गृहीत्वा माम् उपानयन् ।
दृष्ट्वा सम्भाषितः च अहम् रावणेन दुरात्मना ॥ ५-५८-१३०॥

पृष्टः च लङ्का-गमनम् राक्षसानाम् च तत् वधम् ।
तत् सर्वम् च मया तत्र सीता-अर्थम् इति जल्पितम् ॥ ५-५८-१३१॥

अस्य अहम् दर्शन-आकाङ्क्षी प्राप्तः त्वत् भवनम् विभो ।
मारुतस्य औरसः पुत्रः वानरः हनुमान् अहम् ॥ ५-५८-१३२॥

राम-दूतम् च माम् विद्धि सुग्रीव-सचिवम् कपिम् ।
सः अहम् दौत्येन रामस्य त्वत् समीपम् इह आगतः ॥ ५-५८-१३३॥

सुग्रीवः च महा-तेजाः सः त्वाम् कुशलम् अब्रवीत् ।
धर्म-अर्थ-काम-सहितम् हितम् पथ्यम् उवाच च ॥ ५-५८-१३४॥

वसतः ऋष्यमूके मे पर्वते विपुल-द्रुमे ।
राघवः रण-विक्रान्तः मित्रत्वम् समुपागतः ॥ ५-५८-१३५॥

तेन मे कथितम् राजन् भार्या मे रक्षसा हृता ।
तत्र साहाय्य-हेतोः मे समयम् कर्तुम् अर्हसि ॥ ५-५८-१३६॥

मया च कथितम् तस्मै वालिनः च वधम् प्रति ।
तत्र साहाय्य-हेतोः मे समयम् कर्तुम् अर्हसि ॥ ५-५८-१३७॥

वालिना हृत-राज्येन सुग्रीवेण सह प्रभुः ।
चक्रे अग्नि-साक्षिकम् सख्यम् राघवः सह लक्ष्मणः ॥ ५-५८-१३८॥

तेन वालिनम् उत्साद्य शरेण एकेन संयुगे ।
वानराणाम् महा-राजः कृतः सम्प्लवताम् प्रभुः ॥ ५-५८-१३९॥

तस्य साहाय्यम् अस्माभिः कार्यम् सर्व-आत्मना तु इह ।
तेन प्रस्थापितः तुभ्यम् समीपम् इह धर्मतः ॥ ५-५८-१४०॥

क्षिप्रम् आनीयताम् सीता दीयताम् राघवस्य च ।
यावत् न हरयः वीराः विधमन्ति बलम् तव ॥ ५-५८-१४१॥

वानराणाम् प्रभवः हि न केन विदितः पुरा ।
देवतानाम् सकाशम् च ये गच्छन्ति निमन्त्रिताः ॥ ५-५८-१४२॥

इति वानर-राजः त्वाम् आह इति अभिहितः मया ।
माम् ऐक्षत ततः रुष्टः चक्षुषा प्रदहन् इव ॥ ५-५८-१४३॥

तेन वध्यः अहम् आज्ञप्तः राक्षसेन रौद्र-कर्मणा ।
मत्-प्रभावम् अविज्ञाय रावणेन दुरात्मना ॥ ५-५८-१४४॥

ततः विभीषणः नाम तस्य भ्राता महा-मतिः ।
तेन राक्षस-राजः असौ याचितः मम कारणात् ॥ ५-५८-१४५॥

न एवम् राक्षस-शार्दूल त्यज्यताम् एषः निश्चयः ।
राज-शास्त्र-व्यपेतः हि मार्गः संसेव्यते त्वया ॥ ५-५८-१४६॥

दूतः वध्यः न दृष्टः हि राज-शास्त्रेषु राक्षस ।
दूतेन वेदितव्यम् च यथा-अर्थम् हित-वादिना ॥ ५-५८-१४७॥

सु-महति अपराधे अपि दूतस्य अतुल-विक्रम ।
विरूप-करणम् दृष्टम् न वधः अस्ति इह शास्त्रतः ॥ ५-५८-१४८॥

विभीषणेन एवम् उक्तः रावणः संदिदेश तान् ।
राक्षसान् एतत् एव अद्य लाङ्गूलम् दह्यताम् इति ॥ ५-५८-१४९॥

