Followers

Search Here...

Sunday, 18 May 2025

ஸ்கந்தம் 10: அத்யாயம் 71 (கண்ணன் இந்த்ரப்ரஸ்தம் வருகை- ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணன்

இந்த்ரப்ரஸ்தம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 71

श्री-शुकः उवाच -
इति उदीरितम् आकर्ण्य देव-ऋषेः उद्धवः अब्रवीत्।
सभ्यानाम् मतम् आज्ञाय कृष्णस्य च महा-मतिः॥ 1

श्री-उद्धवः उवाच -
यत् उक्तम् ऋषिणा देव साचिव्यम् यक्ष्यतः त्वया।
कार्यं पैतृष्वसेयस्य रक्षा च शरण-ईषिणाम्॥ 2

यष्टव्यम् राजसूयेन दिक्-चक्र-जयिना विभो।
अतः जरासुत-जये उभय-अर्थः मतः मम॥ 3

अस्माकम् च महान्-अर्थः हि एतेन एव भविष्यति।
यशः च तव गोविन्द राज्ञः बद्धान् विमुञ्चतः॥ 4

सः वै दुर्विषहः राजा नाग-अयुत-समः बले।
बलिनाम् अपि च अन्येषाम् भीमम् समबलम् विना॥ 5

द्वै-रथे सः तु जेतव्यः मा शत-अक्षौहिणी-युतः।
ब्रह्मण्यः अभ्यर्थितः विप्रैः न प्रत्याख्याति कर्हिचित्॥ 6

ब्रह्म-वेष-धरः गत्वा तम् भिक्षेत वृकोदरः।
हनिष्यति न सन्देहः द्वै-रथे तव सन्निधौ॥ 7

निमित्तम् परम्-ईशस्य विश्व-सर्ग-निरोधयोः।
हिरण्यगर्भः शर्वः च कालस्य अ-रूपिणः तव॥ 8

गायन्ति ते विशद-कर्म गृहेषु देव्यः
राज्ञाम् स्व-शत्रु-वधम् आत्म-विमोक्षणम् च।
गोप्यः च कुञ्जर-पतेः जनक-आत्मजायाः
पित्रोः च लब्ध-शरणाः मुनयः वयम् च॥ 9

जरासन्ध-वधः कृष्ण भूरि-अर्थाय उपकल्पते।
प्रायः पाक-विपाकेन तव च अभिमतः क्रतुः॥ 10

श्री-शुकः उवाच -
इति उद्धव-वचः राजन् सर्वतः-भद्रम् अच्युतम्।
देव-ऋषिः यदु-वृद्धाः च कृष्णः च प्रत्यपूजयन्॥ 11

अथ आदेशत् प्रयाणाय भगवान् देवकी-सुतः।
भृत्यान् दारुक-जैत्र-आदीन् अनुज्ञाप्य गुरून् विभुः॥ 12

निर्गम्य अवरोधान् स्वान् स-सुतान् स-परिच्छदान्।
सङ्कर्षणम् अनुज्ञाप्य यदु-राजम् च शत्रु-हन्।
सूतः उपनीतम् स्व-रथम् आरुहत् गरुड-ध्वजम्॥ 13

ततः रथ-द्विप-भट-सादि-नायकैः
करालया परिवृतः आत्म-सेनया।
मृदङ्ग-भेरि-आनक-शङ्ख-गोमुखैः
प्रघोष-घोषित-ककुभः निराक्रमत्॥ 14

नृ-अश्व-इक-काञ्चन-शिबिकाभिः अच्युतम्
सः आत्मजाः पतिम् अनु सुव्रताः ययुः।
वर-अम्बर-आभरण-विलेपन-स्रजः
सुसंवृता नृभिः असी-चर्म-पाणिभिः॥ 15

नर-उष्ट्र-गौ-महिष-खर-अश्व-तर्जनः
करेणुभिः परिजन-वार-योषितः।
स्व-अलङ्कृताः कट-कुटि-कम्बल-अम्बरात्
उपस्कराः ययुः अधि-युज्य सर्वतः॥ 16

बलम् बृहत्-ध्वज-पट-छत्र-चामरैः
वर-आयुध-आभरण-किरीट-वर्मभिः।
दिवा-अंशुभिः तुमुल-रवम् बभौ रवेः
यथा अर्णवः क्षुभित-तिमिङ्गिल-उर्मिभिः॥ 17

अथ मुनिः यदु-पतिना सभाजितः
प्रणम्य तम् हृदि विदधत् विहायसा।
निशम्य तत्-व्यवसितम् आहृत-अर्हणः
मुकुन्द-दर्शन-निर्वृत-इन्द्रियः॥ 18

