Followers

Search Here...

Saturday, 17 May 2025

ஸ்கந்தம் 10: அத்யாயம் 67 (நரகாசுரன் நண்பன் த்விவிதன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 நரகாசுரன் நண்பன்

த்விவிதன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 67

श्री राजा उवाच
भुयः अहम् श्रोतुम् इच्छामि रामस्य अद्भुत कर्मणः।
अनन्तस्य अप्रमेयस्य यत् अन्यत् कृतवान् प्रभुः ॥1॥

श्री शुक उवाच
नरकस्य सखा कश्चित् द्विविदः नाम वानरः।
सुग्रीव सचिवः सः अथ भ्राता मैन्दस्य वीर्यवान् ॥2॥

सख्युः सः अपचितिम् कुर्वन् वानरः राष्ट्र विप्लवम्।
पुर ग्राम अकरान् घोषान् अदहद् वह्निम् उत्सृजन् ॥3॥

क्वचित् सः शैलान् उत्पाट्य तैः देशान् समचूर्णयत्।
आनर्तान् सुतराम् एव यत्र आस्ते मित्रहा हरिः ॥4॥

क्वचित् समुद्र मध्यस्थः दोर्भ्याम् उत्क्षिप्य तत् जलम्।
देशान् नाग आयुत प्राणः वेला कूलान् अमज्जयत् ॥5॥

आश्रमान् ऋषि मुख्यानाम् कृत्वा भग्न वनस्पतीन्।
अदूषयत् शकृत् मूत्रैः अग्नीन् वैतानिकान् खलः ॥6॥

पुरुषान् योषितः दृप्तः क्ष्मा-भृत् द्रोणी गुहासु सः।
निक्षिप्य च अपि अधात् शैलैः पेशस्क- कास्कारी इव कीटकम् ॥7॥

एवम् देशान् विप्रकुर्वन् दूषयन् च कुल स्त्रियः।
श्रुत्वा सुललितम् गीतम् गिरिम् रैवतकं ययौ ॥8॥

तत्र अपश्यत् यदुपतिं रामं पुष्कर मालिनम्।
सुदर्शनीय सर्वाङ्गम् ललना यूथ मध्यगम् ॥9॥

गायन्तम् वारुणीं पीत्वा मद विह्वल लोचनम्।
विभ्राजमानम् वपुषा प्रभिन्नम् इव वारणम् ॥10॥

दुष्टः शाखा मृगः शाखा-आरूढः कम्पयन् द्रुमान्।
चक्रे किलकिला शब्दम् आत्मानम् संप्रदर्शयन् ॥11॥

तस्य धार्ष्ट्यम् कपेः वीक्ष्य तरुण्यः जाति चापलाः।
हास्य प्रियाः विजहसुः बलदेव परिग्रहाः ॥12॥

ताः हेलयामास कपिः भ्रू-क्षेपैः सम्मुख आदि भिः।
दर्शयन् स्व-गुदम् तासाम् रामस्य च निरीक्षितः ॥13॥

तम् ग्राव्णा प्राहरत् क्रुद्धः बलः प्रहरताम् वरः।
सः वञ्चयित्वा ग्रावाणम् मदिरा कलशं कपिः ॥14॥

गृहीत्वा हेलयामास धूर्तः तम् कोपयन् हसन्।
निर्भिद्य कलशं दुष्टः वासांसि आस्फालयत् बलम् ॥15॥

कदर्थीकृत्य बलवान् विप्रचक्रे मद उद्धतः।
तम् तस्य अविनयम् दृष्ट्वा देशान् च तत् उपद्रुतान् ॥16॥

क्रुद्धः मुसलम् आदत्त हलं च अरि-जिघांसया।
द्विविदः अपि महा-वीर्यः शालम् उद्यम्य पाणिना ॥17॥

अभ्येत्य तरसा तेन बलम् मूर्ध्नि अताडयत्।
तम् तु सङ्कर्षणः मूर्ध्नि पतन्तम् अचलः यथा ॥18॥