ततः तस्य वचः श्रुत्वा मम पुच्छम् समन्ततः ।
वेष्टितम् शण-वल्कलैः च पटैः कार्पासकैः तथा ॥ ५-५८-१५०॥

राक्षसाः सिद्ध-सन्नाहाः ततः ते चण्ड-विक्रमाः ।
तत् आदीपयन् मे पुच्छम् हनन्तः काष्ठ-मुष्टिभिः ॥ ५-५८-१५१॥

बद्धस्य बहुभिः पाशैः यन्त्रितस्य च राक्षसैः ।
ततः ते राक्षसाः शूराः बद्धम् माम् अग्नि-संवृतम् ॥ ५-५८-१५२॥

अघोषयन् राज-मार्गे नगर-द्वारम् आगताः ।
ततः अहम् सु-महत् रूपम् संक्षिप्य पुनः आत्मनः ॥ ५-५८-१५३॥

विमोचयित्वा तम् बन्धम् प्रकृति-स्थः स्थितः पुनः ।
आयसम् परिघम् गृह्य तानि रक्षांसि असूदयम् ॥ ५-५८-१५४॥

ततः तत् नगर-द्वारम् वेगेन आप्लुतवान् अहम् ।
पुच्छेन च प्रदीप्तेन ताम् पुरीम् स-अट्ट-गोपुराम् ॥ ५-५८-१५५॥

दहामि अहम् असम्भ्रान्तः युग-अन्त-अग्निः इव प्रजाः ।
विनष्टा जानकी व्यक्तम् न हि अदग्धः प्रदृश्यते ॥ ५-५८-१५६॥

लङ्कायाम् कश्चित् उद्देशः सर्वा भस्मी-कृता पुरी ।
दहता च मया लङ्काम् दग्धा सीता न संशयः ॥ ५-५८-१५७॥

रामस्य हि महत् कार्यम् मया इदम् वितथी-कृतम् ।
इति शोक-समाविष्टः चिन्ताम् अहम् उपागतः ॥ ५-५८-१५८॥

अथ अहम् वाचम् अश्रौषम् चारणानाम् शुभ-अक्षराम् ।
जानकी न च दग्धा इति विस्मय-उदन्त-भाषिणाम् ॥ ५-५८-१५९॥

ततः मे बुद्धिः उत्पन्ना श्रुत्वा ताम् अद्भुताम् गिरम् ।
अदग्धा जानकी इति एवम् निमित्तैः च उपलक्षिता ॥ ५-५८-१६०॥

दीप्यमाने तु लाङ्गूले न माम् दहति पावकः ।
हृदयम् च प्रहृष्टम् मे वाताः सुरभि-गन्धिनः ॥ ५-५८-१६१॥

तैः निमित्तैः च दृष्ट-अर्थैः कारणैः च महा-गुणैः ।
ऋषि-वाक्यैः च सिद्ध-अर्थैः अभवम् हृष्ट-मानसः ॥ ५-५८-१६२॥

पुनः दृष्टा च वैदेही विसृष्टः च तया पुनः ।
ततः पर्वतम् आसाद्य तत्र अरिष्टम् अहम् पुनः ॥ ५-५८-१६३॥

प्रतिप्लवनम् आरेभे युष्मत्-दर्शन-काङ्क्षया ।
ततः पवन-चन्द्र-अर्क-सिद्ध-गन्धर्व-सेवितम् ॥ ५-५८-१६४॥

पन्थानम् अहम् आक्रम्य भवतः दृष्टवान् इह ।
राघवस्य प्रभावेन भवताम् च एव तेजसा ॥ ५-५८-१६५॥

सुग्रीवस्य च कार्य-अर्थम् मया सर्वम् अनुष्ठितम् ।
एतत् सर्वम् मया तत्र यथा-वत् उपपादितम् ॥ ५-५८-१६६॥

अत्र यत् न कृतम् शेषम् तत् सर्वम् क्रियताम् इति ॥

इति आर्षे श्रीमत्-रामायणे आदि-काव्ये सुन्दर-काण्डे अष्ट-पञ्चाशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 57 - சமுத்திரத்தைக் கடந்து வந்து, சீதையைக் கண்டுபிடித்த செய்தியை வானரர்களிடம் தெரிவிக்கிறார்.