राज-दूतम् उवाच इदम् भगवान् प्रीणयन् गिरा।
मा भैष्ठ दूत भद्रम् वः घातयिष्यामि मागधम्॥ 19

इति उक्तः प्रस्थितः दूतः यथावत् अवदत् नृपान्।
ते अपि सन्दर्शनम् शौरेः प्रत्यैक्षन् यत् मुमुक्षवः॥ 20

आनर्त-सौवीर-मरून् तीर्त्वा विनशनम् हरिः।
गिरीन् नदीः अतीत् याय पुर-ग्राम-व्रज-आकरान्॥ 21

ततः दृषद्वतीम् तीर्त्वा मुकुन्दः अथ सरस्वतीम्।
पञ्चालान् अथ मत्स्यान् च शक्र-प्रस्थम् अथ अगमत्॥ 22

तम् उपागतम् आकर्ण्य प्रीतः दुर्दर्शनम् नृणाम्।
अजात-शत्रुः निरगात् सः उपाध्यायः सुहृत्-वृतः॥ 23

गीतः वादित्र-घोषेण ब्रह्म-घोषेण भूयसा।
अभ्ययात् सः हृषीकेशम् प्राणाः प्राणम् इव आदृतः॥ 24

दृष्ट्वा विक्लिन्न-हृदयः कृष्णम् स्नेहेन पाण्डवः।
चिरात् दृष्टम् प्रिय-तमम् सः सस्वजे अथ पुनः पुनः॥ 25

दोर्भ्याम् परिष्वज्य रमा-अमल-आलयम्
मुकुन्द-गात्रम् नृपतिः हत-अशुभः।
लेभे पराम् निर्वृतिम् अश्रु-लोचनः
हृष्यत्-तनुः विस्मृत-लोक-विभ्रमः॥ 26

तम् मातुलेयम् परिरभ्य निर्वृतः
भीमः स्मयन् प्रेम-जल-आकुल-इन्द्रियः।
यमौ किरीटी च सुहृत्-तमम् मुदा
प्रवृद्ध-बाष्पाः परिरेभिरे अच्युतम्॥ 27

अर्जुनेन परिष्वक्तः यमाभ्याम् अभिवादितः।
ब्राह्मणेभ्यः नमस्कृत्य वृद्धेभ्यः च यथार्हतः॥ 28

मानिनः मानयामास कुरु-सृञ्जय-कैकेयान्।
सूत-मागध-गन्धर्वा वन्दिनः च उपमन्त्रिणः॥ 29

मृदङ्ग-शङ्ख-पटह-वीणा-पणव-गोमुखैः।
ब्राह्मणाः च अरविन्द-आक्षम् तुष्टुवुः ननृतुः जगुः॥ 30

एवम् सुहृद्‌भिः पर्यस्तः पुण्य-श्लोक-शिखा-मणिः।
संस्तूयमानः भगवान् विवेश अलङ्कृतम् पुरम्॥ 31

संसिक्त-वर्त्म करिणाम् मद-गन्ध-तोयैः
चित्र-ध्वजैः कनक-तोरण-पूर्ण-कुम्भैः।
मृष्ट-आत्मभिः नव-दुकूल-विभूषण-स्रक्-
गन्धैः नृभिः युवतिभिः च विराज-मानम्॥ 32

उद्दीप्त-दीप-बलिभिः प्रति-सद्म-जाल-
निर्यात-धूप-रुचिरम् विलसत्-पताकम्।
मूर्धनि-अहेम-कलशैः रजत-उरु-शृङ्गैः
जुष्टम् ददर्श भवनैः कुरु-राज-धाम॥ 33

प्राप्तम् निशम्य नर-लोचन-पान-पात्र-
मौत्सुक्य-विश्लथित-केश दुकूल-बन्धाः।
सद्यः विसृज्य गृह-कर्म पतीन् च तल्पे
द्रष्टुम् ययुः युवतयः स्म नरेन्द्र-मार्गे॥ 34

तस्मिन् सु-सङ्कुलम् इभ-अश्व-रथ-द्विपद्भिः
कृष्णम् स-भार्यम् उपलभ्य गृह-आधिरूढाः।
नार्यः विकीर्य कुसुमैः मनसा उपगुह्य
सु-स्वागतम् विदधुः उत्स्मय-वीक्षितेन॥ 35

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द-पत्नीः
ताराः यथा उडुप-सहाः किम् अकार्यम् ऊभिः।
यत् चक्षुषाम् पुरुष-मौलिः उदार-हास-
लीला-अवलोक-कलया उत्सवम् आतनोति॥ 36