प्रतिजग्राह बलवान् सु-नन्देन आहनत् च तम्।
मुसल-आहत मस्तिष्कः विरेजे रक्त-धारया ॥19॥

गिरिः यथा गैरिकया प्रहारं न अनुचिन्तयन्।
पुनः अन्यं समुत्क्षिप्य कृत्वा निष्पत्रम् ओजसा ॥20॥

तेन आहनत् सुसङ्क्रुद्धः तम् बलः शतधा अच्छिनत्।
ततः अन्येन रुषा जघ्ने तम् च अपि शतधा अच्छिनत्॥ 21

एवम् युध्यन् भगवता भग्ने भग्ने पुनः पुनः।
आकृष्य सर्वतः वृक्षान् निर्वृक्षम् अकरोत् वनम्॥ 22

ततः अमुञ्चत् शिला वर्षम् बलस्य उपरि अमर्षितः।
तत् सर्वम् चूर्णयामास लीलया मुसल आयुधः॥ 23

सः बाहू ताल सङ्काशौ मुष्टी कृत्वा कपीश्वरः।
आसाद्य रोहिणी पुत्रम् ताभ्याम् वक्षसि अरूरुजत्॥ 24

यादव इन्द्रः अपि तम् दोर्भ्याम् त्यक्त्वा मुसल लाङ्गले।
जत्रौ अभ्यर्दयत् क्रुद्धः सः अपतत् रुधिरम् वमन्॥ 25

चकम्पे तेन पतता सटङ्कः स-व-वनस्पतिः।
पर्वतः कुरु शार्दूल वायुना नौः इव अम्भसि॥ 26

जय शब्दः नमः शब्दः साधु साधु इति च अम्बरे।
सुर सिद्ध मुनि इन्द्राणाम् आसीत् कुसुम वर्षिणाम्॥ 27

एवम् निहत्य द्विविदम् जगत् व्यतिकर आवहम्।
संस्तूयमानः भगवाः जनैः स्व पुरम् आविशत्॥ 28

इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम्
**दशम स्कन्धे उत्तरार्धे द्विविद वधः नाम सप्तषष्टितमः अध्यायः॥ 67॥

Friday, 16 May 2025

ஸ்கந்தம் 10: அத்யாயம் 66 (பௌண்ட்ரகன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

பௌண்ட்ரகன்

வதம்

ஸ்கந்தம் 10: அத்யாயம் 66

श्री शुकः उवाच
नन्द-व्रजम् गते रामे करूष-अधिपतिः नृप।
वासुदेवः अहम् इति अज्ञः दूतम् कृष्णाय प्राहिणोत् ॥ 1

त्वम् वासुदेवः भगवान् अवतीर्णः जगत्-पतिः।
इति प्रस्तोभितः बालैः मेने आत्मानम् अच्युतम् ॥ 2

दूतम् च प्राहिणोत् मन्दः कृष्णाय अव्यक्त-वर्त्मने।
द्वारकायाम् यथा बालः नृपः बाल-कृतः अबुधः ॥ 3

दूतः तु द्वारकाम् एत्य सभायाम् आस्थितम् प्रभुम्।
कृष्णम् कमल-पत्र-आक्षम् राजा-सन्देशम् अब्रवीत् ॥ 4

वासुदेवः अवतीर्णः अहम् एकः एव न च अपरः।
भूतानाम् अनुकम्पा-अर्थम् त्वम् तु मिथ्या-अभिधाम् त्यज ॥ 5

यानि त्वम् अस्मत्-चिह्नानि मौढ्यात् बिभर्षि सात्वत।
त्यक्त्वा ऐहि माम् त्वम् शरणम् नो चेत् देहि मम आहवम् ॥ 6

श्री शुकः उवाच
कत्थनम् तत् उपाकर्ण्य पौण्ड्रकस्य अल्प-मेधसः।
उग्रसेन-आदयः सभ्याः उच्चकैः जहसुः तदा ॥ 7

उवाच दूतम् भगवान् परिहास-कथाम् अनु।
उत्स्रक्ष्ये मूढ चिह्नानि यैः त्वम् एवम् विकत्थसे ॥ 8