HOME          PREVIOUS               NEXT

स-चन्द्र-कुमुदं रम्यं स-अर्क-कारण्डवं शुभम् ।
तिष्य-श्रवण-कादम्बम् अभ्र-शैवल-शाद्वलम् ॥ ५-५७-१ ॥

पुनर्वसु-महा-मीनं लोहित-अङ्ग-महा-ग्रहम् ।
ऐरावत-महा-द्वीपं स्वाति-हंस-विलोलितम् ॥ ५-५७-२ ॥

वात-सङ्घात-जात-ऊर्मिं चन्द्र-अंशु-शिशिर-अम्बुमत् ।
भुजङ्ग-यक्ष-गन्धर्व-प्रबुद्ध-कमल-उत्पलम् ॥ ५-५७-३ ॥

हनुमान् मारुत-गतिः महा-नौः इव सागरम् ।
अपारम् अपरिश्रान्तः पुप्लुवे गगन-अर्णवम् ॥ ५-५७-४ ॥

ग्रसमानः इव आकाशं तारा-अधिपम् इव उल्लिखन् ।
हरन् इव स-नक्षत्रं गगनं स-अर्क-मण्डलम् ॥ ५-५७-५ ॥

मारुतस्य आत्मजः श्रीमान् कपिः व्योम-चरः महान् ।
हनुमान् मेघ-जालानि विकर्षन् इव गच्छति ॥ ५-५७-६ ॥

पाण्डुर-अरुण-वर्णानि नील-माञ्जिष्ठकानि च ।
हरित-अरुण-वर्णानि महा-अभ्राणि चकाशिरे ॥ ५-५७-७ ॥

प्रविशन् अभ्र-जालानि निष्क्रमन् च पुनः पुनः ।
प्रच्छन्नः च प्रकाशितः चन्द्रमाः इव लक्ष्यते ॥ ५-५७-८ ॥

विविध-अभ्र-घन-आसन्न-गोचरः धवल-अम्बरः ।
दृश्य-अदृश्य-तनुः वीरः तदा चन्द्रायते अम्बरे ॥ ५-५७-९ ॥

तार्क्ष्यायमाणः गगने बभासे वायु-नन्दनः ।
दारयन् मेघ-बृन्दानि निष्पतन् च पुनः पुनः ॥ ५-५७-१० ॥

नदन् नादेन महता मेघ-स्वन-महा-स्वनः ।
प्रवरान् राक्षसान् हत्वा नाम विश्राव्य च आत्मनः ॥ ५-५७-११ ॥

आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।
अर्दयित्वा बलं घोरं वैदेहीम् अभिवाद्य च ॥ ५-५७-१२ ॥

आजगाम महा-तेजाः पुनः मध्येन सागरम् ।
पर्वत-इन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ॥ ५-५७-१३ ॥

ज्या-मुक्तः इव नाराचः महा-वेगः अभ्युपागतः ।
सः किंचित् अनु-सम्प्राप्तः समालोक्य महा-गिरिम् ॥ ५-५७-१४ ॥

महा-इन्द्र-मेघ-सङ्काशं ननाद हरि-पुङ्गवः ।
सः पूरयामास कपिः दिशः दश समन्ततः ॥ ५-५७-१५ ॥

नदन् एव महता मेघ-स्वन-महा-स्वनः ।
सः तं देशम् अनुप्राप्तः सुहृत्-दर्शन-लालसः ॥ ५-५७-१६ ॥

ननाद हरि-शार्दूलः लाङ्गूलं च अपि अकम्पयत् ।
तस्य नानद्यमानस्य सुपर्ण-चरिते पथि ॥ ५-५७-१७ ॥

फलती इव अस्य घोषेण गगनं स-अर्क-मण्डलम् ।
ये तु तत्र उत्तरे तीरे समुद्रस्य महा-बलाः ॥ ५-५७-१८ ॥

पूर्वं संविष्टाः शूराः वायु-पुत्र-दिदृक्षवः ।
महतः वात-नुन्नस्य तोयदस्य इव गर्जितम् ॥ ५-५७-१९ ॥

शुश्रुवुः ते तदा घोषम् उरु-वेगं हनूमतः ।
ते दीन-मनसः सर्वे शुश्रुवुः कानन-ओकसः ॥ ५-५७-२० ॥