तत्र तत्र उपसङ्गम्य पौराः मङ्गल-पाणयः।
चक्रुः सपर्याम् कृष्णाय श्रेणी-मुख्याः हत-एिनसः॥ 37

अन्तः-पुर-जनैः प्रीत्या मुकुन्दः फुल्ल-लोचनैः।
स-सम्भ्रमैः अभ्युपेतः प्राविशत् राज-मन्दिरम्॥ 38

पृथा विलोक्य भ्रात्रेयम् कृष्णम् त्रिभुवन-ईश्वरम्।
प्रीत-आत्मा उत्थाय पर्यङ्कात् स-स्त्रुषा परिषस्वजे॥ 39

गोविन्दम् गृहम् आनीय देव-देव-ईशम् आदृतः।
पूजायाम् न अविदत् कृत्यम् प्रमोद-उपहतः नृपः॥ 40

पितृस्वसुः-गुरु-स्त्रीणाम् कृष्णः च अक्रेत् अभिवादनम्।
स्वयम् च कृष्णया राजन् भगिन्या च अभिवन्दितः॥ 41

श्वश्र्वा सञ्चोदिता कृष्णा कृष्ण-पत्नीः च सर्वशः।
आनर्च रुक्मिणीम् सत्याम् भद्राम् जाम्बवतीम् तथा॥ 42

कालिन्दीम् मित्रविन्दाम् च शैब्याम् नाग्नजितीम् सतीम्।
अन्याः च अभ्यागताः याः तु वासः-स्रक्-मण्डन-आदिभिः॥ 43

सुखम् निवासयामास धर्म-राजः जनार्दनम्।
स-सैन्यम् स-अनुगाम् अत्यम् स-भार्यम् च नवम् नवम्॥ 44

तर्पयित्वा खाण्डवेन वह्निम् फाल्गुन-संयुतः।
मोचयित्वा मयम् येन राज्ञे दिव्या सभा कृता॥ 45

उवास कतिचित् मासान् राज्ञः प्रिय-चिकीर्षया।
विहरन् रथम् आरुह्य फाल्गुनेन भटैः वृतः॥ 46

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्य इंद्रप्रस्थगमनं नाम एकसप्ततितमोऽध्यायः॥ 71

ஸ்கந்தம் 10: அத்யாயம் 70 (ராஜஸூயம் செல்வதா? ஜராஸந்தனை கொல்வதா? - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ராஜஸூயம் செல்வதா? ஜராஸந்தனை கொல்வதா?

ஸ்கந்தம் 10: அத்யாயம் 70

श्री शुक उवाच
अथ उषस्य उपवृत्तायां कुक्कुटान् कूजतः अशपन् ।
गृहीत-कण्ठ्यः पतिभिः माधव्यः विरह-आतराः ॥ 1

वयांसि अरूरुवन् कृष्णम् बोधयन्ती इव वन्दिनः ।
गायत्सु अलीषु अनिद्राणि मन्दार-वन-वायुभिः ॥ 2

मुहूर्तम् तम् तु वैदर्भी न अमृष्यत अतिशोभनम् ।
परिरम्भण-विश्लेषात् प्रिय-बाहु-अन्तरं गता ॥ 3

ब्राह्मे मुहूर्ते उत्थाय वारि उपस्पृश्य माधवः ।
दध्यौ प्रसन्न-करण आत्मानं तमसः परम् ॥ 4

एकं स्वयम्-ज्योतिः अनन्यम् अव्ययम्
स्वसंस्थया नित्य-निरस्त-कल्मषम् ।
ब्रह्म-आख्यम् अस्य उद्‌भव-नाश-हेतुभिः
स्वशक्तिभिः लक्षित-भाव-निर्वृतिम् ॥ 5

अथ आप्लुतः अम्भसि अमले यथाविधि
क्रिया-कलापं परिधाय वाससी ।
चकार सन्ध्या-उपगम-आदि सत्तमः
हुत-अनलः ब्रह्म जजाप वाक्-यतः ॥ 6

उपस्थाय अर्कम् उद्यन्तं तर्पयित्वा आत्मनः कलाः ।
देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य च आत्मवान् ॥ 7

धेनूनां रुक्म-श्रृङ्गीणां साध्वीनां मौक्तिक-स्रजाम् ।
पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ 8

ददौ रूप्य-खुर-अग्राणां क्षौम-अजिन-तिलैः सह ।
अलङ्कृतेभ्यः विप्रेभ्यः बद्वं बद्वं दिने दिने ॥ 9

