Followers

Search Here...

Sunday, 18 May 2025

ஸ்கந்தம் 10: அத்யாயம் 55 (ப்ரத்யும்னன் பிறப்பு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ப்ரத்யும்னன் பிறப்பு

ஸ்கந்தம் 10: அத்யாயம் 55

श्री-शुकः उवाच –

कामः तु वासुदेव-अंशः दग्धः प्राक् रुद्र-मन्युना।
देह-उपपत्तये भूयः तम् एव प्रत्यपद्यत॥ १ ॥

सः एव जातः वैदर्भ्याम् कृष्ण-वीर्य-समुद्भवः।
प्रद्युम्नः इति विख्यातः सर्वतः अनवमः पितुः॥ २ ॥

तम् शम्बरः काम-रूपी हृत्वा तोकम् अनिर्दशम्।
सः विदित्वा आत्मनः शत्रुम् प्रास्य उदन्वति अगात् गृहम्॥ ३ ॥

तम् निर्जगार बलवान् मीनः सः अपि अपरैः सह।
वृतः जालेन महता गृहीतः मत्स्य-जीविभिः॥ ४ ॥

तम् शम्बराय कैवर्ताः उपाजह्रुः उपायनम्।
सूदा महानसम् नीत्वा अवद्यान् स्व-धिति-नाद्भुतम्॥ ५ ॥

दृष्ट्वा तत् उदरे बालम् मायावत्यै न्यवेदयन्।
नारदः अकथयत् सर्वम् तस्याः शङ्कित-चेतसः।
बालस्य तत्त्वम् उत्पत्तिम् मत्स्य-उदर-निवेशनम्॥ ६ ॥

सा च कामस्य वै पत्नी रतिः नाम यशस्विनी।
पत्युः निर्दग्ध-देहस्य देह-उत्पत्तिम् प्रतीक्षती॥ ७ ॥

निरूपिता शम्बरेण सा सूप-ओदन-साधने।
काम-देवम् शिशुम् बुद्ध्वा चक्रे स्नेहम् तत् अर्भके॥ ८ ॥

न अति-दीर्घेण कालेन सः कार्ष्णिः रूढ-यौवनः।
जनयामास नारीणाम् वीक्षन्तीनाम् च विभ्रमम्॥ ९ ॥

सा तम् पतिम् पद्म-दल-आयत-ईक्षणम्
प्रलम्ब-बाहुम् नर-लोक-सुन्दरम्।
स-व्रीड-हास-उत्तभित-भ्रुव्-ईक्षणी
प्रीत्या उपतस्थे रतिः अङ्ग सौरतैः॥ १० ॥

ताम् अह भगवान् कार्ष्णिः मातः ते मतिः अन्यथा।
मातृ-भावम् अतिक्रम्य वर्तसे कामिनी यथा॥ ११ ॥

रतिः उवाच –
भवान् नारायण-सुतः शम्बरेण आहृतः गृहात्।
अहम् ते अधिकृता पत्नी रतिः कामः भवान् प्रभो॥ १२ ॥

एषः त्वा अनिर्दशम् सिन्धौ अक्षिपत् शम्बरः असुरः।
मत्स्यः अग्रसीत् तत् उदरात् इह प्राप्तः भवान् प्रभो॥ १३ ॥

तम् इमम् जहि दुर्धर्षम् दुर्जयम् शत्रुम् आत्मनः।
माया-शत-विदम् त्वम् च माया-भिः मोहन-आदिभिः॥ १४ ॥

परीशोचति ते माता कुररी-इव गत-प्रजा।
पुत्र-स्नेह-आकुला दीना विवत्सा गौः इव आतुरा॥ १५ ॥

प्रभाष्य एवं ददौ विद्याम् प्रद्युम्नाय महा-आत्मने।
मायावती महा-मायाम् सर्व-माया-विनाशिनीम्॥ १६ ॥

सः च शम्बरम् अभ्येत्य संयुगाय समाह्वयत्।
अविषह्यैः तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम्॥ १७ ॥