वानर-इन्द्रस्य निर्घोषं पर्जन्य-निनद-उपमम् ।
निशम्य नदतः नादं वानराः ते समन्ततः ॥ ५-५७-२१ ॥

बभूवुः उत्सुकाः सर्वे सुहृत्-दर्शन-काङ्क्षिणः ।
जाम्बवान् सः हरि-श्रेष्ठः प्रीति-संहृष्ट-मानसः ॥ ५-५७-२२ ॥

उपामन्त्र्य हरीन् सर्वान् इदं वचनम् अब्रवीत् ।
सर्वथा कृत-कार्यः असौ हनुमान् न अत्र संशयः ॥ ५-५७-२३ ॥

न हि अस्य अकृत-कार्यस्य नादः एवं-विधः भवेत् ।
तस्य बाहु-ऊरु-वेगं च निनादं च महा-आत्मनः ॥ ५-५७-२४ ॥

निशम्य हरयः हृष्टाः समुत्पेतुः ततः ततः ।
ते नग-अग्रात् नग-अग्राणि शिखरात् शिखराणि च ॥ ५-५७-२५ ॥

प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ।
ते प्रीताः पादप-अग्रेषु गृहीत्वा शाखाः सु-पुष्पिताः ॥ ५-५७-२६ ॥

वासांसि इव प्रकाशानि समाविध्यन्त वानराः ।
गिरि-गह्वर-संलीनः यथा गर्जति मारुतः ॥ ५-५७-२७ ॥

एवं जगर्ज बलवान् हनुमान् मारुत-आत्मजः ।
तम् अभ्र-घन-सङ्काशम् आपतन्तं महा-कपिम् ॥ ५-५७-२८ ॥

दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयः तदा ।
ततः तु वेगवान् तस्य गिरेः गिरि-निभः कपिः ॥ ५-५७-२९ ॥

निपपात महा-इन्द्रस्य शिखरे पादप-आकुले ।
हर्षेण आपूर्यमाणः असौ रम्ये पर्वत-निर्झरे ॥ ५-५७-३० ॥

छिन्न-पक्षः इव आकाशात् पपात धरणी-धरः ।
ततः ते प्रीत-मनसः सर्वे वानर-पुङ्गवाः ॥ ५-५७-३१ ॥

हनूमन्तं महा-आत्मानं परिवार्य उपतस्थिरे ।
परिवार्य च ते सर्वे परां प्रीतिम् उपागताः ॥ ५-५७-३२ ॥

प्रहृष्ट-वदनाः सर्वे तम् अरोगम् उपागतम् ।
उपायनानि च आदाय मूलानि च फलानि च ॥ ५-५७-३३ ॥

प्रत्यर्चयन् हरि-श्रेष्ठं हरयः मारुत-आत्मजम् ।
हनुमान् तु गुरून् वृद्धान् जाम्बवत्-प्रमुखान् तदा ॥ ५-५७-३४ ॥

कुमारम् अङ्गदं च एव सः अवन्दत महा-कपिः ।
सः ताभ्याम् पूजितः पूज्यः कपिभिः च प्रसादितः ॥ ५-५७-३५ ॥

दृष्टा देवी इति विक्रान्तः संक्षेपेण न्यवेदयत् ।
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ॥ ५-५७-३६ ॥

रमणीये वन-उद्देशे महा-इन्द्रस्य गिरेः तदा ।
हनुमान् अब्रवीत् हृष्टः तदा तान् वानर-ऋषभान् ॥ ५-५७-३७ ॥

अशोक-वनिका-संस्था दृष्टा सा जनक-आत्मजा ।
रक्ष्यमाणा सु-घोराभिः राक्षसीभिः अनिन्दिता ॥ ५-५७-३८ ॥

एक-वेणी-धरा बाला राम-दर्शन-लालसा ।
उपवास-परिश्रान्ता मलिना जटिला कृशा ॥ ५-५७-३९ ॥

ततः दृष्टा इति वचनं महा-अर्थम् अमृत-उपमम् ।

निशम्य मारुतेः सर्वे मुदिताः वानराः अभवन् ॥ ५-५७-४० ॥

क्ष्वेडन्ति अन्ये नदन्ति अन्ये गर्जन्ति अन्ये महा-बलाः ।
चक्रुः किल-किलाम् अन्ये प्रति-गर्जन्ति च अपरे ॥ ५-५७-४१ ॥