मुखम् तत् अपिधाय अज्ञ कङ्क-गृध्र-वटैः आवृतः।
शयिष्यसे हतः तत्र भविता शरणम् शुनाम् ॥ 9

इति दूतः तत् आक्शेपम् स्वामिने सर्वम् आहरत्।
कृष्णः अपि रथम् आस्थाय काशीम् उपजगाम ह ॥ 10

पौण्ड्रकः अपि तत् उद्योगम् उपलभ्य महा-रथः।
अक्षौहिणीभ्याम् संयुक्तः निश्चक्राम पुरात् द्रुतम् ॥ 11

तस्य काशी-पतिः मित्रम् पार्ष्णि-ग्राहः अन्वयात् नृप।
अक्षौहिणीभिः तिसृभिः अपश्यत् पौण्ड्रकम् हरिः ॥ 12

शङ्ख-अरि-असि-गदा-शार्ङ्ग-श्रीवत्स-आद्य-उपलक्षितम्।
बिभ्राणम् कौस्तुभ-मणिम् वन-माला-विभूषितम् ॥ 13

कौशेय-वाससी पीते वसानम् गरुड-ध्वजम्।
अमूल्य-मौल्य-आभरणम् स्फुरत्-मकर-कुण्डलम् ॥ 14

दृष्ट्वा तम् आत्मनः तुल्य-वेषम् कृत्रिमम् आस्थितम्।
यथा नटम् रङ्ग-गतम् विजहास भृशम् हरिः ॥ 15

शूलैः गदाभिः परिघैः शक्तिः ऋष्टि-प्रास-तोमरैः।
असिभिः पट्टिशैः बाणैः प्राहरन् अरयः हरिम् ॥ 16

कृष्णः तु तत् पौण्ड्रक-काशि-राजयोः-
बलम् गज-स्यन्दन-वाजि-पत्तिमत्।
गदा-असि-चक्र-इषुभिः आर्दयत् भृशम्
यथा युग-अन्ते हुत-भुक् पृथक् प्रजाः ॥ 17

आयोधनम् तत् रथ-वाजि-कुञ्जर-
द्विपत्-खर-उष्ट्रैः अरिणा अवखण्डितैः।
बभौ चितम् मोद-वहम् मनस्विनाम्-
आक्रीडनम् भूत-पतेः इव उल्बणम् ॥ 18

अथ आह पौण्ड्रकम् शौरिः भो भो पौण्ड्रक यत् भवान्।
दूत-वाक्येन माम् आह तानि अस्त्राणि उत्सृजामि ते ॥ 19

त्याजयिष्ये अभिधानम् मे यत् त्वया अज्ञ मृषा धृतम्।
व्रजामि शरणम् ते अद्य यदि न इच्छामि संयुगम् ॥ 20

 इति क्षिप्त्वा शितैः बाणैः विरथीकृत्य पौण्ड्रकम्।
शिरः अवृश्चत् रथाङ्गेन वज्रेण इन्द्रः यथा गिरेः॥ २१

तथा काशीपतेः कायात् शिरः उत्कृत्य पत्रिभिः।
न्यपातयत् काशीपुर्यां पद्म-कोशम् इव अनिलः॥ २२

एवम् मत्सरिणम् हत्वा पौण्ड्रकं स-सखं हरिः।
द्वारकाम् आविशत् सिद्धैः गीयमान-कथा-अमृतः॥ २३

स नित्यं भगवत्-ध्यान-प्रध्वस्त-अखिल-बन्धनः।
बिभ्राणश्च हरेः राजन् स्वरूपं तत्-मयः अभवत्॥ २४

शिरः पतितम् आलोक्य राज-द्वारे स-कुण्डलम्।
किम् इदम् कस्य वा वक्त्रम् इति संशिशियिरे जनाः॥ २५

राज्ञः काशीपतेः ज्ञात्वा महिष्यः पुत्र-बान्धवाः।
पौराः च हा हताः राजन् नाथ नाथ इति प्रारुदन्॥ २६