गो-विप्र-देवता-वृद्ध-गुरून् भूतानि सर्वशः ।
नमस्कृत्य आत्म-सम्भूतिः मङ्गलानि समस्पृशत् ॥ 10

आत्मानं भूषयामास नर-लोक-विभूषणम् ।
वासोभिः भूषणैः स्वीयैः दिव्य-स्रक्-अनुलेपनैः ॥ 11

अवेक्ष्य आज्यम् तथा आदर्शं गो-वृष-द्विज-देवताः ।
कामान् च सर्व-वर्णानां पौर-अन्तःपुर-चारिणाम्
प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ 12

संविभज्य अग्रतः विप्रान् स्रक्-ताम्बूल-अनुलेपनैः ।
सुहृदः प्रकृतीः दारान् उपायुङ्क्त ततः स्वयम् ॥ 13

तावत् सूतः उपानीय स्यन्दनं परम-अद्भुतम् ।
सुग्रीव-आद्यैः हयैः युक्तं प्रणम्य अवस्थितः अग्रतः ॥ 14

गृहीत्वा पाणिना पाणी सारथेः तम् अथ आरुहत् ।
सात्यकि-उद्धव-संयुक्तः पूर्व-अद्रिम् इव भास्करः ॥ 15

ईक्षितः अन्तःपुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैः ।
कृच्छ्रात् विसृष्टः निरगात् जात-हासः हरन् मनः ॥ 16

सुधर्मा-आख्यां सभां सर्वैः वृष्णिभिः परिवारितः ।
प्राविशत् यत् निविष्टानां न सन्ति अङ्ग षड् ऊर्मयः ॥ 17

तत्र उपविष्टः परम-आसने विभुः
बभौ स्व-भासा ककुभः अवभासयन् ।
वृतः नृसिंहैः यदुभिः यदूत्तमः
यथा उडु-राजः दिवि तारका-गणैः ॥ 18

तत्र उपमंत्रिणः राजन् नाना-हास्य-रसैः विभुम् ।
उपतस्थुः नट-आचार्याः नर्तक्यः ताण्डवैः पृथक् ॥ 19

मृदङ्ग-वीणा-मुरज-वेणु-ताल-दर-स्वनैः ।
ननृतुः जगुः तुष्टुवुश् च सूत-मागध-वन्दिनः ॥ 20

तत्र आहुः ब्राह्मणाः केचित् आसीनाः ब्रह्मवादिनः।
पूर्वेषाम् पुण्य-यशसाम् राज्ञाम् च आकथयन् कथाः॥ 21

तत्र एकः पुरुषः राजन् आगतः अपूर्व-दर्शनः।
विज्ञापितः भगवते प्रतीहारैः प्रवेशितः॥ 22

सः नमस्कृत्य कृष्णाय परेशाय कृत-अञ्जलिः।
राज्ञाम् आवेदयत् दुःखम् जरासन्ध-निरोध-जम्॥ 23

ये च दिक्-विजये तस्य सन्नतिम् न ययुः नृपाः।
प्रसह्य रुद्धाः तेन आसन् अयुते द्वे गिरिव्रजे॥ 24

कृष्ण कृष्ण अ-प्रमेय-आत्मन् प्रपन्न-भय-भञ्जन।
वयम् त्वाम् शरणम् यामः भव-भीताः पृथक्-धियः॥ 25

लोकः विकर्म-निरतः कुशले प्रमत्तः
कर्मणि अयम् त्वत्-उदिते भवत्-अर्चने स्वे।
यः तावत् अस्य बलवान् इह जीवित-आशाम्
सद्यः छिनत्ति अ-निमिषाय नमः अस्तु तस्मै॥ 26

लोके भवान् जगत्-इनः कलया अवतीर्णः
सत्-रक्षणाय खल-निग्रहणाय च अन्यः।
कश्चित् त्वदीयम् अ-तियाति निर्देशम् ईश
किं वा जनः स्व-कृतम् ऋच्छति तत् न विद्मः॥ 27

स्वप्न-आयितम् नृप-सुखम् पर-तंत्रम् ईश
शश्वत्-भयेन मृतकेन धुरम् वहामः।
हित्वा तत् आत्मनि सुखम् त्वत्-अनिह-लभ्यम्
क्लिश्यामहे अति-कृपणाः तव मायया इह॥ 28

तत् नः भवान् प्रणत-शोक-हर-अङ्घ्रि-युग्मः
बद्धान् वियुङ्क्ष्व मगध-अह्वय-कर्म-पाशात्।
यः भूभुजः अयुतम् अतङ्गज-वीर्यम् एकः
बिभ्रत् रुरोध भवने मृग-राट् इव आवीः॥ 29