सः अधिक्षिप्तः दुर्वाचोभिः पद-आहतः इव उरगः।
निश्चक्राम गदा-पाणिः अमर्षात् ताम्र-लोचनः॥ १८ ॥

गदाम् आविध्य तरसा प्रद्युम्नाय महा-आत्मने।
प्रक्षिप्य व्यनदत् नादम् वज्र-निष्पेष-निष्ठुरम्॥ १९ ॥

ताम् आपतन्तीम् भगवान् प्रद्युम्नः गदया गदाम्।
अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्व-गदाम् नृप॥ २० ॥

सः च मायाम् समाश्रित्य दैतेयीम् मय-दर्शिताम्।
मुमुचे अस्त्र-मयम् वर्षम् कार्ष्णौ वैहायसः असुरः॥ २१ ॥

बाध्यमानः अस्त्र-वर्षेण रौक्मिणेयः महा-रथः।
सत्त्व-आत्मिकाम् महा-विद्याम् सर्व-माया-उपमर्दिनीम्॥ २२ ॥

ततः गौह्यक-गान्धर्व-पैशाच-उरग-राक्षसीः।
प्रायुङ्क्त शतशः दैत्यः कार्ष्णिः व्यधमयत् सः ताः॥ २३ ॥

निशात-मसिम् उद्यम्य स-किरीटम् स-कुण्डलम्।
शम्बरस्य शिरः कायात् ताम्र-अश्मश्रु-ओजसा अहरत्॥ २४ ॥

आकीर्यमाणः दिविजैः स्तुवद्भिः कुसुम-उत्करैः।
भार्यया अम्बर-चारिण्या पुरम् नीतः विहायसा॥ २५ ॥

अन्तःपुर-वरम् राजन् ललना-शत-सङ्कुलम्।
विवेश पत्नीया गगनात् विद्युता इव बलाहकः॥ २६ ॥

तम् दृष्ट्वा जलद-श्यामम् पीत-कौशेय-वाससम्।
प्रलम्ब-बाहुम् ताम्र-अक्षम् सुस्मितम् रुचिर-आननम्॥ २७ ॥

स्वलङ्कृत-मुख-अम्भोजम् नील-वक्र-आल-कालिभिः।
कृष्णम् मत्वा स्त्रियः ह्रीताः निलिल्युः तत्र तत्र ह॥ २८ ॥

अवधार्य शनैः ईषत्-वैलक्षण्येन योषितः।
उपजग्मुः प्रमुदिताः स-स्त्री-रत्नम् सुविस्मिताः॥ २९ ॥

अथ तत्र आसित-अपाङ्गी वैदर्भी वल्गु-भाषिणी।
अस्मरत् स्व-सुतम् नष्टम् स्नेह-स्नुत-पयोधरा॥ ३० ॥

कः नु अयम् नर-वैदूर्यः कस्य वा कमल-ईक्षणः।
धृतः कया वा जठरे का इयम् लब्धा तु अनेन वा॥ ३१ ॥

मम च अपि आत्मजः नष्टः नीतः यः सूतिका-गृहात्।
एतत्-तुल्य-वयः-रूपः यदि जीवति कुत्रचित्॥ ३२ ॥

कथम् तु अनेन सम्प्राप्तम् सारूप्यम् शार्ङ्ग-धन्वनः।
आकृत्या अवयवैः गत्या स्वर-हास-आवलोकनैः॥ ३३ ॥

सः एव वा भवेत् नूनम् यः मे गर्भे धृतः अर्भकः।
अमुष्मिन् प्रीतिः अधिका वामः स्फुरति मे भुजः॥ ३४ ॥

एवम् मीमांसमानायाम् वैदर्भ्याम् देवकी-सुतः।
देवक्या अनक-दुन्दुभ्याम् उत्तम-श्लोकः आगमत्॥ ३५ ॥