सुदक्षिणः तस्य सुतः कृत्वा संस्था-विधिं पितुः।
निहत्य पितृ-हन्तारम् यास्यामि अपचितिं पितुः॥ २७

इति आत्मना अभिसन्धाय स-उपाध्यायः महेश्वरम्।
सुदक्षिणः अर्चयामास परमेण समाधिना॥ २८

प्रीतः अविमुक्ते भगवान् तस्मै वरम् अदात् भवः।
पितृ-हन्तृ-वध-उपायं स वव्रे वरम् ईप्सितम्॥ २९

दक्षिण-अग्निं परिचर ब्राह्मणैः समम् ऋत्विजम्।
अभिचार-विधानेन स च अग्निः प्रमथैः वृतः॥ ३०

साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः।
इति आदिष्टः तथा चक्रे कृष्णाय अभिचरन् व्रती॥ ३१

ततः अग्निः उत्थितः कुण्डात् मूर्तिमान् अति-भीषणः।
तप्त-ताम्र-शिखा-अश्मश्रुः अङ्गार-उद्गारि-लोचनः॥ ३२

दंष्ट्रा-उग्र-भ्रुकुटी-दण्ड-कठोर-आस्यः स्व-जिह्वया।
आलिहन् सृक्किणी नग्नः विधुन्वन् त्रिशिखं ज्वलन्॥ ३३

पद्भ्याम् ताल-प्रमाणाभ्याम् कम्पयन् अवनी-तलम्।
सः अयधावत् वृतः भूतैः द्वारकां प्रदहन् दिशः॥ ३४

तम् अभिचार-दहनम् आयान्तम् द्वारका-उकसः।
विलोक्य तत्रसुः सर्वे वन-दाहे मृगाः यथा॥ ३५

अक्षैः सभायां क्रीडन्तं भगवन्तम् भय-आतुराः।
त्राहि त्राहि त्रि-लोक-ईश वह्नेः प्रदहतः पुरम्॥ ३६

श्रुत्वा तत् जन-वैक्लव्यं दृष्ट्वा स्वानां च साध्वसम्।
शरण्यः सम्प्रहस्य आह मा भैष्ट इति अविताऽस्मि अहम्॥ ३७

सर्वस्य अन्तर्-बहिः-साक्षी कृत्यां माहेश्वरीं विभुः।
विज्ञाय तत्-विघात-अर्थं पार्श्वस्थं चक्रम् आदिशत्॥ ३८

तत् सूर्य-कोटि-प्रतिमं सुदर्शनं
जाज्वल्यमानं प्रलय-अनल-प्रभम्।
स्व-तेजसा खं ककुभः अथ रोदसी
चक्रं मुकुन्द-अस्त्रं अथ अग्निम् आर्दयत्॥ ३९

कृत्या-अनलः प्रतिहतः सः रथाङ्ग-पाणेः
अस्त्र-ओजसा स नृप भग्न-मुखः निवृत्तः।
वाराणसीं परिसमेत्य सुदक्षिणं तम्
स-ऋत्विक्-जनं समदहत् स्व-कृतः अभिचारः॥ ४०

चक्रं च विष्णोः तत् अनुप्रविष्टं
वाराणसीं स-आट्ट-सभा-आलय-आपणाम्।
स-गोपुर-आट्टालक-कोष्ठ-सङ्कुलाम्
स-कोश-हस्ति-अश्व-रथ-अन्न-शालाम्॥ ४१

दग्ध्वा वाराणसीं सर्वां विष्णोः चक्रं सुदर्शनम्।
भूयः पार्श्वम् उपातिष्ठत् कृष्णस्य अ-क्लिष्ट-कर्मणः॥ ४२

यः एतत् श्रावयेत् मर्त्यः उत्तम-श्लोक-विक्रमम्।
समाहितः वा शृणुयात् सर्व-पापैः प्रमुच्यते॥ ४३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशम-स्कन्धे उत्तरार्धे पौण्ड्रक-आदि-वधः नाम
षट्-षष्टितमः अध्यायः ॥ ६६