यः वै त्वया द्वि-नव-कृत्वः उदात्त-चक्रः
भग्नः मृधे खलु भवन्तम् अनन्त-वीर्यम्।
जित्वा नृ-लोक-निरतम् सकृत्-ऊढ-दर्पः
युष्मत्-प्रजाः रुजति नः अ-जित तत् विधेहि॥ 30

दूतः उवाच -
इति मागध-संरुद्धाः भवत्-दर्शन-काङ्क्षिणः।
प्रपन्नाः पाद-मूलम् ते दीनानाम् शम् विधीयताम्॥ 31

श्री-शुकः उवाच -
राज-दूते ब्रुवति एवम् देवर्षिः परम-द्युतिः।
बिभ्रत् पिङ्ग-जटा-भारम् प्रादुरासीद् यथा रविः॥ 32

तम् दृष्ट्वा भगवान् कृष्णः सर्व-लोक-ईश्वर-ईश्वरः।
ववन्द उप्त्थितः शीर्ष्णा स-सभ्यः स-अनुगः मुदा॥ 33

स-भाजयित्वा विधिवत् कृत-आसन-परिग्रहम्।
बभाषे सु-नृतैः वाक्यैः श्रद्धया तर्पयन् मुनिम्॥ 34

अपि स्वित् अद्य लोकानाम् त्रयाणाम् अ-कुतः-भयम्।
ननु भूयान् भगवतः लोकान् पर्यटतः गुणः॥ 35

न हि ते अ-विदितम् किञ्चित् लोकेषु ईश्वर-कर्तृषु।
अथ पृच्छामहे युष्मान् पाण्डवानाम् चिकीर्षितम्॥ 36

श्री-नारदः उवाच -
दृष्टा माया ते बहुशः दुरत्यया
माया विभो विश्व-सृजः च मायिनः।
भूतेषु भूमन् चरतः स्व-शक्तिभिः
वह्नेः इव अच्छन्न-रुचः न मे अद्भुतम्॥ 37

तव ईहितम् कः अर्हति साधु वेदितुम्
स्व-मायया इदम् सृजतः नियच्छतः।
यत् विद्यमान-आत्मतया अवभासते
तस्मै नमः ते स्व-विलक्षण-आत्मने॥ 38

जीवस्य यः संसरतः विमोक्षणम्
न जानतः अनर्थ-वहात् शरीरतः।
लीला-अवतारैः स्व-यशः प्रदीपकम्
प्राज्वालयत् त्वा तम् अहम् प्रपद्ये॥ 39

अथ अपि आश्रावये ब्रह्म नर-लोक-विडम्बनम्।
राज्ञः पैतृ-ष्वसियस्य भक्तस्य च चिकीर्षितम्॥ 40


यक्ष्यति त्वाम् मख-इन्द्रेण राजसूयेन पाण्डवः।
पारमेष्ठ्य-कामः नृपतिः तत् भवान् अनुमोदताम्॥ 41

तस्मिन् देव क्रतुः-वरे भवन्तम् वै सुर-आदयः।
दिदृक्षवः समेष्यन्ति राजानः च यशस्विनः॥ 42

श्रवणात् कीर्तनात् ध्यानात् पूयन्ते अन्तेवसायिनः।
तव ब्रह्ममयस्य ईश किम् उत् ईक्षा-अभिमर्शिनः॥ 43

यस्य अमलम् दिवि यशः प्रथितम् रसायाम्
भूमौ च ते भुवन-मङ्गल दिक्-वितानम्।
मन्दाकिनी इति दिवि भोगवती इति च अधः
गङ्गा इति च इह चरण-अम्बु पुनाति विश्वम्॥ 44

श्री-शुकः उवाच -
तत्र तेषु आत्म-पक्षेषु गृह्णत्सु विजिगीषया।
वाचः पेशैः स्मयन् भृत्यम् उद्धवम् प्राह केशवः॥ 45

श्री-भगवान् उवाच -
त्वम् हि नः परमम् चक्षुः सुहृत्-मन्त्र-अर्थ-तत्त्व-वित्।
तथा अत्र ब्रूहि अनुस्थेयं श्रद्दध्मः करवाम तत्॥ 46

इति उपामंत्रितः भर्त्रा सर्वज्ञेन अपि मुग्धवत्।
निदेशम् शिरसा आधाय उद्धवः प्रत्यभाषत॥ 47

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे भगवद्यानविचारे नाम सप्ततितमोऽध्यायः॥ 70