केचित् उच्छ्रित-लाङ्गूलाः प्रहृष्टाः कपि-कुञ्जराः ।
अञ्चित-आयत-दीर्घाणि लाङ्गूलानि प्रविव्यधुः ॥ ५-५७-४२ ॥

अपरे तु हनूमन्तं वानराः वारण-उपमम् ।
आप्लुत्य गिरि-शृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ॥ ५-५७-४३ ॥

उक्त-वाक्यं हनूमन्तम् अङ्गदः तु तदा अब्रवीत् ।
सर्वेषां हरि-वीराणां मध्ये वाचम् अनुत्तमाम् ॥ ५-५७-४४ ॥

सत्त्वे वीर्ये न ते कश्चित् समः वानरः विद्यते ।
यत् अवप्लुत्य विस्तीर्णं सागरं पुनः आगतः ॥ ५-५७-४५ ॥

अहो स्वामिनि ते भक्तिः अहो वीर्यम् अहो धृतिः ।
दिष्ट्या दृष्टा त्वया देवी राम-पत्नी यशस्विनी ॥ ५-५७-४६ ॥

दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता-वियोग-जम् ।
ततः अङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ॥ ५-५७-४७ ॥

परिवार्य प्रमुदिताः भेजिरे विपुलाः शिलाः ।
श्रोतु-कामाः समुद्रस्य लङ्घनं वानर-उत्तमाः ॥ ५-५७-४८ ॥

दर्शनं च अपि लङ्कायाः सीतायाः रावणस्य च ।
तस्थुः प्राञ्जलयः सर्वे हनूमत्-वदन-उन्मुखाः ॥ ५-५७-४९ ॥

तस्थौ तत्र अङ्गदः श्रीमान् वानरैः बहुभिः वृतः ।
उपास्यमानः विबुधैः दिवि देव-पतिः यथा ॥ ५-५७-५० ॥

हनूमता कीर्तिमता यशस्विना ।
तथा अङ्गदेन अङ्गद-बद्ध-बाहुना ।
मुदा तदा अध्यासितम् उन्नतं महत् ।
मही-धर-अग्रं ज्वलितं श्रिया अभवत् ॥ ५-५७-५१ ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे सप्त-पञ्चाशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 56 - சீதையிடம் விடைபெற்று, அரிஷ்ட மலையிலிருந்து விண்ணில் பாய்கிறார்.


HOME          PREVIOUS               NEXT

ततः तु शिंशुपा-मूले जानकीं परि-उपस्थिताम् ।
अभिवाद्य अब्रवीत् दिष्ट्या पश्यामि त्वाम् इह अक्षताम् ॥ 1 ॥

ततः तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृ-स्नेह-अन्वितं वाक्यं हनूमन्तम् अभाषत ॥ 2 ॥

कामम् अस्य त्वम् एव एकः कार्यस्य परि-साधने ।
पर्याप्तः पर-वीर-घ्न यशस्यः ते बल-उदयः ॥ 3 ॥

शरैः तु संकुलां कृत्वा लङ्कां पर-बल-अर्दनः ।
मां नयेत् यदि काकुत्स्थः तत् तस्य सदृशं भवेत् ॥ 4 ॥

तत् यथा तस्य विक्रान्तम् अनु-रूपं महा-आत्मनः ।
भवति आहव-शूरस्य तथा त्वम् उपपादय ॥ 5 ॥

तत्-अर्थ-उपहितं वाक्यं प्रश्रितं हेतु-संहितम् ।
निशम्य हनुमान् तस्याः वाक्यम् उत्तरम् अब्रवीत् ॥ 6 ॥

क्षिप्रम् एष्यति काकुत्स्थः हरि-ऋक्ष-प्रवरैः वृतः ।
यः ते युधि विजित्य अरीन् शोकं व्यपनयिष्यति ॥ 7 ॥

एवम् आश्वास्य वैदेहीं हनुमान् मारुत-आत्मजः ।
गमनाय मतिं कृत्वा वैदेहीम् अभ्यवादयत् ॥ 8 ॥

ततः सः कपि-शार्दूलः स्वामि-सन्दर्शन-उत्सुकः ।
आरुरोह गिरि-श्रेष्ठम् अरिष्टम् अरि-मर्दनः ॥ 9 ॥