विज्ञात-अर्थः अपि भगवान् तूष्णीम् आस जनार्दनः।
नारदः अकथयत् सर्वम् शम्बर-हरण-आदिकम्॥ ३६ ॥

तत् श्रुत्वा महत् आश्चर्यम् कृष्ण-अन्तःपुर-योषितः।
अभ्यनन्दन् बहून् अब्दान् नष्टम् मृतम् इव आगतम्॥ ३७ ॥

देवकी वसुदेवः च कृष्ण-रामौ तथा स्त्रियः।
दम्पती तौ परिष्वज्य रुक्मिणी च ययुः मुदम्॥ ३८ ॥

नष्टम् प्रद्युम्नम् आयातम् आकर्ण्य द्वारका-उकसः।
अहो मृतः इव आयातः बालः दिष्ट्या इति ह अब्रुवन्॥ ३९ ॥

यम् वै मुहुः पितृ-सरूप-निज-ईश-भावाः
तत्-मातरः यद् अभजन् रहः-रूढ-भावाः।
चित्रम् न तत् खलु रमा-आस्पद-बिम्ब-बिम्बे
कामे स्मरे अक्ष-विषये किम् उत अन्य-नार्यः॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः॥ 55 ॥

ஸ்கந்தம் 10: அத்யாயம் 72 (ஜராஸந்தன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 ஜராஸந்தன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 72

श्री-शुकः उवाच –
एकदा तु सभा-मध्ये आस्थितः मुनिभिः वृतः।
ब्राह्मणैः क्षत्रियैः वैश्यैः भ्रातृभिः च युधिष्ठिरः॥ 1

आचार्यैः कुल-वृद्धैः च ज्ञाति-संबन्धि-बान्धवैः।
श्रृण्वताम् एव च एतेषाम् आभाष्य इदम् उवाच ह॥ 2

युधिष्ठिरः उवाच –
क्रतुराजेन गोविन्द राजसूयेन पावनीः।
यक्ष्ये विभूतिः भवतः तत् सम्पादय नः प्रभो॥ 3

त्वत्-पादुके अविरतम् परि ये चरन्ति।
ध्यायन्ति अभद्र-नशने शुचयः गृणन्ति।
विन्दन्ति ते कमल-नाभ भव-अपवर्गम्।
आशासते यदि ते आशिषः ईश न अन्ये॥ 4

तत् देवदेव भवतः चरण-अरविन्द-
सेवा-अनुभावम् इह पश्यतु लोकः एषः।
ये त्वाम् भजन्ति न भजन्ति उत वा उभयेषाम्
निष्ठाम् प्रदर्शय विभो कुरु-सृञ्जय-आनाम्॥ 5

न ब्रह्मणः स्व-पर-भेद-मतिः तव स्यात्
सर्वात्मनः सम-दृशः स्व-सुख-अनुभूतेः।
संसेवताम् सुर-तरोः इव ते प्रसादः
सेवा-अनुरूपम् उदयः न विपर्ययः अत्र॥ 6

श्री-भगवान् उवाच –
सम्यक् व्यवसितम् राजन् भवता शत्रु-कर्शन।
कल्याणी येन ते कीर्तिः लोकान् अनु भविष्यति॥ 7

ऋषीणाम् पितृ-देवानाम् सुहृदाम् अपि नः प्रभो।
सर्वेषाम् अपि भूतानाम् इप्सितः क्रतुराट् अयम्॥ 8

विजित्य नृपतीन् सर्वान् कृत्वा च जगतीम् वशे।
संभृत्य सर्व-संभारान् आहरस्व महा-क्रतुम्॥ 9

एते ते भ्रातरः राजन् लोकपाल-अंश-सम्भवाः।
जितः अस्मि आत्मवता ते अहम् दुर्जयः यः अकृत-आत्मभिः॥ 10

न कश्चित् मत्-परम् लोके तेजसा यशसा श्रिया।
विभूतिभिः वा अभिभवेत् देवः अपि किम् उ पार्थिवः॥ 11