तुङ्ग-पद्मक-जुष्टाभिः नीलाभिः वन-राजिभिः ।
स-उत्तरीयम् इव अम्भोदैः शृङ्ग-अन्तर-विलम्बिभिः ॥ 10 ॥

बोध्यमानम् इव प्रीत्या दिवाकर-करैः शुभैः ।
उन्मिषन्तम् इव उद्धूतैः लोचनैः इव धातुभिः ॥ 11 ॥

तोय-ओघ-निःस्वनैः मन्द्रैः प्राधीतम् इव पर्वतम् ।
प्रगीतम् इव विस्पष्टैः नाना-प्रस्रवण-स्वनैः ॥ 12 ॥

देवदारुभिः अति-उच्चैः ऊर्ध्व-बाहुम् इव स्थितम् ।
प्रपात-जल-निर्घोषैः प्राक्रुष्टम् इव सर्वतः ॥ 13 ॥

वेपमानम् इव श्यामैः कम्पमानैः शरद्-वनैः ।
वेणुभिः मारुत-उद्धूतैः कूजन्तम् इव कीचकौः ॥ 14 ॥

निःश्वसन्तम् इव अमर्षात् घोरैः आशी-विष-उत्तमैः ।
नीहार-कृत-गम्भीरैः ध्यायन्तम् इव गह्वरैः ॥ 15 ॥

मेघ-पाद-निभैः पादैः प्रक्रान्तम् इव सर्वतः ।
जृम्भमाणम् इव आकाशे शिखरैः अभ्र-मालिभिः ॥ 16 ॥

कूटैः च बहुधा कीर्णैः शोभितं बहु-कन्दरैः ।
साल-ताल-अश्वकर्णैः च वंशैः च बहुभिः वृतम् ॥ 17 ॥

लता-वितानैः विततैः पुष्प-वद्भिः अलंकृतम् ।
नाना-मृग-गण-आकीर्णं धातु-निष्यन्द-भूषितम् ॥ 18 ॥

बहु-प्रस्रवण-उपेतं शिला-संचय-संकटम् ।
महा-ऋषि-यक्ष-गन्धर्व-किन्नर-उरग-सेवितम् ॥ 19 ॥

लता-पादप-संघातं सिंह-अध्युषित-कन्दरम् ।
व्याघ्र-संघ-समाकीर्णं स्वादु-मूल-फल-द्रुमम् ॥ 20 ॥

तं आरुरोह हनुमान् पर्वतं पवन-आत्मजः । राम-दर्शन-शीघ्रेण प्रहर्षेण अभिचोदितः ॥ 21 ॥

तेन पाद-तल-आक्रान्ताः रम्येषु गिरि-सानुषु । स-घोषाः समशीर्यन्त शिलाः चूर्णी-कृताः ततः ॥ 22 ॥

सः तम् आरुह्य शैल-इन्द्रं व्यवर्धत महा-कपिः । दक्षिणात् उत्तरं पारं प्रार्थयन् लवण-अम्भसः ॥ 23 ॥

अधिरुह्य ततः वीरः पर्वतं पवन-आत्मजः । ददर्श सागरं भीमं मीन-उरग-निषेवितम् ॥ 24 ॥

सः मारुतः इव आकाशं मारुतस्य आत्म-सम्भवः । प्रपेदे हरि-शार्दूलः दक्षिणात् उत्तरां दिशम् ॥ 25 ॥

सः तदा पीडितः तेन कपिना पर्वत-उत्तमः । ररास सह तैः भूतैः प्रविशन् वसुधा-तलम् ॥ 26 ॥

कम्पमानैः च शिखरैः पतद्भिः अपि च द्रुमैः । तस्य उरु-वेग-उन्मथिताः पादपाः पुष्प-शालिनः ॥ 27 ॥

निपेतुः भूतले रुग्णाः शक्र-आयुध-हताः इव । कन्दर-अन्तर-संस्थानां पीडितानां महा-ओजसाम् ॥ 28 ॥

सिंहानां निनदः भीमः नभः भिन्दन् सः शुश्रुवे । त्रस्त-व्यावृत्त-वसनाः व्याकुली-कृत-भूषणाः ॥ 29 ॥