श्री-शुकः उवाच –
निशम्य भगवत्-गीतम् प्रीतः फुल्ल-मुख-अम्बुजः।
भ्रातृन् दिग्-विजये अयुङ्क्त विष्णु-तेजः-उपबृंहितान्॥ 12

सहदेवम् दक्षिणस्याम् आदिशत् सह सृञ्जयैः।
दिशि प्रतीच्याम् नकुलम् उदीच्याम् सव्यसाचिनम्।
प्राच्याम् वृकोदरम् मत्स्यैः केकयैः सह मद्रकैः॥ 13

ते विजित्य नृपान् वीराः आजह्रुः दिग्भ्यः ओजसा।
अजात-शत्रवे भूरि द्रविणम् नृप यक्ष्यते॥ 14

श्रुत्वा अजितम् जरासन्धम् नृपतेः ध्यायतः हरिः।
आह उपायम् तम् एव अद्य उद्धवः यम् उवाच ह॥ 15

भीमसेनः अर्जुनः कृष्णः ब्रह्म-लिङ्ग-धराः त्रयः।
जग्मुः गिरिव्रजम् तात बृहद्रथ-सुतः यतः॥ 16

ते गत्वा आतिथ्य-वेलायाम् गृहेषु गृह-मेधिनम्।
ब्रह्मण्यं समयाचेरन् राजन्याः ब्रह्म-लिङ्गिनः॥ 17

राजन् विद्धि अतिथीन् प्राप्तान् अर्थिनः दूरम् आगतान्।
तत् नः प्रयच्छ भद्रं ते यत् वयम् कामयामहे॥ 18

किम् दुर्मर्षम् तितिक्षूणाम् किम् अकार्यं असाधुभिः।
किम् न देयम् वदान्यानाम् कः परः सम-दर्शिनाम्॥ 19

यः अनित्येन शरीरेण सताम् गेयं यशः ध्रुवम्।
न आचिनोति स्वयम् कल्पः सः वाच्यः शोच्यः एव सः॥ 20

हरिश्चन्द्रः रन्तिदेवः उञ्छ-वृत्तिः शिबिः बलिः।
व्याधः कपोतः बहवः हि अध्रुवेण ध्रुवम् गताः॥ 21

श्री-शुकः उवाच –
स्वरैः आकृतिभिः तान् तु प्रकोष्ठैः ज्या-हतैः अपि।
राजन्य-बन्धून् विज्ञाय दृष्ट-पूर्वान् अचिन्तयत्॥ 22

राजन्य-बन्धवः हि एते ब्रह्म-लिङ्गानि बिभ्रति।
ददामि भिक्षितम् तेभ्यः आत्मानम् अपि दुष्ट्यजम्॥ 23

बलेः नु श्रूयते कीर्तिः वितता दिक्षु अकल्मषा।
ऐश्वर्यात् भ्रंशितस्य अपि विप्र-व्याजेन विष्णुना॥ 24

श्रियम् जिहीर्षता इन्द्रस्य विष्णवे द्विज-रूपिणे।
जानन् अपि महीम् प्रादात् वार्यमाणः अपि दैत्य-राट्॥ 25

जीवता ब्राह्मण-अर्थाय कः नु अर्थः क्षत्र-बन्धुना।
देहेन पतमानेन न इहता विपुलम् यशः॥ 26

इति उदार-मतिः प्राह कृष्ण-अर्जुन-वृकोदरान्।
हे विप्राः व्रियताम् कामः ददामि आत्म-शिरः अपि वः॥ 27

श्री-भगवान् उवाच –
युद्धम् नः देहि राजेन्द्र द्वन्द्वशः यदि मन्यसे।
युद्ध-अर्थिनः वयम् प्राप्ताः राजन्याः न अन्न-काङ्क्षिणः॥ 28

असौ वृकोदरः पार्थः तस्य भ्राता अर्जुनः हि अयम्।
अनयोः मातुलेयम् माम् कृष्णम् जानीहि ते रिपुम्॥ 29

एवम् आवेदितः राजा जहास उच्चैः स्म मागधः।
आह च आमर्षितः मन्दः युद्धम् तर्हि ददामि वः॥ 30

न त्वया भीरुणा योत्स्ये युधि विक्लव-चेतसा।
मथुराम् स्व-पुरीम् त्यक्त्वा समुद्रम् शरणम् गतः॥ 31

अयम् तु वयसा तुल्यः न अति-सत्त्वः न मे समः।
अर्जुनः न भवेत् योद्धा भीमः तुल्य-बलः मम॥ 32

इति उक्त्वा भीमसेनाय प्रादाय महतीम् गदाम्।
द्वितीयाम् स्वयम् आदाय निर्जगाम पुरात् बहिः॥ 33

ततः समे खले वीरौ संयुक्तौ इतरेतरौ।
जघ्नतुः वज्र-कल्पाभ्याम् गदाभ्याम् रण-दुर्मदौ॥ 34

मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च।
चरतोः शुशुभे युद्धम् नटयोः इव रङ्गिणोः॥ 35

ततः चटचट-शब्दः वज्र-निष्पेष-सन्निभः।
गदयोः क्षिप्तयोः राजन् दन्तयोः इव दन्तिनोः॥ 36

ते वै गदे भुज-जवेन निपात्यमाने।
अन्योन्यतः अंस-कटि-पाद-करोरु-जत्रून्।
चूर्णीबभूवतुः उपेत्य यथा अर्क-शाखे।
संयुध्यतोः द्विरदयोः इव दीप्त-मन्व्योः॥ 37

इथं तयोः प्रहतयोः गदयोः नृ-वीरौ।
क्रुद्धौ स्व-मुष्टिभिः अयः-स्पर्शैः अपिष्टाम्।
शब्दः तयोः प्रहरतोः इभयोः इव आसीत्।
निर्घात-वज्र-परुषः तल-ताडन-उत्थः॥ 38

तयोः एवम् प्रहरतोः सम-शिक्षा-बल-ओजसोः।
निर्विशेषम् अभूत् युद्धम् अक्षीण-जवयोः नृप॥ 39

एवम् तयोः महा-राज युध्यतोः सप्त-विंशतिः।
दिनानि निरगम् तत्र सुहृत्-वत् निशि तिष्ठतोः॥ 40

एकदा मातुलेयम् वै प्राह राजन् वृकोदरः।
न शक्तः अहम् जरासन्धम् निर्जेतुम् युधि माधव॥ 41

शत्रोः जन्म-मृती विद्वान् जीवितम् च जरा-आकृतम्।
पार्थम् आप्याययन् स्वेन तेजसा अचिन्तयत् हरिः॥ 42

सञ्चिन्त्य अरि-वध-उपायम् भीमस्य अमोघ-दर्शनः।
दर्शयामास विटपम् पाटयन् इव संज्ञया॥ 43

तत् विज्ञाय महा-सत्त्वः भीमः प्रहरताम् वरः।
गृहीत्वा पादयोः शत्रुम् पातयामास भूतले॥ 44

एकम् पादम् पद-अाक्रम्य दोर्भ्याम् अन्यम् प्रगृह्य सः।
गुदतः पाटयामास शाखाम् इव महा-गजः॥ 45

एक-पाद-उरु-वृषण-कटि-पृष्ठ-स्तन-अंसके।
एक-बाहु-अक्षि-भ्रू-कर्णे शकले ददृशुः प्रजाः॥ 46

हाहाकारः महाअासीत् निहते मगध-ईश्वरे।
पूजयामासतुः भीमम् परिरभ्य जय-अाच्यतौ॥ 47

सहदेवम् तत् तनयम् भगवान् भूत-भावनः।
अभ्यषिञ्चत् अमेय-आत्मा मगधानाम् पतिम् प्रभुः।
मोचयामास राजन्यान् संरुद्धान् मागधेन ये॥ 48

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे जरासन्धवधो नाम द्विसप्ततितमोऽध्यायः॥72