विद्याधर्यः समुत्पेतुः सहसा धरणी-धरात् । अति-प्रमाणाः बलिनः दीप्त-जिह्वाः महा-विषाः ॥ 30 ॥

निपीडित-शिरः-ग्रीवाः व्यचेष्टन्त महा-अहयः । किन्नर-उरग-गन्धर्व-यक्ष-विद्याधराः तदा ॥ 31 ॥

पीडितं तं नग-वरं त्यक्त्वा गगनम् आस्थिताः । सः च भूमि-धरः श्रीमान् बलिना तेन पीडितः ॥ 32 ॥

स-वृक्ष-शिखर-उदग्रः प्रविवेश रसातलम् । दश-योजन-विस्तारः त्रिंशत्-योजनम् उच्छ्रितः ॥ 33 ॥

धरण्यां समतां यातः सः बभूव धरा-धरः । सः लिलङ्घयिषुः भीमं स-लीलं लवण-अर्णवम् ॥ 34 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे षट्-पञ्चाशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 55 - தீ சீதையையும் சூழ்ந்திருக்குமோ என்று கவலைப்படுகிறார்; பின்னர் சீதை பாதுகாப்பாக இருப்பதாக சாரணர்கள் கூறுவதைக் கேட்டு நிம்மதியடைகிறார்.

HOME          PREVIOUS               NEXT

लङ्कां समस्तां सन्दीप्य लाङ्गूल-अग्निं महा-बलः ।
निर्वापयामास तदा समुद्रे हरि-सत्तमः ।
सन्दीप्यमानां विध्वस्तां त्रस्त-रक्षः-गणां पुरीम् ।
आवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः ॥ 1 ॥

तस्य अभूत् सु-महान् त्रासः कुत्सा च आत्मनि अजायत ।
लङ्कां प्रदहता कर्म किम् स्वित् कृतम् इदं मया ॥ 2 ॥

धन्याः ते पुरुष-श्रेष्ठाः ये बुद्ध्या कोपम् उत्थितम् ।
निरुन्धन्ति महा-आत्मानः दीप्तम् अग्निम् इव अम्भसा ॥ 3 ॥

क्रुद्धः पापं न कुर्यात् कः क्रुद्धः हन्यात् गुरून् अपि ।
क्रुद्धः परुषया वाचा नरः साधून् अधिक्षिपेत् ॥ 4 ॥

वाच्य-अवाच्यं प्रकुपितः न विजानाति कर्हिचित् ।
न अकार्यं अस्ति क्रुद्धस्य न अवाच्यं विद्यते क्वचित् ॥ 5 ॥

यः समुत्पतितं क्रोधं क्षमया एव निरस्यति ।
यथा उरगः त्वचं जीर्णां सः वै पुरुषः उच्यते ॥ 6 ॥

धिक् अस्तु मां सु-दुर्बुद्धिं निर्लज्जं पाप-कृत्तमम् ।
अचिन्तयित्वा तां सीताम् अग्नि-दं स्वामि-घातुकम् ॥ 7 ॥

यदि दग्धा तु इयं लङ्का नूनम् आर्या अपि जानकी ।
दग्धा तेन मया भर्तुः हितं कार्यम् अजानता ॥ 8 ॥

यत्-अर्थम् अयम् आरम्भः तत् कार्यम् अवसादितम् ।
मया हि दहता लङ्कां न सीता परिरक्षिता ॥ 9 ॥

ईषत् कार्यम् इदं कार्यं कृतम् आसीत् न संशयः ।
तस्य क्रोध-अभिभूतेन मया मूल-क्षयः कृतः ॥ 10 ॥

विनष्टा जानकी नूनं न हि अदग्धः प्रदृश्यते ।
लङ्कायां कश्चित् उद्देशः सर्वा भस्मी-कृता पुरी ॥ 11 ॥

यदि तत् विहतं कार्यं मम प्रज्ञा-विपर्ययात् ।
इह एव प्राण-संन्यासः मम अपि हि अद्य रोचते ॥ 12 ॥

किम् अग्नौ निपतामि अद्य आहो स्वित् बडबा-मुखे ।
शरीरम् आहो सत्त्वानां दद्मि सागर-वासिनाम् ॥ 13 ॥

कथं हि जीवता शक्यः मया द्रष्टुं हरि-ईश्वरः ।
तौ वा पुरुष-शार्दूलौ कार्य-सर्वस्व-घातिना ॥ 14 ॥

मया खलु तत् एव इदं रोष-दोषात् प्रदर्शितम् ।
प्रथितं त्रिषु लोकेषु कपित्वम् अनवस्थितम् ॥ 15 ॥

धिक् अस्तु राजसं भावम् अनीशम् अनवस्थितम् ।
ईश्वरेण अपि यत् रागात् मया सीता न रक्षिता ॥ 16 ॥

विनष्टायां तु सीतायां तौ उभौ विनशिष्यतः ।
तयोः विनाशे सुग्रीवः स-बन्धुः विनशिष्यति ॥ 17 ॥

एतत् एव वचः श्रुत्वा भरतः भ्रातृ-वत्सलः ।
धर्म-आत्मा सह-शत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ 18 ॥

इक्ष्वाकु-वंशे धर्मिष्ठे गते नाशम् असंशयम् ।
भविष्यन्ति प्रजाः सर्वाः शोक-सन्ताप-पीडिताः ॥ 19 ॥

तत् अहं भाग्य-रहितः लुप्त-धर्म-अर्थ-संग्रहः ॥ 20 ॥

रोष-दोष-परीत-आत्मा व्यक्तं लोक-विनाशनः ।
इति चिन्तयतः तस्य निमित्तानि उपपेदिरे ।
पूर्वम् अपि उपलब्धानि साक्षात् पुनः अचिन्तयत् ॥ 21 ॥

अथवा चारु-सर्व-अङ्गी रक्षिता स्वेन तेजसा ।
न नशिष्यति कल्याणी न अग्निः अग्नौ प्रवर्तते ॥ 22 ॥

न हि धर्म-आत्मनः तस्य भार्याम् अमित-तेजसः ।
स्व-चारित्र-अभिगुप्तां तां स्प्रष्टुम् अर्हति पावकः ॥ 23 ॥

नूनं राम-प्रभावेण वैदेह्याः सु-कृतेन च ।
यत् मां दहन-कर्मा अयं न अदहत् हव्य-वाहनः ॥ 24 ॥

त्रयाणां भरत-आदीनां भ्रातॄणां देवता च या ।
रामस्य च मनः-कान्ता सा कथं विनशिष्यति ॥ 25 ॥

यत् वा दहन-कर्मा अयं सर्वत्र प्रभुः अव्ययः ।
न मे दहति लाङ्गूलं कथम् आर्यां प्रधक्ष्यति ॥ 26 ॥

पुनः च अचिन्तयत् तत्र हनुमान् विस्मितः तदा ।
हिरण्य-नाभस्य गिरेः जल-मध्ये प्रदर्शनम् ॥ 27 ॥

तपसा सत्य-वाक्येन अनन्यत्वात् च भर्तरि ।
अपि सा निर्दहेत् अग्निं न ताम् अग्निः प्रधक्ष्यति ॥ 28 ॥

सः तथा चिन्तयन् तत्र देव्याः धर्म-परिग्रहम् ।
शुश्राव हनुमान् वाक्यं चारणानां महा-आत्मनाम् ॥ 29 ॥

अहो खलु कृतं कर्म दुष्करं हि हनूमता ।
अग्निं विसृजता अभीक्ष्णं भीमं राक्षस-वेश्मनि ॥ 30 ॥

प्रपलायित-रक्षः-स्त्री-बाल-वृद्ध-समाकुला ।
जन-कोलाहल-आध्माता क्रन्दन्ती इव अद्रि-कन्दरैः ॥ 31 ॥

दग्धा इयं नगरी सर्वा स-अट्ट-प्राकार-तोरणा ।
जानकी न च दग्धा इति विस्मयः अद्भुतः एव नः ॥ 32 ॥

सः निमित्तैः च दृष्ट-अर्थैः कारणैः च महा-गुणैः ।
ऋषि-वाक्यैः च हनुमान् अभवत् प्रीत-मानसः ॥ 33 ॥

ततः कपिः प्राप्त-मनोरथ-अर्थः ताम् अक्षतां राज-सुतां विदित्वा ।
प्रत्यक्षतः तां पुनः एव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥ 34 ॥

इति आर्षे श्रीमत्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे पञ्च-पञ्चाशः सर्गः ॥

HOME          PREVIOUS               NEXT